All kośas › Pañcatattvaprakāśa
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa
409 verses · 3,817 words tagged · 962 marked doubtful (dashed)
भूमिभानुः · वृक्षलतौषधिमरीचिः
इति चतुःपदमरीचिः
विपिनं काननारण्ये गहनं गह्वरं वनम् ।आक्रीडो वातिकोद्यानमारामो राजकाननम् ॥ १४८ ॥
1.4.148 · p. 11
अनुष्टुप्
तरुर्महीरुहो वृक्षः पादपो विटपी कुटः ।पलाशी मूलपः शालो दुर्द्रुमो वल्लरीपतिः ॥ १४९ ॥
1.4.149 · p. 11
अनुष्टुप्
प्रतानिनी लता वीरुद्गुल्मिनी व्रततिर्द्रुगा ।अङ्कुरो द्विदलः काण्डः प्रकाण्डो मूलमस्तकम् ॥ १५० ॥
1.4.150 · p. 11
अनुष्टुप्
मूलपाग्रं शिफाप्रान्तं शिफा शाखावरोहकः ।उत्सेध उच्छ्रय[यः] इध्म दारु काष्ठेन्धनं गुडम् ॥ १५१ ॥
1.4.151 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पलाशः पल्लवः पर्णं दलं पत्रं छदोऽङ्घ्रिकम् ।कलिका कोरकः कुड्मी प्रफुल्लो विकचः स्फुटः ॥ १५२ ॥
1.4.152 · p. 11
अनुष्टुप्
मुकुलः कुलमानाग्रो गुच्छस्तबकगुच्छलौ ।प्रसूनं कुसुमं पुष्पं वृन्तं प्रसवबन्धनम् ॥ १५३ ॥
1.4.153 · p. 11
अनुष्टुप्
मधुर्मरन्दः पुष्परजः परागो मकरन्दकः ।अश्वत्थः कुञ्जरसुधा पिप्पलश्चलपत्रकः ॥ १५४ ॥
1.4.154 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जटी वटो जटापादो न्यग्रोधः प्लक्ष आश्रितः ।कद्रुः पलाशस्त्रिदलः किंशुको वक्रपुष्पकः ॥ १५५ ॥
1.4.155 · p. 11
अनुष्टुप्
हेमदुग्धः कीटफलो यज्ञदारुरुदुम्बरः ।श्रीफलः श्रीद्रुमो बिल्वः बकुलो हिज्जलोऽम्बुकः ॥ १५६ ॥
1.4.156 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 की (wrong syllable)
गन्धपत्रो नीलफलो जम्बू नीरान्तराजरः ।आम्रो रसालः कामाङ्गो माकन्दः पिकवल्लभः ॥ १५७ ॥
1.4.157 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
चूतोऽतिसौरभः सीधुरसो माधवपादपः ।शाल्मलिः कीरनिलयः पिच्छिलो रक्तपुष्पकः ॥ १५८ ॥
1.4.158 · p. 11
अनुष्टुप्
हयमारः शंभुपुष्पः[प] करवीरो जटाविषः ।सोमसारः कुष्ठरिपुः खदिरो व्रणपूरकः ॥ १५९ ॥
1.4.159 · p. 12
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कु (wrong syllable)
शमी भद्रा सूक्ष्मपत्रा शुभा रामप्रियङ्करी ।वर्चूरः शृङ्गिफलको दृढबीजस्त्रिकण्टकः ॥ १६० ॥
1.4.160 · p. 12
अनुष्टुप्
शाखाकण्टः क्षीरकाण्डः स्नुही निस्त्रिंशपत्रिका ।कन्थारी रक्तग्रन्थिघ्नी तीक्ष्णगन्धा धात्रिधारिका ॥ १६१ ॥
1.4.161 · p. 12
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 क्त (wrong syllable)
उरुबूको दीर्घदण्ड एरण्डः पाणिपत्रकः ।हिन्तालः स्थूलतालाह्वः तालस्तृणनराधिपः ॥ १६२ ॥
1.4.162 · p. 12
अनुष्टुप्
अङ्कोलः कटुकः स्निग्धो गुप्तस्नेहो विषापहः ।वल्लीवृक्षश्चीरपर्णः सर्ज्जः कुलटजोद्भवः ॥ १६३ ॥
1.4.163 · p. 12
अनुष्टुप्
चिरबिल्वो रक्तमालः करञ्जः कृमिमर्द्दनः ।आरग्वधो राजवृक्षः शम्पाकश्चतुरङ्गुलः ॥ १६४ ॥
1.4.164 · p. 12
अनुष्टुप्
पिचुमन्दुः पारिभद्रो निम्बोऽरिष्टोष्ट्रवल्लभौ ।कुरुवीरो नदीसर्ज्जः ककुभोऽर्ज्जुनवृक्षकः ॥ १६५ ॥
1.4.165 · p. 12
अनुष्टुप्
भूर्ज्जो वल्कद्रुमो बिन्दुपत्रो रक्षादलोऽवलः ।झाउको मञ्जरिदलो नदीकेशोऽम्बुवल्लभः ॥ १६६ ॥
1.4.166 · p. 12
अनुष्टुप्
आरामसारो भूकेशः सरोवन्ध्यः शिफारुहः ।अन[नं]नासो विष्णुकन्दो वीहिकोऽमृतसारकः ॥ १६७ ॥
1.4.167 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुत्रजीवः पवित्राक्षः कुटजीवोऽर्भकप्रदः ।उन्मत्तः काहलापुष्पो धत्तूरः कनकाह्वयः ॥ १६८ ॥
1.4.168 · p. 12
अनुष्टुप्
अर्कः क्षीरदलस्तूलफलः शङ्करपुष्पकः ।तिलकः पुण्ड्रकः छिन्नरुहो वदनभूषणः ॥ १६९ ॥
1.4.169 · p. 12
अनुष्टुप्
पाटला कुम्भिका मोघा ताम्रपुष्पी जलस्थितिः ।मुनिद्रुमः शीघ्रपुष्पोऽगस्त्यो लम्बफलो मुनिः ॥ १७० ॥
1.4.170 · p. 12
अनुष्टुप्
पिण्डीपुष्पो नटोऽशोकः कङ्केलिः शोकनाशनः ।केतकी कण्टकिदला मेध्या शङ्करदूषिता ॥ १७१ ॥
1.4.171 · p. 12
अनुष्टुप्
दीपपुष्पः स्वर्णपुष्पः चम्पको भ्रमराहितः ।करकन्दो वीरपुष्पः सिन्दूरी बाणनामकः ॥ १७२ ॥
1.4.172 · p. 12
अनुष्टुप्
प्रियजीवो बन्धुजीवो बन्धूको बिन्दुपुष्पकः ।शिंशिपा धूमिका धीरा सारस्तिन्दुकस्फूर्ज्जकौ ॥ १७३ ॥
1.4.173 · p. 12
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 क (wrong syllable)
कादम्बर्यः सिन्धुकलः कदम्बो वृत्तपुष्पकः ।बृहद्बलो भीषणकस्तमालो बहुकण्टकः ॥ १७४ ॥
1.4.174 · p. 13
अनुष्टुप्
उद्दानकः शुकतरुः शिरीषो मृदुपुष्पकः ।पनसः कण्टकीफलो महासर्ज्जः फलद्रुमः ॥ १७५ ॥
1.4.175 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 फ (wrong syllable)
अरण्यलक्ष्मीः कदली मोचा रम्भा सकृत्फला? ।लाङ्गली त्र्यम्बकफलो नारिकेलो दुरारुहः ॥ १७६ ॥
1.4.176 · p. 13
अनुष्टुप्
भल्लातकः[क] स्फोटबीजोऽरुष्करस्तापनोबलः ।राजादनी निम्बबीजः शुकेष्टो राजवल्लभः ॥ १७७ ॥
1.4.177 · p. 13
metre not recognisednearly अनुष्टुप्
दन्तबीजः कुचफलो दाडिमः फलशाडवः ।अक्षोटकः फलस्नेहः कन्दरालो गुडाशयः ॥ १७८ ॥
1.4.178 · p. 13
अनुष्टुप्
दम्बरो बदरी कोलः कर्कन्धूश्च क्रकण्टकः ।स्तनबीजो राजकोलो मधुरो हिमफेनिलः ॥ १७९ ॥
1.4.179 · p. 13
अनुष्टुप्
केसराम्लो बीजपूरो रुचको मातुलिङ्गकः ।चिञ्चा चुचुक्रिका चुक्रा कोशा कचुक्राऽम्लमञ्जिका ॥ १८० ॥
1.4.180 · p. 13
metre not recognisednearly अनुष्टुप्
गन्धपत्रो नागरङ्गो नारङ्गो मधुराम्लकः ।निम्बूकोऽम्लरसो निम्बू लिम्पाको बीजषंढकः ॥ १८१ ॥
1.4.181 · p. 13
अनुष्टुप्
जम्बीरको दन्तशठो जम्भो जम्बीरजम्भलौ ।मधुरो मधुजं वीरो माधवी मधुजम्बकः ॥ १८२ ॥
1.4.182 · p. 13
अनुष्टुप्
कपित्थो ग्रन्थिफलको दधित्थो दन्तशाठ्यकृत् ।रुद्राक्षो नीलकण्ठाक्षः शर्वाक्षो भूतनाशनः ॥ १८३ ॥
1.4.183 · p. 13
अनुष्टुप्
पाटीरं मलयोद्भूतं चन्दनं शिशिरद्रवम् ।माहिषं रक्तपाटीरं लोहितं रक्तचन्दनम् ॥ १८४ ॥
1.4.184 · p. 13
अनुष्टुप्
स्निग्धपात्रो गन्धसारो गुग्गुलुर्धूपभूरुहः ।आमोदसारो गन्धद्रुरगुरुर्नीललोहितः ॥ १८५ ॥
1.4.185 · p. 13
अनुष्टुप्
बिभीतकस्तैलफलो भूतावासः कलिद्रुमः ।घोण्टा वल्कतरुः पूगः क्रमुको दीर्घपादपः ॥ १८६ ॥
1.4.186 · p. 13
अनुष्टुप्
काश्मीरं घुसृणं शोणं कुङ्कुमं केसरं शठम् ।मदगन्धः सप्तपर्णः शुक्तिपर्णोऽग्निभूसितः? ॥ १८७ ॥
1.4.187 · p. 13
अनुष्टुप्
दीपतरुः स्निग्धदारु सरलः पूतिकाष्ठकः ।श्रीपुष्पं देवकुसुमं लवङ्गं तीक्ष्णपुष्पकम् ॥ १८८ ॥
1.4.188 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
सप्तशिखा नागवल्ली ताम्बूली भक्षपत्रिका ।गन्धोत्कटो दमनको दण्डी तापसपत्रकः ॥ १८९ ॥
1.4.189 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
तुलसी सुभगा तीव्रा भूतघ्नी विष्णुवल्लभा ।फणिज्जको मरुवकः खरपत्रः सुराह्वयः ॥ १९० ॥
1.4.190 · p. 14
अनुष्टुप्
छिन्नोद्भवा मृतलता गुडूची मधुपर्णिका ।मूर्वा दूर्वा मधुरसा मोरटा तेजिनी मिरा ॥ १९१ ॥
1.4.191 · p. 14
अनुष्टुप्
सोमवल्ली यज्ञलता मधुपुष्पी सुरोषिता ।मृगादनी शक्रलता हेमपुष्पी विषापहा ॥ १९२ ॥
1.4.192 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
तेजोवती वह्निफला वायसी कनकप्रभा ।ताम्रिका कृष्णला गुञ्जा शिखण्डी कृष्णचूडिका ॥ १९३ ॥
1.4.193 · p. 14
अनुष्टुप्
बृहती सिंहिका व्याघ्री वार्त्ताकी क्षुद्रकण्टिका ।महाबला रङ्गपत्री नीली व्यञ्जनकेशिनी ॥ १९४ ॥
1.4.194 · p. 14
अनुष्टुप्
शरपुङ्खा काण्डपुङ्खा वीषापुङ्खेषु पुष्पिका ।निशावनो दीर्घशाखः शणोऽम्लो दीर्घपल्लवः ॥ १९५ ॥
1.4.195 · p. 14
अनुष्टुप्
अपामार्गः सैकरिको मर्कटी पक्तिकण्टकः ।वराहकर्णी तुरगी हयगन्धा हयप्रिया ॥ १९६ ॥
1.4.196 · p. 14
अनुष्टुप्
शतावरी सूक्ष्मपत्रा बहुमूला महौदनी ।शरपत्रो दीर्घशर इक्षुः पर्वी मधुद्रवः ॥ १९७ ॥
1.4.197 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दी (wrong syllable)
गुडपुष्पो मधुरसो मधूकः स्निग्धपत्रकः ।हारिद्रा रजिनी श्यामा पिङ्गला वरवर्णिनी ॥ १९८ ॥
1.4.198 · p. 14
अनुष्टुप्
लाक्षाजतुः खदिरका पलाशी गन्धमादनी ।अलक्तको जतुरसो रोगो निर्भर्त्सनाह्वयः ॥ १९९ ॥
1.4.199 · p. 14
अनुष्टुप्
वह्निपुष्पी ताम्रपुष्पी धातकी मघवासिनी ।शङ्खमूलं तीक्ष्णरसं मूलकं तीक्ष्णकन्दकम् ॥ २०० ॥
1.4.200 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ती (wrong syllable)
ग्रन्थिमूलं शिखाकन्दं गृञ्जनं यवनप्रियम् ।शृङ्गाटकः शृङ्गकन्दो जलवल्ली विषाणिकः ॥ २०१ ॥
1.4.201 · p. 14
अनुष्टुप्
रसोनो लसुनो रिष्फो म्लेच्छकन्दः सिताण्डकः ।वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः ॥ २०२ ॥
1.4.202 · p. 14
अनुष्टुप्
शूद्रप्रियस्तीक्ष्णकन्दः पलाण्डुर्मुखदूषकः ।वास्तूकं वसु वस्तुकं वास्तूकी श्वानचिह्लिका ॥ २०३ ॥
1.4.203 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 स्तु (wrong syllable)
क्षुरपत्रा स्निग्धपत्रा पालक्यं ग्रामवल्लभा ।कर्कोटका कुम्भफला कूष्माण्डी मूत्रकृच्छ्रहा ॥ २०४ ॥
1.4.204 · p. 14
अनुष्टुप्
कोशातकी दीर्घफला पीतपुष्पी महीफला ।घृणाफलश्चित्रफलः कलिङ्गो मांसलान्तरः ॥ २०५ ॥
1.4.205 · p. 14
अनुष्टुप्
धरा कोशातकी स्निग्धा मधुरा कफपित्तनुत् ।बुद्धिध्री शोणितरुचिर्बिम्बी जीरकवीजिका ॥ २०६ ॥
1.4.206 · p. 15
अनुष्टुप्
वैशाखजं कटुरसं षड्भुजं हिमकर्कटम् ।कण्टालुः त्रपुसी शीता कर्कटी हस्तिकर्णिका ॥ २०७ ॥
1.4.207 · p. 15
अनुष्टुप्
सुगन्धाढ्या वृत्तपुष्पा मल्लिका वटपत्रिका ।वसन्तदूती वासन्ती माधवी मधुमल्लिका ॥ २०८ ॥
1.4.208 · p. 15
अनुष्टुप्
यूथिका गणिकाऽम्बष्ठा मागधी बालपुष्पिका ।युवतीष्टा हेमयूथी शिखण्डी नागपुष्पिका ॥ २०९ ॥
1.4.209 · p. 15
अनुष्टुप्
मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसाऽमृता ।मालतीसुमना जातिर्मुनिला नवमल्लिका ॥ २१० ॥
1.4.210 · p. 15
अनुष्टुप्
इला चन्द्रवला पृथ्वी बहुला गन्धवीजिका ।अभयं नलदोशीरौ वीरतं वीरणाह्वयम् ॥ २११ ॥
1.4.211 · p. 15
अनुष्टुप्
घासः शष्पं बालतृणं यवसं गिरिवालकम् ।नीलत्वक् नीलरुक्कोषः पिस्ताकः पिच्छिलद्रुमः ॥ २१२ ॥
1.4.212 · p. 15
अनुष्टुप्
मिहिकाम्रकोषफलो दन्तद्विट् द्रव्यनामकः ।विषाभा मिष्टफलिनी पित्तहा महिषी स्तनी ॥ २१३ ॥
1.4.213 · p. 15
अनुष्टुप्metre not read in every line
पुष्पवासो रागनालिर्भद्राक्षाभफलोऽङ्गुलिः ।दशपत्रं पीतरसं शतत्वक् पीतकेसरम् ॥ २१४ ॥
1.4.214 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पी (wrong syllable)
सदाफलं मिष्टरसममृ[म्रू]तं मिहिकाम्रकम् ।आर्द्रकं नागरं तीक्ष्णं शुण्ठ्युष्मा? विश्वभेषजम् ॥ २१५ ॥
1.4.215 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कटुकं मरिचं रूक्षं पिप्पली श्यामला कणा ।आमली धात्रिका धात्री सेंविका नखवीजिका ॥ २१६ ॥
1.4.216 · p. 15
अनुष्टुप्
अञ्जीरकं कीटफलं मिहिकोदुम्बराह्वयम् ।जीरकं शीतलं गन्धि मेथिका कटुवीजिका ॥ २१७ ॥
1.4.217 · p. 15
अनुष्टुप्
किराततिक्तो भूनिम्बो ग्रन्थिला बुद्धिदा वचा ।
1.4.71 · p. 15