कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तिलक

tilakaपुं · masc.

In 23 kośas: 67 synonym verses, 10 as a nānārtha head word, 38 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.605 · p. 26
दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः ।पुष्पसः स्यादथ प्लीहा गुल्मोऽन्त्रं तु पुरीतति ॥ ६०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.618 · p. 27
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ॥ ६१८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.653 · p. 28
तिलके तमालपत्त्रचित्रपुण्ड्रविशेषकाः ॥ ६५३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.944 · p. 37
कृष्णे तु तत्र तिलकं यवक्षारो यवाग्रजः ॥ ९४३ ॥यवनाजलः पाक्यश्च पाचनकस्तु टङ्कणः ।मालतीतीरजो लोहश्लेषणो रसशोधनः ॥ ९४४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.67
तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.49
जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.65
तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.216
तमालपत्रतिलकचित्रकाणि विशेषकम् ।
अनुष्टुप्
genderपुंक्लीm. n.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.73
सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.541 · p. 61
तिलकं तमालपत्त्रं चित्रकमुक्तं विशेषकः पुण्ड्रम् ।रचिता ललाटपट्टे ललाटिका कथ्यते रेखा ॥ ५४१ ॥
आर्या
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.636 · p. 72
बुक्कं स्यादग्रमांसं च तिलकं क्लोम कथ्यते ।कृमिः कीटस्तु नीलङ्गुः पुलकश्च समः स्मृतः ॥ ६३६ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.217 · p. 86
तिलके पुलकः श्रीमान् सुगन्धो मुखमण्डनः ।कर्णपुरोऽल्पपुष्पश्च पुन्नागे सुरवल्लभः ॥ २१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पु (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 35 · p. 4
तिलके राजसूनुश्च कलस्तत्पुष्पसौरभम् ।कर्णीरः स्वर्णपुष्पः स्यात्पुन्नागे देवतापतिः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 52 · p. 5
तिलकः स्यात्कृष्णतिले जामाता शुक्लवर्णके ।स्वयं जाता तु जामाता बाहुजेत्यभिधीयते ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्कृ (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.24 · p. 24
कृतमाले सुवर्णः स्यादशोके कर्णपूरकः ।श्रीमान् सुगन्धस्तिलके कलस्तत्पुष्पसौरभम् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.369 · p. 61
क्लीबे तमालपत्रं स्याच्चित्रकं तिलकोऽस्त्रियाम् ।पुनर्विशेषकं क्लीबे शीतलं भोगिवल्लभम् ॥ ३६९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.180 · p. 152
सौवर्चलं हृद्यगन्धं रुचिकं तिलकं पुनः ।जरणं कृष्णलवणमक्ष्यं कोद्रविकं पुनः ॥ १८० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.377 · p. 174
चक्रवर्त्तिनी सङ्घर्षा लोध्रो रोध्रश्च शांवरः ।हेतुपुष्पः काण्डचीलस्तिलको हस्तिलोध्रकः ॥ ३७७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.378 · p. 174
तिरीटस्तिलको भिल्लतरुश्चाथ बृहद्वलः ।कटुकः पट्टिकारोध्रः पट्टी लाक्षाप्रसादनः ॥ ३७८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.503 · p. 188
तिलकं पुष्परचना पुष्पास्तरणमेव च ।रञ्जनं दन्तवस्त्रादेर्मणिबद्धावलिक्रिया ॥ ५०३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.238 · p. 275
तद्वनेऽप्यथ पुंनागः पाटलो रक्तपुष्पकः ।पुरुषाह्वोऽपि तुङ्गोऽथ तिलकाह्वस्तु रेचकः ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.31 · p. 420
तिलको ललितश्चामी ध्रुवाः स्युरिह षोडश ।उद्गाहे स्यात्पदद्वन्द्वं मध्ये कार्यं पदद्वयम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.146 · p. 477
वालंकालकतङ्कानां निष्कतालकयोरपि ।स्यान्मूलकफलकयोस्तिलकान्दुकयोस्ततः ॥ १४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.12 · p. 41
गान्धर्ववैश्वदेवौ च वेधाः कुतपमस्त्रियाम् ।रौहिणो विधिरैन्द्रस्तु तिलको विभवः पुनः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.175 · p. 94
स्नानं वसनं तिलको लेपो हारोऽञ्जनं काञ्ची ।नासामौक्तिककुण्डलनूपुरकुचकञ्चुकीमालाः ॥ १७५ ॥
उपगीतिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.86 · p. 159
कृष्णसंज्ञो विषघ्नश्च पवित्रो गिरिसिन्दुकः ।भूपदी श्वेतसुरसा सुगन्धा तत(?)वेशिका ॥तिलकश्छत्रकुसुमः क्षुरकः खुरकोऽपि सः ।मुचिलिन्दो विचित्रश्च स्त्रीनिरीक्षणदोहदः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.70 · p. 216
रोमावली रोमलता शिखरिण्युदरं पुनः ।उदलं जाठरं तुन्दं कुक्षि-कुक्षौ च गर्भकः ॥पिचण्डं जठरो न स्त्री तुन्दिः स्यात्तत्र च स्त्रियाम् ।कृपीटं कालखण्डं तु कालखञ्जं च कालकम् ॥यकृत्कालेयकमथ तिलकं क्लोम दक्षिणे ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 229
पत्राङ्गुलिश्च माढिश्च मालुरस्त्री विशेषकः ।तमालपत्रं पुण्ड्रश्च चित्रकं तिलकोऽस्त्रियाम् ॥ ११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.64 · p. 312
हनुसंधिसमुद्भूतः शोफः पाषाणगर्द्दभः ।जडल्यः कालकः पिप्लु***[स्तिलक]स्तिलकालकः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.37 · p. 111
अलक-वालक-मालक-मूलकाः[231b] करक-कोरक-मोदक-यावकाः ।***भ्रमरको मणिकस्तथाफलक-पुस्तक-मस्तक-मुस्तकाः ।पुलकस्तिलको झर्झरकश्चरक-हंसकौ ।मधुपर्कश्च फटकः सरकः श्वपकस्तथा ।किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.245 · p. 39
धूसरश्चाक्रिकस्तैली पिण्याकस्तिलकस्तिली ।आभीरस्तु महाशूद्रो गोपा गोसंख्यगोदुहौ ॥ २४५ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 180 · p. 86
पुन्नागं सन्नरं प्राहुः तिलकं च विशेषकम् ।ललाटिका ललामापि पूर्णवाहं तथा द्रुमम् ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.234 · p. 33
श्यामे च तिलकं तस्मिन् टङ्कणो रसशोधनः ।मालतीतीरजोऽथ स्याद्यवक्षारश्च पाचनः ॥ २३४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.264 · p. 133
कालेयं कालखण्डं च यकृत्तत्र निरीक्षितम् ।दक्षिणे तिलकं पार्श्वे वामे स्याद्रक्तफेनजः ॥ २६४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.275 · p. 135
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ।अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.304 · p. 139
[76] चित्रं तमालपत्रं च तिलकः पुण्ड्र एव सः ।उत्तंसशेखरापीडावतंसाः शिरसः स्रजि ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.128 · p. 227
मध्यशैवलयोर्नाम सूतकः कूलकोऽपि च ।कोरकः करकः पङ्कः पातकस्तिलकान्दुकौ ॥ १२८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.114 · p. 39
नीलबिन्दुस्त्वक्प्रदेशे तिलकस्तिलकालकः ।कालको जडुलः पिप्लुः कालः कालकरण्डकः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.131 · p. 42
गर्भे दक्षिणभागस्थे लोहिते मांसखण्डके ।तिलकं क्लोममिति च मस्तमांसे तु गोर्दभम् ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.463 · p. 85
सुवर्चलाख्याकरजे रुचकं चाक्षमित्यपि ।एतस्मिन्नेव नीरे(ले?) तु तिलकं तिलमालकम् ॥ ४६३ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.111 · p. 8
मध्यमं यौवनं प्रान्तं वार्द्धक्यं प्रान्तिमं जरा ।उपवीतं ब्रह्मसूत्रं तिलकं द्विजभूषणम् ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.169 · p. 12
अर्कः क्षीरदलस्तूलफलः शङ्करपुष्पकः ।तिलकः पुण्ड्रकः छिन्नरुहो वदनभूषणः ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.6 · p. 34
अनिर्वायुखः श्रीमान् प्रभावान्मेषवाहनः ।हिरण्यरेताः सर्वाशः कपर्दी तिलकः कविः ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.46 · p. 24
ललामकं ललाटस्थं कर्णपूरं तु कर्णगम् ।तिलकं तमालपत्रं चित्रं पुण्ड्रं विशेषकम् ॥ ४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.975 · p. 149
दक्षिणे क्लपुषं क्लोमं ताड्यं च तिलकं तथा ।कथ्यते क्लोम वामे तु पुष्पसो रक्तफेनजः ॥ ९७५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.997 · p. 153
तिलकश्चापि पिप्लुश्च जडुलोऽपि तथैव हि ।कालकश्चेति नामानि भवन्ति तिलकस्य वै ॥ ९९७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1059 · p. 163
चित्रं च चित्रकं पुण्ड्रः तिलकं च विशेषकः ।पुनस्तमालपत्रं स्यात् केशरादिसमाञ्चितम् ॥ १०५९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1600 · p. 257
सौवर्चलेऽक्षं दुर्गन्धं रुचकञ्च शूलनाशनम् ।प्रोक्तं तु तिलकं नाम निर्गन्धं कृष्णवर्णकम् ॥ १६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.80 · p. 63
पाटलिः पाटली घण्टा घण्टापाटलिरित्यपि ।घण्टाको झाटलो झाटो गोलीटमोक्षमूष्ककाः ।तिलकं क्षुरकं श्रीमान् त्रयं तिलकभूरुहे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.219 · p. 97
खलतिश्चैव पञ्चैते टाकव्याधियुते जने ।देहस्थिततिलाख्ये तु तिलकस्तिलकालकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.255 · p. 100
क्लोमक्लोमन्तु तिलकं त्रयं धवलवुक्कके ।मस्तुलुङ्गन्तु मस्तिष्कं गोर्दञ्च मगजाह्वये ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.381 · p. 107
तमालपत्रं चित्रं स्यात्तिलकञ्च विशेषकम् ।द्वयमस्त्री चित्रकञ्च तिलके चन्दनादिभिः ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.88 · p. 143
तत्रैव कृष्णवर्णे तु तिलकं परिकीर्तितम् ।या चेक्षुभेदपाके तु शुष्कखण्डाकृतिर्भवेत् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.254 · p. 34
मरुवककर्णिकारबकुलाम्रामधूकतुष-क्रमुकनमेरुसालतिलकागुरुदन्तशठाः ।कुरवकसिन्धुवारकृतमालतमालयुगच्छद-करकप्रियालघननागसमित्तरवः ॥ २५४ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.487 · p. 64
स्योनाकशूकफजलरण्डुकरक्तपुष्प-पत्रोर्णगोपनटटुण्डुकदीर्घवृन्ताः ।मण्डूकपर्णशुकनासकुटन्नटर्क्ष-रोमच्छदाश्च तिलकक्षुरकौ समानौ ॥ ४८७ ॥
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1109 · p. 137
विकलाङ्गस्तु पोगण्डो बृहत्कुक्षिः पिचण्डिलः ।तुन्दिकस्तुन्दिलस्तुन्दी तिलकस्तिलकालकः ॥ ११०९ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1115 · p. 137
मांसभेदे तु वृक्कोऽस्त्री डिम्बः पुंस्युण्डुकोऽस्त्रियाम् ।समे तु तिलकक्लोम्नी समे आन्त्रपुरीतती ॥ १११५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1455 · p. 176
सौवर्चलं तु रुचकं दुर्गलं शूलनाशकम् ।तत्रैवाक्षं च तार्क्ष्यं च तिलकं तत्र मेचके ॥ १४५५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नृषण्डलिङ्गप्रकरणम् Śabdaratnākara 7.5.2330 · p. 284
तत्र केचिद्घृतादीनां पुंस्त्वं वैदिकमूचिरे ।पिशा[चा]दिषु भूतोऽस्त्री तिलकं च विशेषकम् ॥ २३३० ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.13 · p. 277
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.61 · p. 50
वासन्ते स्यात् कुरवकस्तिलकः कुवको मधुः ।शुक्लपुष्पः कुरवको मदनो धूर्तनागरौ ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.69 · p. 50
भूतपुष्पो नटो ढंक ऋक्षष्टुण्डुक आरलुः ।तिलके पललः श्रीमान् सुगन्धो मुखमण्डनः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.39 · p. 126
जर्तिलोऽरण्यजतिलो जालकश्चूलिकस्तिलः ।कृष्णेऽस्मिंस्तिलके (षण्डे) पिञ्जपेजौ तिलात् परौ ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.125 · p. 133
सौवर्चलं तु रुचकं दुर्गन्धं शूलनाशकम् ।अक्षं तार्क्ष्यं रुचिष्यं च तिलकं त्वत्र कृष्णके ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.148 · p. 170
स्थासको हस्तबिंबः स्यात् पत्तिच्छेदास्तु राजयः ।चित्रं तमालपत्रं क्ली तिलकोऽस्त्री विशेषकम् ॥ १४८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.112 · p. 182
तिलकं क्लोम गोर्दं तु मस्तिष्को मस्तुलुङ्गकः ।पेशिर्मांसलताथ द्वौ वृक्यौ पार्श्वगतौ गुडौ ॥ ११२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश लिङ्गसङ्ग्रहाध्यायः Vaijayantī 8.9.30 · p. 291
पिशाचादिषु भूतोऽस्त्री शंकुरप्राणिगोचरः ।विशेषकञ्च तिलकं पुण्ट्रे ब्रह्मा द्विजेऽब्जजे ॥ ३० ॥
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.812 · p. 93
नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
आर्या
meanings
धरणिकोश Dharaṇikośa · धरणिदास कश्लोकः Dharaṇikośa 1.3.19 · p. 17
तिलकं जटुलं विद्याच्चित्रके पादपान्तरे ।कृष्ण्यां सौवर्चले क्लोम्नि तिलकं तिलकालके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.33 · p. 140
ना काकतिन्दुके त-द्भेद्यवदुक्तं कुलश्रेष्ठे ।पुण्ड्रे तिलको न स्त्रीपुंसि ललामे गदाश्वभेदे च ॥ ३३ ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.34 · p. 140
तिलकालके द्रुभेदेगगने सौवर्चले प्रोक्तः ।कुलिको नागविशेषेवृक्षविशेषे त्रये कुलश्रेष्ठे ॥ ३४ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.855 · p. 122
तिलकः पुण्ड्रके क्षुद्रतिले त्वेष पुमांस्तथा ।श्रीमत्संज्ञे वृक्षभेदे तथा कुरवकाह्वये ॥ ८५५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.856 · p. 122
तिलकालकसंज्ञे च पिप्लुभेदे नपि त्वदः ।जठरावयवे क्लोमसंज्ञे द्वे तु हयान्तरे ॥ ८५६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तकारादयः Paramānandīyanāmamālā 5.15.228 · p. 191
तिलकं च ललामे स्याद्रुचके तिलकालके ।क्लोमचित्रकयोश्चाथ तुषारः शीतशीकरौ ॥ २२८ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.30 · p. 3
तिलकं मेचके ना तु पटोलश्रीमतोस्तिले ।दीपको यवसाह्वायां जीरके लोचमस्तके ॥ ३० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.84 · p. 182
तिलको वृक्षसर्पाश्वभेदेषु तिलकालके ।क्लोम्नि सौवर्चले क्लीबमस्त्रियान्तु विशेषके ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.25 · p. 100
तिलकं चित्रके क्लोम्नि ना तरौ तिलकालके ।गृहदारौ तण्डकोऽस्त्री समासप्रायवाचि च ॥ २५ ॥
अनुष्टुप्

तिलक as a meaning in nānārtha verses