कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Gīrvāṇabhāṣābhūṣaṇa

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa

72 verses · 461 words tagged · 165 marked doubtful (dashed)

Part 1

॥ श्रीः ॥

निघण्टुसमुच्चयः

गीर्वाणभाषाभूषणम् ॥

एकैकशब्द एव स्याद्भाषायोषाविभूषणम् ।तान् गृहीत्वाथ गीर्वाणभाषाभूषणमुच्यते ॥ १ ॥
1 · p. 1
अनुष्टुप्
स्वर्गे महामही च स्यादिन्द्रे विक्रमदर्शनः ।अग्नौ कीलालकः सूर्यो विप्रवर्य इतीर्यते ॥ २ ॥
2 · p. 1
अनुष्टुप्
यमस्तु सूरवर्मा च भृगुवासश्च वासवः ।नैर्ऋतिः सुप्रसन्नादो वरुणे जलवर्तकः ॥ ३ ॥
3 · p. 1
अनुष्टुप्
वायुर्मित्रो जगत्कर्ता कुबेरः पाण्डुनन्दनः ।महाराजः सुप्रसिद्धो वारीति च निगद्यते ॥ ४ ॥
4 · p. 1
अनुष्टुप्
शिवः पुराणाधिपतिः शितिकण्ठः पुरान्तकः ।शरभः केशवपतिः शिवाङ्गः सर्वतोमुखः ॥ ५ ॥
5 · p. 1
अनुष्टुप्
विष्णुः सुदर्शनः शंभुर्बन्धुर्भानुरितीर्यते ।सुग्रीवो मन्मथः स्वामी विष्णुपुत्रो भवः शिवः ॥ ६ ॥
6 · p. 1
अनुष्टुप्
कृतान्तकः पद्मिनीशः सोमः स्यान्मित्रपञ्चकः ।ब्रह्मा महामहः श्रेष्ठो विश्वकर्ता समन्तदृक् ॥ ७ ॥
7 · p. 1
अनुष्टुप्
सूर्यः स्वभानुर्लोकाक्षः परमात्मा त्रिविक्रमः ।सर्वदर्शी सुमस्वामी नित्यायोधनसम्भ्रमः ॥ ८ ॥
8 · p. 1
अनुष्टुप्
उपाध्यायीविटश्चन्द्र परिज्मा पद्मिनीपतिः ।चन्द्रमा ना चन्द्रमसि चान्द्री ज्योत्स्ना निगद्यते ॥ ९ ॥
9 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
नभोभोगः स्वल्पकरस्तुषाराङ्गस्तु तारकाः ।बृहस्पतिः सुरगुरुः पुंश्चरीवल्लभः कचः ॥ १० ॥
10 · p. 2
अनुष्टुप्
अगस्तिर्दाक्षिणात्यश्च कुक्षिम्भर इतीर्यते ।शुक्रः कविरिति प्रोक्तः शनिस्तामसविग्रहः ॥ ११ ॥
11 · p. 2
अनुष्टुप्
अयोमणिप्रियो मन्दो मङ्गलो ऋणमोचकः ।बुधः पितामहद्वेषी केतुश्चक्राङ्ग इत्यपि ॥ १२ ॥
12 · p. 2
अनुष्टुप्
अनन्तमन्तरिक्षं च तमोगर्भं महाङ्गकम् ।महाछत्रं सत्वगुणं तारकापथमित्यपि ॥ १३ ॥
13 · p. 2
अनुष्टुप्
घनाघनस्तु मेघे स्यान्मणिचापे तु वाल्मिकम् ।सरस्वती महावेणी सेचनी स्रोतसावती ॥ १४ ॥
14 · p. 2
अनुष्टुप्
आवर्तगर्भा जवगा वेगवत्यमृतोदरी ।नदी नदिरिति प्रोक्ता पद्मे भ्रमरपट्टणम् ॥ १५ ॥
15 · p. 2
अनुष्टुप्
कुमुद्वती कुमुदिनी कैरवेत्यभिधीयते ।वसुन्धरायां द्रुहिणी द्रौहिणेयीति कथ्यते ॥ १६ ॥
16 · p. 2
अनुष्टुप्
अद्रिवत्साब्धिवस्त्रा च शैले घर्घुर इत्यपि ।सौरमानं लोहवरं सुवर्णं देवविग्रहम् ॥ १७ ॥
17 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
वृक्षे स्यान्निगमो भूपः पन्नगो विष्टरो वसुः ।कानने द्रौमकं द्रौम्यं सौमनस्यं वनोदरे ॥ १८ ॥
18 · p. 2
अनुष्टुप्
उदुम्बरे मध्यफलः प्लक्षे तु गिरिमन्मथः ।शुभाङ्गः स्त्रीप्रियश्चूते पुण्डरीकं तु तत्फले ॥ १९ ॥
19 · p. 2
अनुष्टुप्
बिल्वे मनोरथफलः पलाशे वनराक्षसः ।कनके लक्ष्मिपुत्रः स्यात् तत्फले लाङ्गलं मतम् ॥ २० ॥
20 · p. 2
अनुष्टुप्
जम्बुवृक्षे सुवासः स्यात्फले तस्य विसारकम् ।चिञ्चायां रक्तबीजं स्यात् वृक्षाम्लं तत्फलं मतम् ॥ २१ ॥
21 · p. 2
अनुष्टुप्
करञ्जः कपिवृक्षे स्यान्मञ्जरीपुष्प इत्यपि ।मातुलुङ्गे विषादः स्यान्मन्मथे विलकः स्मृतः ॥ २२ ॥
22 · p. 3
अनुष्टुप्
फले कवचकं प्रोक्तं गम्भीरः स्वादुजाम्भले ।नारङ्गे शीतलद्वेषी बदरी कुवलीति च ॥ २३ ॥
23 · p. 3
अनुष्टुप्
भल्लातक्यां वह्निमुखी पनसे गुडबीजकः ।पार्वती निम्बवृक्षे स्यादङ्कोले शोधनोऽपि च ॥ २४ ॥
24 · p. 3
अनुष्टुप्
शाल्मल्यामिन्द्रसुरसा चेन्द्राणीति निगद्यते ।बिडारः स्यादगस्त्ये च शिग्रुः शोभाञ्जनो मतः ॥ २५ ॥
25 · p. 3
अनुष्टुप्
श्रीमान् कदम्बो विज्ञेयो वरुणस्तु कुमारकः ।ईश्वरा वैष्णवी च स्यादामलक्यां हरीतकी ॥ २६ ॥
26 · p. 3
अनुष्टुप्
जयामृताथ संप्राहुर्गुग्गुलुस्तु महेश्वरः ।कदल्यां तु वृषा तु स्यात्सा गौरी रम्भिकेति च ॥ २७ ॥
27 · p. 3
अनुष्टुप्
चम्पा सितेतरा च स्यात्सुगन्ध्यल्पफला स्मृता ।बृहत्फला तु माहेन्द्री सबीजा सुरशाल्मली ॥ २८ ॥
28 · p. 3
अनुष्टुप्
नारिकेरो दाक्षिणात्यः स्वर्णः स्यात्तु स लोहितः ।क्रमुके बोदिका प्रोक्ता तत्पाली कुहली स्मृता ॥ २९ ॥
29 · p. 3
अनुष्टुप्
तत्फले पर्कटं च स्यात्तच्छुष्के खरमित्यपि ।पाकं च चिक्कणे च स्यादवेला चूर्णिते स्मृता ॥ ३० ॥
30 · p. 3
अनुष्टुप्
तृणराजस्तलस्तालस्तद्भेदे तु वराङ्गना ।खर्जूरस्तु महासारः खर्जूः स्यादल्पवृक्षके ॥ ३१ ॥
31 · p. 3
अनुष्टुप्
स्यादिक्षुः खड्गपत्रश्च तत्सारे चन्द्रमारुतम् ।अनन्तकुसुमो वेणुः केतकी तु रजस्वला ॥ ३२ ॥
32 · p. 3
अनुष्टुप्
रुद्राक्षे शारदाकान्तः कर्पूरे घनपादपः ।पटीरवृक्षः श्रीखण्डश्चन्द्रद्रुश्चन्दनद्रुमे ॥ ३३ ॥
33 · p. 3
अनुष्टुप्
अगरुः कृष्णसालः स्यान्नीलाञ्जनरसः स्मृतः ।कृतमाले सुवर्णः स्यादशोके सुरसुन्दरी ॥ ३४ ॥
34 · p. 4
अनुष्टुप्
तिलके राजसूनुश्च कलस्तत्पुष्पसौरभम् ।कर्णीरः स्वर्णपुष्पः स्यात्पुन्नागे देवतापतिः ॥ ३५ ॥
35 · p. 4
अनुष्टुप्
चम्पके त्वग्निबीजः स्याद्गन्धफल्यस्य मञ्जरी ।अमोघा पाटलायां च ककुभे शिवचारणः ॥ ३६ ॥
36 · p. 4
अनुष्टुप्
जपायां मन्मथद्वेषी शिरीषे राजकेसरः ।करवीरः सुधावाही शीतकुम्भ इतीर्यते ॥ ३७ ॥
37 · p. 4
अनुष्टुप्
नन्द्यावर्तो नभोजीवी मालती राजपुत्रिका ।भोगिनी मलिका च स्यान्मल्लिका सुरमातृका ॥ ३८ ॥
38 · p. 4
अनुष्टुप्
मङ्गलं सौरभं तस्य मङ्गल्यं वरवर्णिनी ।वरारोहा देवकला कथ्यते सुरमल्लिका ॥ ३९ ॥
39 · p. 4
अनुष्टुप्
माधव्यनन्यगमना निःसङ्गा तु वसन्तिका ।एला तु चन्द्रलतिका लवङ्गलतिका वधूः ॥ ४० ॥
40 · p. 4
अनुष्टुप्
ताम्बूलवल्ली सुरसा गजवल्लीति कथ्यते ।उर्वाका वर्षभीरुः स्यात्कूष्माण्डे नृपनन्दना ॥ ४१ ॥
41 · p. 4
अनुष्टुप्
फले कोहलकं पुष्पं पटोले रोहिणीशिशुः ।ज्योत्सी कोशातकी जाली सुषवी राजवल्लरी ॥ ४२ ॥
42 · p. 4
अनुष्टुप्
तुम्ब्यां पिण्डफलश्च स्यात्तुम्बी तुम्बी गवाक्षिका ।बिम्बी तु राजलतिका रक्तपाकफला दरा ॥ ४३ ॥
43 · p. 4
अनुष्टुप्
शुक्रप्रिया मन्दलता मेघादिन्यवतारिका ।कारवल्ली कणेरी व काकचिञ्चुफलीति च ॥ ४४ ॥
44 · p. 4
अनुष्टुप्
रसा च गोस्तनी द्राक्षा नन्दिन्यानन्दवल्लरी ।झिल्यां बाष्पः शाकिनी च करविन्दा महत्यसौ ॥ ४५ ॥
45 · p. 4
अनुष्टुप्
नानाजातीयशाकानां शाकी प्रोक्ता समाहृतिः ।शकुलोपादुका गौली भञ्जी लक्ष्मी पुनर्नवाः ॥ ४६ ॥
46 · p. 5
अनुष्टुप्
जीवन्त्यलर्कमत्स्याक्षी कालशाकः कटिल्लकः ।कुस्तुम्बुरी भग्नफला शार्ङ्गरी गिरिकर्णिका ॥ ४७ ॥
47 · p. 5
अनुष्टुप्
आदारिमूलकाद्याश्च शाकभेदाः प्रकीर्तिताः ।दूर्वा स्यादमृता कृष्णा शतमाता तु सा सिता ॥ ४८ ॥
48 · p. 5
अनुष्टुप्
तुलसी भारती सेव्या द्रोणो वैकुण्ठ ईश्वरः ।लतायां वल्लिका वल्ली वल्लरीति च कथ्यते ॥ ४९ ॥
49 · p. 5
अनुष्टुप्
पुष्पे मणिचकं सूनं फले सस्यं तु पिप्पलम् ।धान्ये स्यादक्षतं सित्यं व्रीहिर्वरिरितीर्यते ॥ ५० ॥
50 · p. 5
अनुष्टुप्
मुद्गे स्यात्पिसडो मन्थः तुवर्यां कन्दको मतः ।कुलत्थे कुडुरित्युक्तस्तिलः स्नेहफलः स्मृतः ॥ ५१ ॥
51 · p. 5
अनुष्टुप्
तिलकः स्यात्कृष्णतिले जामाता शुक्लवर्णके ।स्वयं जाता तु जामाता बाहुजेत्यभिधीयते ॥ ५२ ॥
52 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्कृ (wrong syllable)
माषो वृष्यः सामिथकश्चणकस्तु मसूरकः ।अलसान्दो राजमाषो गोधूमः सुमनोगुरुः ॥ ५३ ॥
53 · p. 5
अनुष्टुप्
धान्यभेदाः कङ्गुयवाः श्यामाका वरादयः ।फलीकृतस्तण्डुलः स्याच्छम्बूकाः सूक्ष्मतद्गणाः ॥ ५४ ॥
54 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क (syllables merged)
शम्बूकस्तन्मलेऽपि स्याज्ज्येष्ठाम्बु तु तदम्बुनि ।सिंहे सुगन्धि पारीन्द्रो वृषाङ्गः पञ्चमङ्गलः ॥ ५५ ॥
55 · p. 5
अनुष्टुप्
शार्दूलश्चन्द्रिकापादो मृगादो हिंसकस्तथा ।वराहः सानुजश्च स्यात्कुमुद्वलशयोऽपि च ॥ ५६ ॥
56 · p. 5
अनुष्टुप्
खड्गस्तु गण्डकमृगः पवित्रपद इत्यपि ।महिषो भद्रदेहश्च गद्गदस्वर इत्यपि ॥ ५७ ॥
57 · p. 5
अनुष्टुप्
मर्कटे तु सुवेलः स्यात्क्ष्वीङ्कोसौ लोहिताननः ।गोलाङ्गूलोऽसितास्यः स्याद्गोमायुमृगवञ्चकः ॥ ५८ ॥
58 · p. 6
अनुष्टुप्
कुक्कुरस्तु पुरोगामी रतिकीलितविग्रहः ।कृतज्ञः सरमापुत्रः सारमेय इतीर्यते ॥ ५९ ॥
59 · p. 6
अनुष्टुप्
माहेयी वीरमाता च शुभा वञ्जुलिकापि च ।गौ रोहिणी महार्घ्या च सरसा नैचिकीति च ॥ ६० ॥
60 · p. 6
अनुष्टुप्
इभराजस्तु भद्रः स्यादुक्षोनड्वानितीर्यते ।गजे तु शुण्डसारः स्यात्पद्मवर्णः सुखाशनः ॥ ६१ ॥
61 · p. 6
अनुष्टुप्
तद्गण्डमण्डले च स्यात्सीधुपात्रं तु सेचनम् ।दानं तु तन्मदे चापि तद्भेदे मेघमित्यपि ॥ ६२ ॥
62 · p. 6
अनुष्टुप्
गजमस्तकरोगे तु कूटपालकपालकौ ।अश्वस्तु तुरगो वेटः जंझाटक झलाटकः ॥ ६३ ॥
63 · p. 6
अनुष्टुप्
अग्निपादः शिशलाभीरू रजद्वेषी गृहाशनः ।हेषा तु तस्य रवलिर्मुरली गतिभेदके ॥ ६४ ॥
64 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अश्वोदरसमुद्भूतध्वनिः कीर्तिरितीर्यते ।उष्ट्रस्तु रेतोनासः स्याद्बुद्बुदारूढजिह्वकः ॥ ६५ ॥
65 · p. 6
अनुष्टुप्
परिहासक्रमो जिह्मकण्ठः शुण्ढः प्रियंवदः ।हंसः सरस्वान् कृष्णाक्षः कलकण्ठः सितासितः ॥ ६६ ॥
66 · p. 6
अनुष्टुप्
आरोहिणी कृशाङ्गीति वरटा गर्भिणी स्मृता ।शुके रामः सुन्दराङ्गः सुनाशीर इतीर्यते ॥ ६७ ॥
67 · p. 6
अनुष्टुप्
कोकिलः कलकण्ठः स्यात् पथिकानलभक्षकः ।मयूरे तु वलीकश्च कालज्ञः सुरनर्तकः ॥ ६८ ॥
68 · p. 6
अनुष्टुप्
दीर्घकण्ठो महानादो धननादानुनाद्यपि ।भ्रमरे भसलश्च स्यान्मशके शिशुमारकः ॥ ६९ ॥
69 · p. 6
अनुष्टुप्
ब्राह्मणस्तनयाचार्यः परमन्युरितीर्यते ।राजा वसुन्धराकान्तः राकस्तु नरनिर्जरः ॥ ७० ॥
70 · p. 7
अनुष्टुप्
दुनेदारः सार्वभौमो राहुत्तो मण्डलेश्वरः ।वैश्ये तु कृषिकः पज्जप्रवरो धेनुसारथिः ॥ ७१ ॥
71 · p. 7
अनुष्टुप्
शूद्रः सदाकरश्चारुवाको विष्णुपदोद्भवः ।यवनाद्यतिनीचेषु म्लेच्छा इति निगद्यते ॥ ७२ ॥
72 · p. 7
अनुष्टुप्