इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे नारककाण्डः पञ्चमः ॥ ५ ॥
आनुकूल्यार्थकं प्राध्वमसाकल्ये तु चिच्चन ।
6.1 · p. 8
अनुष्टुप्
तु हि च स्म ह वै पादपूरणे पूजने स्वती ॥ १९७ ॥
6.197 · p. 8
अनुष्टुप्
वद्वा यथा तथैवैवं साम्येऽहो ही च विस्मये ।
6.3 · p. 8
अनुष्टुप्
स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ॥ १९८ ॥
6.198 · p. 8
अनुष्टुप्
ऊं पृच्छायामतीते प्राक् निश्चयेऽद्धाऽञ्जसा द्वयम् ।
6.5 · p. 8
अनुष्टुप्
अतो हेतौ महः प्रत्यारम्भेऽथ स्वयमात्मनि ॥ १९९ ॥
6.199 · p. 8
अनुष्टुप्
प्रशंसने तु सुष्ठु स्यात्परश्वः श्वः परेऽहनि ।
6.7 · p. 8
अनुष्टुप्
अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वेद्युरादयः ॥ २०० ॥
6.200 · p. 8
अनुष्टुप्
समानेऽहनि सद्यः स्यात्परे त्वह्नि परेद्यवि ।
6.9 · p. 8
अनुष्टुप्
उभयद्युस्तूभयेद्युः समे युगपदेकदा ॥ २०१ ॥
6.201 · p. 8
अनुष्टुप्
स्यात्तदानीं तदा तर्हि यदा यर्ह्यन्यदैकदा ।
6.11 · p. 8
अनुष्टुप्
परुत्परार्येषमोऽब्दे पूर्वे पूर्वेतरेऽत्र च ॥ २०२ ॥
6.202 · p. 8
अनुष्टुप्
प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा ।
6.13 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्य (wrong syllable)
द्विधा द्वेधा त्रिधा त्रेधा चतुर्धा द्वैधमादि च ॥ २०३ ॥द्विस्त्रिश्चतुःपञ्चकृत्व इत्याद्यावर्तने कृते ।
6.14 · p. 8
अनुष्टुप्metre not read in every line
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २०४ ॥
6.204 · p. 8
अनुष्टुप्