All kośas › Abhidhānacintāmaṇipariśiṣṭa
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa
164 verses · 1,512 words tagged · 362 marked doubtful (dashed)
तिर्यक्काण्डः · पृथ्वीकायः
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिरिशिष्टे मर्त्यकाण्डस्तृतीयः ॥ ३ ॥
अथ पृथ्वी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका ।गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा ॥ १५४ ॥देहिनी केलिनी मौलिर्महास्थल्यम्बरस्थली ।
4.1.1 · p. 6
अनुष्टुप्
ताम्रे पवित्रं कांस्यं च सीसके तु महाबलम् ।चीनपिष्टं समेलूकं कृष्णं च त्रपुबन्धकम् ॥ १५७ ॥
4.1.157 · p. 6
अनुष्टुप्
त्रपुणि श्वेतरूप्यं स्यात्सठं सलवणं रजः ।परासं मधुकं ज्येष्ठं घनं च मुखभूषणम् ॥ १५८ ॥
4.1.158 · p. 6
अनुष्टुप्
रजते त्रापुषं वङ्गं जीवनं वसु भीरुकम् ।स्वभ्रं सौम्यं च शोध्यं च रूप्रं भीरु जवीयसम् ॥ १५९ ॥
4.1.159 · p. 6
अनुष्टुप्
सुवर्णे लोभनं शुक्रं तारजीवनमौजसम् ।दाक्षायणं रक्तवर्णं श्रीमत्कुम्भं शिलोद्भवम् ॥ १६० ॥वैणवं तु कर्णिकारच्छायं वेणुतटीभवम् ॥ १६१ ॥
4.1.161 · p. 6
अनुष्टुप्