कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पूर्वेद्युस्

pūrvedyusअ · indecl.

In 11 kośas: 11 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र सामान्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 6.200 · p. 8
अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वेद्युरादयः ॥ २०० ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.38
अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ।
अनुष्टुप्
genderअindecl.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.26 · p. 460
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ।अपरेद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ॥ २६ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.35 · p. 43
राजनी(?) स्यात्तिष्यपुनर्वसवीयं न्यु(?)दाहृतिः ।गताहः कल्यमन्त्ये ह्यः पूर्वेद्युर्मतमव्ययम् ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ति (wrong syllable)
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.39 · p. 44
पूर्वेद्युः स्यात्पूर्वदिनमुत्तरेद्युस्तदुत्तरम् ।अस्मिन्दिनेऽद्याव्ययं स्यात्तद्भवेऽद्यतनं त्रिषु ।[28b]निशीथिनी निषद्वरी विभावरी च *र्वरी ।तमस्विनी च यामिनी स तन्यतुस्तमा तमी ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly पञ्चचामरम्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.126 · p. 19
उषो व्यृष्टं प्रगे प्राह्णे पूर्वेद्युश्च निशात्ययः ।गोसः प्रातश्च गोसर्गः काल्यं कल्यं च प्रत्युषः ॥ १२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2814 · p. 458
अस्मिन् दिनेऽद्य शब्दः स्यात् पूर्वेद्युः पूर्ववासरे ।आगामिनि दिने शब्द उत्तरेद्युश्च कथ्यते ॥ २८१४ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.19 · p. 306
अस्मिन् वर्षे ऐषमः स्यादस्मिन्नहनि अद्यवैः ।एवं पूर्वेह्नि पूर्वेद्युरुत्तरेद्युस्तथोत्तरे ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.31 · p. 179
प्राह्णे पूर्वेद्युरेतौ च गोस-गोसर्गकौ समौ ।मध्याह्ने तु दिवामध्यं मध्यं मध्यंदिनं तथा ॥ ३१ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2293 · p. 278
तथाधरान्यान्यतरेतरात् पूर्वेद्युरादयः ।उभयेद्युस्तूभयेऽह्नि परे त्वह्नि परेद्यवि ॥ २२९३ ॥
अनुष्टुप्
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश अव्ययपर्यायाध्यायः Vaijayantī 8.8.8 · p. 287
अपरेऽह्न्यपरेद्युः स्यादेवं पूर्वेतराधरे ।उत्तरेऽन्यान्यतरयोस्तर्क्याः पूर्वेद्युरादयः ॥ ८ ॥
अनुष्टुप्
genderअindecl.
धरणिकोश Dharaṇikośa · धरणिदास सान्ताः Dharaṇikośa 34.20.4 · p. 244
पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरः ।अभितः कार्त्स्न्योभयाग्रेषु शीघ्रसांनिध्ययोरपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.60 · p. 304
भोः स्यात्सम्बोधने प्रश्ने विषादेऽपि निगद्यते ।अञ्जसा च द्रुते तत्त्वे निरस्त्वर्द्धिवक्रयोः ॥नीचैः स्वच्छन्दाल्पयोः स्यात्पुरश्च प्रथमाग्रयोः ।पूर्वेद्युः प्रातःसमये धर्मादौ पूर्ववासरे ॥पतस्ततः प्रभृतयस्तूहनीयाः प्रयोगताः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.467 · p. 261
हुं वितर्के चानुमतौ वार्त्तायामरुचौ किल ।प्रातर्दिने च पूर्वत्रेऽत्यर्थे पूर्वेद्युरिष्यते ॥ ४६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.32 · p. 286
रहस्येऽर्थ उपांशु स्यादश्रुतोच्चारणेऽपि च ।परितोऽन्तिके सर्वतोऽर्थे पूर्वेद्युः प्रत्युषेऽपि च ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्