कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ही

hīअ · indecl.

In 11 kośas: 6 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र सामान्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 6.3 · p. 8
वद्वा यथा तथैवैवं साम्येऽहो ही च विस्मये ।
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.16
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये ।
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2811 · p. 458
निश्चयार्थे पुनरिति एव एवं तु वा च वै ।अहो ही विस्मयार्थे स्यादूम् च प्रश्नार्थवाचकः ॥ २८११ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.12 · p. 306
स्वाहा स्वधा वषट् वौषट् श्रोषट् दावे दिवौकसाम् ।मनाक् किञ्चिदीषदल्पे स्यादहो ही च विस्मये ॥जन्मान्तरेऽपि च प्रेत्यामुत्र चेति द्वयं भवेत् ।साम्ये यथा तथा चैवं वद्वा स्यादेव चेत्यपि ॥स्थाने च साम्प्रतं युक्ते सद्यः सपदि तत्क्षणे ।शं जोषमुपजोषञ्च शुभं दिष्ट्याभिनन्दने ॥भवेन्मध्ये च त्रितयं अन्तरेणान्तरान्तरे ।प्रसह्य तु बलात्कारे भवेत्पक्षान्तरे यदि ॥निषेधे मास्म मालं स्यादभावे नह्यनो नना ।अद्धाऽञ्जसा च सत्ये स्यात्प्रासाद्धवाचिः (?) प्रकाशिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्चि (wrong syllable)nearly अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.116 · p. 259
हा है विस्मये ही हे है स्मरणे आ च आस् तथा ।तुमर्थे क्रन्तुं क्रान्तुं च क्षन्तुं क्षान्तुं समे मते ॥ ११६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ये (wrong syllable); pāda 3, syllable 5 न्तुं (wrong syllable)
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश अव्ययपर्यायाध्यायः Vaijayantī 8.8.16 · p. 288
प्राध्वं स्यादानुकूल्यार्थमशीघ्रे शनकैः शनैः ।अहो ही विस्मये प्रायो भूमन्यस्तमदर्शने ॥ १६ ॥
अनुष्टुप्
genderअindecl.
धरणिकोश Dharaṇikośa · धरणिदास हान्ताः Dharaṇikośa 34.21.3 · p. 244
हि हेतौ स्याद्विशेषार्थे एकार्थे पूरणेऽपि च ।ही विषादे विस्मये स्याद्दुःखहेत्वोरपि स्मृतः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.28 · p. 134
हा दुःखे शुचि ही तु विस्मयविषादार्थेऽथ हाहा तथाहू हूं खेद विषादयोरथ मतो हू विस्मयामन्त्रणे ।हं हो विस्मयदुःखयोः सह पुनः साकल्यसादृश्ययोःसंबन्धर्द्धिसमानकाल उदितं ही ही तु हास्येऽद्भुते ॥ २८ ॥
शार्दूलविक्रीडितम्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.42 · p. 5
ह संबुद्धौ पादपूर्तौ हा दुःखे शुग्विषादयोः ।ही विस्मये विषादे हुं स्वापे प्रश्नवितर्कयोः ॥ ४२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश हान्ताः Śabdaratnāvalī 7.33.2 · p. 297
ही पूरणाश्चर्ययोः स्याद्धि हेतावनधारणे ।
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.62 · p. 304
ही विस्मये विषादे च दुःखहेतुशुचोरपि ।हे च सम्बोधनाह्वानासूयादम्भादरेषु च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययैकाक्षराध्यायः Śabdaratnākara 5.1.2257 · p. 274
आमन्त्रणे भर्त्सने हुं हुं संप्रश्नवितर्कयोः ।ही विषादे विस्मये च हा विषादशुगर्तिषु ॥ २२५७ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.466 · p. 260
ही विस्मये प्रमोदे च ओमेवं प्रणवार्थयोः ।युक्तार्थे चाधुनार्थे च साम्प्रतं तद्विदो विदुः ॥ ४६६ ॥
अनुष्टुप्