All kośas › Abhidhānacintāmaṇipariśiṣṭa
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa
164 verses · 1,512 words tagged · 362 marked doubtful (dashed)
तिर्यक्काण्डः · द्वित्रिचतुष्पञ्चेन्द्रियाः
इति वनस्पतिकायः ।
खद्योते तु कीटमणिज्योतिर्माली तमोमणिः ।परार्वुदो निमेषद्युत् ध्वान्तचित्रोऽथ कुञ्जरे ॥ १७२ ॥पेचकी पुष्करी पद्मी पेचिलः सूचिकाधरः ।विलोलजिह्वोऽन्तःस्वेदो महाकायो महामदः ॥ १७३ ॥शूर्पकर्णो जलाकाङ्क्षो जटी च षष्टिहायनः ।असुरो दीर्घपवनः शुण्डालः कपिरित्यपि ॥ १७४ ॥
4.6.174 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
अश्वे तु क्रमणः कुण्डी प्रोथी ह्रेषी प्रकीर्णकः ॥ १७५ ॥पाकलः परुलः किण्वी कुटरः सिंहविक्रमः ।माषाशी केसरी हंसो मुद्गभुग्गूढभोजनः ॥ १७६ ॥वासुदेवः शालिहोत्रो लक्ष्मीपुत्रो मरुद्रथः ।चामर्येकशफोऽपि स्यादश्वायां पुनरर्वती ॥ १७७ ॥
4.6.177 · p. 7
अनुष्टुप्
शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः ।वनंतपः स्वजातिद्विट्कृतज्ञो भल्लहश्च सः ॥ १७९ ॥दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः ।मण्डलः कपिलो ग्राममृहश्चेन्द्रमहोऽपि च ॥ १८० ॥
4.6.180 · p. 7
अनुष्टुप्
महिषे कलुषः पिङ्गः कटाहो गद्गदस्वरः ।हेरम्बः स्कन्धशृङ्गश्च सिंहे तु स्यात्पलंकषः ॥ १८१ ॥शैगाटो वनराजश्च नभःक्रान्तो गणेश्वरः ।शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः ॥ १८२ ॥
4.6.182 · p. 7
अनुष्टुप्
सूकरे कुमुखः कामरूपी च सलिलप्रियः ।तलेक्षणो वक्रदंष्ट्रः पङ्कक्रीडनकोऽपि च ॥ १८३ ॥
4.6.183 · p. 7
अनुष्टुप्
मृगे त्वजिनयोनिः स्यादथो भुजगभोगिनि ।अहीरणी द्विमुखश्च भवेत्पक्षिणि चञ्चुमान् ॥ १८४ ॥कण्ठाग्निः कीकसमुखो लोमकी रसनारदः ।वारङ्गिनाङीचरणौ मयूरे चित्रपिङ्गलः ॥ १८५ ॥नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः ।मार्जारकण्ठो मरुको मेघनादानुलासकः ॥ १८६ ॥मयुको बहुलग्रीवो नगावासश्च चन्द्रकी ।
4.6.10 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
कोकिले तु मदोल्लापी काकजातो रतोद्वहः ॥ १८७ ॥मधुघोषो मधुकण्ठः सुधाकण्ठः कुहूमुखः ।घोषयित्नुः पोषयित्नुः कामवालः कुनालिकः ॥ १८८ ॥
4.6.188 · p. 7
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः ।मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ १८९ ॥आरणी विष्किरो बोधिर्नन्दीकः पुष्टिवर्धनः ।चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः ॥ १९० ॥उषाकीलो विशोकश्च व्राजस्तु ग्रामकुक्कुटः ।
4.6.12 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः ॥ १९१ ॥गोनर्दो मैथुनी कामी श्येनाक्षो रुक्तमस्तकः ।
4.6.13 · p. 7
अनुष्टुप्
गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः ॥ १९२ ॥सुदर्शनः शकुन्याजौ शुके तु प्रियदर्शनः ।श्रीमान्मेधातिथिर्वाग्गमी मत्स्ये तु जलपिप्पिकः ॥ १९३ ॥मूको जलाशयः शेवः सहस्रदंष्ट्रस्त्वेतनः ।जलवालो वदालोऽथ पाठीने मृदुपाठकः ॥ १९४ ॥
4.6.194 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्