कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अहो

ahoअ · indecl.

In 11 kośas: 13 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र सामान्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 6.3 · p. 8
वद्वा यथा तथैवैवं साम्येऽहो ही च विस्मये ।
अनुष्टुप्
genderअindecl.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर सामान्यकाण्डः Abhidhānacintāmaśiloñcha 6.139 · p. 5
अहो संबोधनेऽपीति षष्ठ काण्डः शिलोञ्छितः ॥ १३८ ॥वैक्रमेऽब्दे त्रिविश्वेन्द्रमिते राधाद्यपक्षतौ ।ग्रन्थोऽयं ददृभे श्रीमज्जिनदेवमुनीश्वरैः ॥ १३९ ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह अव्ययवर्गः Amarakośa 3.4.16
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये ।
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.4 · p. 120
अकामात्स्वीकृतौ कामं भवत्वस्तु हुमीर्ष्य[237a]या ।अहो अद्धा अद्भुतार्थे ****** शुभे ॥ ४ ॥
metre not recognised
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.6 · p. 120
पूजायामत्यहौ शुः सुः कुवित्कूपत्सुसुष्ठवः ।प्रशंसायां सम्यगर्धे पशु स्यादन्यथा पुनः ॥ ६ ॥
अनुष्टुप्
genderअindecl.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 174 · p. 84
चित्राश्चर्याद्भुतं चोद्यं विस्मयः कौतुकोऽप्यहो ।अभियोगोद्यमोद्योगा उत्साहो विक्रमो मतः ॥ १७४ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2800 · p. 457
सम्बोधनेऽङ्ग रे रेरेऽररेऽरे भोस्तथाऽयि च ।हे है हंहो तथाऽहो च पाट् प्याट् पुन र्निगद्यते ॥ २८०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable)
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अव्ययप्रकरणम् Suśīlanāmamālā 8.2811 · p. 458
निश्चयार्थे पुनरिति एव एवं तु वा च वै ।अहो ही विस्मयार्थे स्यादूम् च प्रश्नार्थवाचकः ॥ २८११ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.8 · p. 305
तु हि च स्म हवै षट्कं श्लोकानां पादपूरणे ।अहो आहो उताहो किं किमुत च वितर्कणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 मु (wrong syllable)
genderअindecl.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश एकार्थवर्गः Śabdaratnāvalī 8.2.12 · p. 306
स्वाहा स्वधा वषट् वौषट् श्रोषट् दावे दिवौकसाम् ।मनाक् किञ्चिदीषदल्पे स्यादहो ही च विस्मये ॥जन्मान्तरेऽपि च प्रेत्यामुत्र चेति द्वयं भवेत् ।साम्ये यथा तथा चैवं वद्वा स्यादेव चेत्यपि ॥स्थाने च साम्प्रतं युक्ते सद्यः सपदि तत्क्षणे ।शं जोषमुपजोषञ्च शुभं दिष्ट्याभिनन्दने ॥भवेन्मध्ये च त्रितयं अन्तरेणान्तरान्तरे ।प्रसह्य तु बलात्कारे भवेत्पक्षान्तरे यदि ॥निषेधे मास्म मालं स्यादभावे नह्यनो नना ।अद्धाऽञ्जसा च सत्ये स्यात्प्रासाद्धवाचिः (?) प्रकाशिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ञ्चि (wrong syllable)nearly अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.104 · p. 258
चैव, संबोधने पाट् प्याट् हंहो आहो अहो अपि ।है हौ व्यस्तौ समस्तौ च स्मरणाऽऽह्वानयोरपि ॥ १०४ ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2297 · p. 279
अहो चित्रेऽस्ति सत्तायां युक्ते स्थाने च सांप्रतम् ।यथा यद्वा तथैवैवं साम्ये स्यादद्रुते शनैः ॥ २२९७ ॥
अनुष्टुप्
genderअindecl.
वैजयन्ती Vaijayantī · यादवप्रकाश अव्ययपर्यायाध्यायः Vaijayantī 8.8.16 · p. 288
प्राध्वं स्यादानुकूल्यार्थमशीघ्रे शनकैः शनैः ।अहो ही विस्मये प्रायो भूमन्यस्तमदर्शने ॥ १६ ॥
अनुष्टुप्
genderअindecl.
धरणिकोश Dharaṇikośa · धरणिदास हान्ताः Dharaṇikośa 34.21.1 · p. 244
हंहो संबोधने प्र[114]श्नेऽहहेत्यद्भुतखेदयोः ।अह क्षेपे नियोगे स्यादहो प्रश्ननियोगयोः ॥
अनुष्टुप्
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.94 · p. 130
अहो बतामन्त्रणविस्मयेषुकष्टे दयायामपि चाभिमुख्ये ।ततो यतः स्तो नियमे विभागेऽ-थातिः प्रशंसापचितिप्रकर्षे ।अतिक्रमासंप्रतिवाचकः स्या-दारात्तु दूरान्तिकवाचकश्च ॥ ९४ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.33 · p. 301
अहो बतानुकम्पायां खेदे सम्बोधनेऽपि च ।पुरस्तात्प्रथमेऽवाच्यामग्रे चाल्पपुरार्थयोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.64 · p. 305
अह कोपे प्रशंसायां नियोगे च विनिग्रहे ।अहो धिगर्थे शोके च करुणार्थविषादयोः ॥सम्बोधने प्रशंसायामाश्चर्ये पादपूरणे ।असूयायां वितर्के च खेदाख्याने निगद्यते ॥
अनुष्टुप्