कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Siddhaśabdārṇava

सिद्धशब्दार्णव Siddhaśabdārṇava

799 verses · text only, tagging comes next

प्रथमः काण्डः

स्मृत्वा सर्वज्ञमात्मार्थी सिद्धशब्दार्णवो जिनात् ।सलिङ्गनिर्णयं नामकोशं सिद्धं स्मृतिं नये ॥ १ ॥
1.1 · p. 1
अनुष्टुप्
अस्ति सप्तविधं नाम पुमान् स्त्री स्यान्नपुंसकम् ।अक्लीबकोऽपुमानस्त्री त्रिलिङ्गं, त्रिविधं पुनः ॥ २ ॥
1.2 · p. 1
अनुष्टुप्
रूढयौगिकमिश्रस्त्वाद्यौगिकं त्रिविधं मतम् ।क्रियागुणप्रभेदेन तथा सम्बन्धभेदतः ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
करोत्याद्या क्रिया नीलपीतादिश्च गुणस्तथा ।स्वस्वामित्वादिकोऽनेकविधः सम्बन्ध ईक्षितः ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
रूढादीनां त्रयाणां च लक्षणं शास्त्रतोऽन्यतः ।ज्ञेयं तथा पूर्वशब्दं त्वन्ताथादी न गच्छतः ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्