All kośas › Siddhaśabdārṇava
सिद्धशब्दार्णव Siddhaśabdārṇava
799 verses · text only, tagging comes next
द्वितीयः काण्डः · शूद्राधिकारः
समाप्तः क्षत्रियाधिकारः ।
ऊरव्या ऊरुजा वैश्या अर्या भूमिस्पृशो विशः ।वाणिज्यं पाशुपाल्यं च कृषिस्तिस्रश्च वृत्तयः ॥ २६७ ॥
2.5.267 · p. 81
अनुष्टुप्
जीविका वेतनं वृत्तिर्वार्ता जीवनमित्यपि ।आजीव, उञ्छोऽस्त्री धान्यकणादानं, शिलं पुनः ॥ २६८ ॥
2.5.268 · p. 81
अनुष्टुप्
अमृतं त्वयाचितं स्या,दुदिता सा श्वजीविका ।सेवावृत्तिः, वाणिज्यं वाणिज्या त्वपुमान् पुनः ॥ २७० ॥
2.5.270 · p. 81
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 त्व (wrong syllable); pāda 3, syllable 4 त्तिः (syllables merged)
सत्यानृत,मथो पण्याजीव आपणिको वणिक् ।क्रयविक्रयिकः सार्थवाहो वैदेहनैगमौ ॥ २७१ ॥
2.5.271 · p. 82
अनुष्टुप्
वाणिजो,ऽथ क्रयी क्रायिकः क्रयीको,ऽथ विक्रयी ।विक्रायिको विक्रयिकः क्रेयदो,ऽवक्रयः पुनः ॥ २७२ ॥
2.5.272 · p. 82
अनुष्टुप्
वस्नोऽस्त्रियां मूल्यमर्घो भाटकं पञ्चमं [तथा] ।नीवी परिपणो मूलद्रव्यं, लाभोऽधिकं फलम् ॥ २७३ ॥
2.5.273 · p. 82
अनुष्टुप्
परावर्तो व्यतिहारो वैमेयः परिवर्तनम् ।परिदानं विनिमयो नैमेयो नियमो,प्यथ ॥ २७४ ॥
2.5.274 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
उपनिधिः स्यान्निक्षेपो न्यासो,ऽथास्यार्पणं पुनः ।प्रतिदानं परिदान,मन्ये क्रेयं तदुच्यते ॥ २७५ ॥
2.5.275 · p. 82
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 प (wrong syllable); pāda 3, syllable 6 रि (wrong syllable)
क्रेतव्यमात्रकं, यच्च स्थापितं यत् क्रयाय तु ।क्रय्य,मथो पणितव्यं पण्यं विक्रेयमप्य,थ ॥ २७६ ॥
2.5.276 · p. 82
अनुष्टुप्metre not read in every line
सत्याकृतिः सत्यङ्कारः सत्यापनं च विक्रयः ।विपणो, गण्यं संख्येयं गणेयं, संख्या सा भवेत् ॥ २७७ ॥
2.5.277 · p. 82
metre not recognised
एकादिर्या वाच्यलिङ्गा पञ्चाद्यष्टा[द]शान्तिमा ।अलिङ्गा एकोनविंशत्याद्या पूर्वं शताच्च या ॥ २७८ ॥
2.5.278 · p. 83
अनुष्टुप्
स्त्रीलिङ्गाष्टदशम्यो या संख्या संख्येयगोचरा ।एकाद्या परतः संख्या संख्यासंख्येयवाचिका ॥ २७९ ॥
2.5.279 · p. 83
अनुष्टुप्
जिनानां विंशतिः सार्वाः विंशतिश्च तथा हि सा ।एकादशगुणो दशेत्यादिरीत्याऽयमोत्तरम् ॥ २८० ॥
2.5.280 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द (wrong syllable)
शतं सहस्रमयुतमस्त्रियां स्युरमी त्रयः ।लक्षमपुमान् प्रयुतमस्त्री कोटिः स्त्रियां पुनः ॥ २८१ ॥
2.5.281 · p. 83
अनुष्टुप्metre not read in every line
अर्बुदमस्त्री चाब्जखर्वनिखर्वाणि षण्ढके त्रीणि ।क्लीबे महाम्बुजं स्थाच्छङ्कुरषण्ढः पुमान् वार्धिः ॥ २८२ ॥
2.5.282 · p. 83
आर्याmetre not read in every line
अन्त्यमध्यपरार्धानि भवन्त्येतानि नामतः ।सांयात्रिको यानपात्रवाणिजो,ऽथ वहित्रकम् ॥ २८३ ॥
2.5.283 · p. 83
अनुष्टुप्
यानपात्रं [च] बोहित्थं पोतो वहनमप्य,थ ।नियामकः पोतवाहो निर्यामो नाविकः पुनः ॥ २८४ ॥
2.5.284 · p. 83
अनुष्टुप्
कर्णधारो, मङ्गिनी नौ स्त्रियां बेडा तरीत्यपि ।तरिणी, द्रोणी काष्ठाम्बुवाहिनी, क्षेपणी च सा ॥ २८५ ॥
2.5.285 · p. 83
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 णी (wrong syllable)
नौकादण्डः, कूपकस्तु गुणवृक्षो,ऽथ नावि ये ।मध्यदण्डाः स्युः पोलिन्दाः, मङ्गो नौमस्तकं पुमान् ॥ २८६ ॥
2.5.286 · p. 83
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 स्युः (wrong syllable)
अभ्रिः स्त्री काष्ठकुद्दालः, सेचनं सेकपात्रकम् ।अरित्रं केनिपातश्च कोटिपात्र,मथोडुपः ॥ २८७ ॥
2.5.287 · p. 84
अनुष्टुप्
तरण्डो द्वावस्त्रियौ स्तः कोलाभेलप्लवाः समाः ।तरमूल्यमातरः स्यात्, वृद्ध्याजीवः कुसीदकः ॥ २८८ ॥
2.5.288 · p. 84
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ल्य (wrong syllable)
वार्द्धुषिको द्वैगुणिको वार्द्धुषि,र्वृद्धजीवने ।कुसीदोऽर्थप्रयोगश्च, वृद्धिः कलान्तरं पुनः ॥ २८९ ॥
2.5.289 · p. 84
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 र्द्धु (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
पर्युदञ्चनमुद्धार ऋणं, याचितकं हि तत् ।प्राप्तं याचनतो यच्च, तदाऽऽहुरापमित्यकम् ॥ २९० ॥
2.5.290 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हु (wrong syllable)
परिवृत्य गृहीतं यद्, ग्राहकः स्यादृणस्य यः ।अधमर्णो, दायकश्चोत्तमर्णो,ऽथ निगद्यते ॥ २९१ ॥
2.5.291 · p. 84
अनुष्टुप्
लग्नकः प्रतिभूः स्थेयः समौ प्राश्निकसाक्षिणौ ।मध्यस्थो,ऽथ मृषासाक्ष्ये कूटसाक्षी तथा पुनः ॥ २९२ ॥
2.5.292 · p. 84
अनुष्टुप्
दुष्टसाक्षिणि सूची च, बन्धक आधिरप्य,थ ।पौतवं, द्रुवयं, पाय्यं त्रिधा मानमुदाहृतम् ॥ २९३ ॥
2.5.293 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
तुलाप्रभृतिभिर्भूयः कूडवाद्यैः करादिभिः ।क्रमाद्विज्ञेयं तत्रादौ माषकोस्त्री, स पञ्च च ॥ २९४ ॥
2.5.294 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यं (wrong syllable)
गुञ्जा, कर्षोऽस्त्रियामक्षः, माषा[णां] षोडश स्यात्, पलम् ।अस्त्री, कर्षाश्चत्वारो,ऽथ विस्तः सुवर्ण इत्यपि ॥ २९५ ॥
2.5.295 · p. 85
metre not recognised
कनकाक्षे, कुरुविस्तः पले कनकसम्भवे ।पलशतं तुला, भारो विंशतिस्ताश्च शाकटः ॥ २९६ ॥
2.5.296 · p. 85
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable); pāda 3, syllable 3 श (wrong syllable)
शाकटीनः शालाटश्च आचितो,ऽथ दशाचितः ।भागः, प्रस्थोऽस्त्रियां चत्वारः कुडवास्त एव च ॥ २९७ ॥
2.5.297 · p. 85
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable); pāda 4, syllable 3 ड (wrong syllable)
आढकस्त्रिषु, ते चत्वारो द्रोणः कथितोऽस्त्रियाम् ।द्रोणाः षोडश खारी, स्याच्चतुर्विंशतिरङ्गुलाः ॥ २९८ ॥
2.5.298 · p. 85
अनुष्टुप्
हस्ताः, दण्डश्चतुर्हस्तो, गव्यूतं क्रोश एव सः ।यद्दण्डसहस्रयुग्मं, क्रोशयुग्मं हि गोरुतम् ॥ २९९ ॥
2.5.299 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable)
गव्यूतिरक्लीबो गव्या गव्यूतं, योजनं पुनः ।चतुष्क्रोशं, जीववृत्तिः पाशुपाल्यं गवीश्वरः ॥ ३०० ॥
2.5.300 · p. 86
अनुष्टुप्
गोमी गोमान,थो गोपो गोधुग्गोपालबल्लवाः ।गोसंख्याऽऽभीरो, गोषु स्याद्गोविन्दोऽधिकृतो हि यः ॥ ३०१ ॥
2.5.301 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
अजजीवको जाबालो, हली क्षेत्री कृषीवलः ।कुटुम्बी कृषिकः कार्षकः कर्षको, हलिः पुनः ॥ ३०२ ॥
2.5.302 · p. 86
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable); pāda 4, syllable 3 र्ष (wrong syllable)
जित्या, सीरो हलं द्वौ चास्त्रियां गोदारणं तथा ।लाङ्गलमीषा तद्दण्डः, सीता स्यात्तस्य पद्धतिः ॥ ३०३ ॥
2.5.303 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ङ्ग (wrong syllable)
कुटकमनीषे, दात्रं लवित्रं, वण्ट उच्यते ।तन्मुष्टिः, समीकरणे मत्यं, गोदारणं पुनः ॥ ३०४ ॥
2.5.304 · p. 86
metre not recognised
कुद्दालोऽथ खनित्रं स्यादवदारणमप्य,[थ] ।फालः फलं कुशिकश्च कृषक,स्तोत्रतोदने ॥ ३०५ ॥
2.5.305 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शि (wrong syllable)
प्रवयणं स्यात्प्रतोदः प्राजनं, लोष्टभेदनः ।कोटिशो, योत्रयोक्त्रे चाबन्धो गोबन्धदारु यत् ॥ ३०६ ॥
2.5.306 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
खलेऽक्लीबो मेधिमेथी खलेवाली, जघन्यजः ।शूद्रः पज्जो वृषलश्चान्त्यवर्णः पद्य इत्यपि ॥ ३०७ ॥
2.5.307 · p. 87
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ष (wrong syllable)
द्वादशभेदाः एवं स्युरथैषां मिश्रजातयः ।मूर्द्धावसिक्तो जातोऽसौ क्षत्रियायां तु वाडवात् ॥ ३०८ ॥
2.5.308 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 द (wrong syllable)
अम्बष्ठो वैश्यकामिन्यां, शूद्रयोषित्युभौ तथा ।पारशवो निषादश्च, वैश्यस्त्रियां तु क्षत्रतः ॥ ३०९ ॥
2.5.309 · p. 87
अनुष्टुप्metre not read in every line
माहिष्यः, शूद्रकामिन्यामुग्रः, करणो वैश्यतः ।वैश्यनार्यामायोगवः शूद्रतः, क्षत्रियस्त्रियाम् ॥ ३१० ॥
2.5.310 · p. 87
metre not recognised
क्षत्ता, विप्रस्त्रियां चण्डालो, मागधश्च वैश्यतः ।क्षत्रनार्यां विप्रनार्यां वैदेहिकः, स्यात् क्षत्रियात् ॥ ३११ ॥
2.5.311 · p. 88
metre not recognised
सूतो ब्राह्मणकामिन्यां, करण्यां रथकारकः ।माहिष्या[द],थ प्रकृतिः कारुश्च कारिशिल्पिनौ ॥ ३१२ ॥
2.5.312 · p. 88
अनुष्टुप्metre not read in every line
श्रेणिरक्लीबः कारूणां गणः, शिल्पं कला पुनः ।विज्ञानं, मालाकारश्च पुष्पाजीवस्तु मालिकः ॥ ३१३ ॥
2.5.313 · p. 88
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 बः (wrong syllable); pāda 3, syllable 5 ला (wrong syllable)
पुष्पलावी नंतः स्यात् यः पुष्पाण्यवचिनोति [सः] ।ध्वजो ध्वजी सुराजीवी मण्डहारकशौण्डिकौ ॥ ३१४ ॥
2.5.314 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
कल्यपालो वारिवासः आसुतीबल इत्यपि ।पानवणिक्, कादम्बरी चापुमान् मधुरस्त्रियाम् ॥ ३१५ ॥
2.5.315 · p. 88
metre not recognisednearly अनुष्टुप्
इरा मद्य स्वादुरसा परिस्रुत् स्त्री परिस्रुता ।मदिष्ठा मदिरा कश्यं वारुणी कापिशायिनम् ॥ ३१६ ॥
2.5.316 · p. 88
अनुष्टुप्
अपुमान् प्रसन्ना हारहूरं हलिप्रिया ।शुण्डाऽक्लीबा देवसृष्टा सुरा हाला परिप्लुता ॥ ३१७ ॥
2.5.317 · p. 89
metre not recognisednearly अनुष्टुप्
माध्वीकं कापिशं गन्धोत्तमा च मदनाऽब्धिजा ।माधवको मध्वासवः, सीधुरस्त्री तथाऽऽसवः ॥ ३१८ ॥
2.5.318 · p. 89
अनुष्टुप्metre not read in every line
मैरेयो,ऽथ मद्यपङ्को जगलोऽप्य,थ [मेदकः] ।मद्यबीजं पुनः किण्वं नग्नहूर्नग्नहुः पुमान् ॥ ३१९ ॥
2.5.319 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ऽथ (wrong syllable)
आसुतिर्मद्यसंधानमासवोऽभिषवस्तथा ।कारोत्तमो मद्यमण्डः, सरकश्चषकोऽस्त्रियाम् ॥ ३२० ॥
2.5.320 · p. 89
अनुष्टुप्
अनुतर्षो गल्वर्कश्च, शुण्डापानं मदस्थितिः ।मधुक्रमा मधुवारा, सहपानं सपीतिकः ॥ ३२१ ॥
2.5.321 · p. 89
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable); pāda 3, syllable 6 धु (wrong syllable)
आपानं पानगोष्ठी च, मध्यप्राशनचक्षणे ।उपदंशोऽवदंशो,ऽथ कलादो मुष्टिकः पुनः ॥ ३२२ ॥
2.5.322 · p. 89
अनुष्टुप्
स्वर्णकारो नाडिंधम,स्तेजसावर्त्तिनी तथा ।मूषा, भस्त्राऽक्लीबश्चर्मप्रसेविका,ऽथ वेधनी ॥ ३२३ ॥
2.5.323 · p. 89
metre not recognised
आस्फोटनी, शाणोऽक्लीबः पुमांश्च निकषः कषः ।कङ्कमुखः संदंशो,ऽथ यन्त्रकं कुन्दमस्त्रियाम् ॥ ३२४ ॥
2.5.324 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ङ्क (wrong syllable)
भ्रमो,ऽथ मणीकारस्तु वैकटिको,ऽथ शौल्बिकः ।ताम्रकुट्टिको,ऽथ काम्बविकः शाङ्खिक एव सः ॥ ३२५ ॥
2.5.325 · p. 90
metre not recognised
सौचिकः स्यात्तन्तुवायः, कल्पनी कर्त्तरी पुनः ।कृपाणी, सेवनी सूची, सूचिसूत्रं तु पिप्पलम् ॥ ३२६ ॥
2.5.326 · p. 90
अनुष्टुप्
तर्कुः पुमान् कर्त्तनसाधनं, विहनं पुनः ।पिञ्जनं तूलस्फोटनकार्मुकं, स्यूतिसेवने ॥ ३२७ ॥
2.5.327 · p. 90
metre not recognised
सीवनं, स्यूतप्रसेवौ, तन्तुवायो द्वितीयकम् ।कुविन्दो,ऽथ स्यात् त्रसरः सूत्रवेष्टनमप्य,थ ॥ ३२८ ॥
2.5.328 · p. 90
अनुष्टुप्
व्यूतिर्वाणिः स्त्रियां, वानदण्डो वेमाऽस्त्रियावुभौ ।सूत्रतन्तू तथा निर्णेजकः स्याद्ररजकोऽप्य,थ ॥ ३२९ ॥
2.5.329 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चर्मकृत्पादुकाकृच्च, पादुका पादरक्षणम् ।पादत्राणं पादहिता पादूरुपानत् द्वे स्त्रियाम् ॥ ३३० ॥
2.5.330 · p. 91
अनुष्टुप्metre not read in every line
पादपीठी पादरथी पेशी स्यात्पदवीथ्यपि ।पादगुञ्जा पादरत्ता पन्नद्धा [च] पदायता ॥ ३३१ ॥
2.5.331 · p. 91
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
पदायामेन बद्धा या नानाभेदा भवेद्धि सा ।अनुपदीना, वरत्रा नद्ध्री वद्ध्र्यनपुंसकः ॥ ३३२ ॥
2.5.332 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
चर्मप्रभेदिका चाऽरा, कुलालो दण्डभृत् पुनः ।कुम्भकारश्चक्रजीवी, तैली चाक्रिकधूसरौ ॥ ३३३ ॥
2.5.333 · p. 91
अनुष्टुप्
अस्रियौ खलपिण्याकौ, शाणजीवोऽसिधावकः ।भ्रमासक्तशस्त्रमार्जा,वथ तक्षा च काष्ठतट् ॥ ३३४ ॥
2.5.334 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्त (wrong syllable)
वर्धकः स्थापतिस्त्वष्टा रथकृद्, यो ह्यधीनकः ।ग्रामे स स्याद्ग्रामतक्षः, कौटतक्षः स्वतन्त्रकः ॥ ३३५ ॥
2.5.335 · p. 91
अनुष्टुप्
तक्षणी वृक्षभिद्वासी, क्रकचं पुंनपुंसकम् ।करपत्रकं च, काष्ठं काष्ठे संस्थाप्य तक्ष्यते ॥ ३३६ ॥
2.5.336 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्र (wrong syllable)
यत्रोद्घनः स विज्ञेयो लोहादिरपि तत्तथा ।वृक्षभेदी वृक्षादन,ष्टङ्कोऽस्त्री स्याद्द्वितीयकम् ॥ ३३७ ॥
2.5.337 · p. 92
अनुष्टुप्metre not read in every line
पाषाणदारको, लोहकारः कर्मार इत्यपि ।व्योकारः, कूटमस्त्री स्यदयोघनो,ऽथ व्रश्चनः ॥ ३३८ ॥
2.5.338 · p. 92
अनुष्टुप्metre not read in every line
पत्रपरशु,रीषिका तूलिका पुनरेषिका ।कान्दविको भक्ष्यकारः, कन्दुरक्लीबकः पुनः ॥ ३३९ ॥
2.5.339 · p. 92
metre not recognised
स्वेदनिका, तौलकिको रङ्गजीवश्च चित्रकृत् ।कूचिका तूलिका,ऽऽलेख्यं चित्रं, स्यादथ लेप्यकृत् ॥ ३४० ॥
2.5.340 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 द (wrong syllable)
पलगण्डो,ऽथ लेप्यादिकर्म पुस्तं स चास्त्रियाम् ।अन्तावसायी नंतः स्यान्मुण्डको नापितः क्षुरी ॥ ३४१ ॥
2.5.341 · p. 92
अनुष्टुप्
चण्डिलश्च दिवाकीर्तिः क्षुरमर्दी च भण्डिकः ।क्षौरिको ग्रामणीर्भण्डिवाहो,ऽथ परिवापणम् ॥ ३४२ ॥
2.5.342 · p. 93
अनुष्टुप्
भद्राकरणं वपनं क्षौरं स्यान्मुण्डनं, त्वथ ।नाराची त्वेषणी, देवाजीवः स्याद्देवलः पुनः ॥ ३४३ ॥
2.5.343 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
मौरजिको मार्दङ्गिको, वीणावादस्तु वैणिकः ।वैणविको वेणुध्मश्च, पाणिघः पाणिवादकः ॥ ३४४ ॥
2.5.344 · p. 93
metre not recognised
प्रातिहारिको मायाकारो,ऽथ माया तु शाम्बरी ।कुसृतिः कुहकं जालमिन्द्रजाल,मथो पुनः ॥ ३४५ ॥
2.5.345 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
कौतुकं कुतुकं कौतूहलं कुतूहलं तथा ।मृगवधाजीवी व्याधो मृगयुर्लुब्धकः पुनः ॥ ३४६ ॥
2.5.346 · p. 93
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable); pāda 3, syllable 2 ग (wrong syllable)
पापर्द्ध्याखेटौ मृगयाऽपुमान् मृगव्याऽऽच्छोदने ।वागुरिको जालिको,ऽथ वागुरा मृगजालिका ॥ ३४७ ॥
2.5.347 · p. 93
metre not recognised
शुम्बमपुमान् तन्त्री च वटी त्रिषु गुणः पुनः ।शुल्बं रज्जुः स्त्रियां वराटकः, कैवर्त्तधीवरौ ॥ ३४८ ॥
2.5.348 · p. 93
metre not recognised
दाशो, बडिशमपुमान् मत्स्यवेधनमप्य,थ ।मत्स्यजालं स्यादानायः, कुवेणी मत्स्यबन्धनी ॥ ३४९ ॥
2.5.349 · p. 94
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 डि (wrong syllable); pāda 3, syllable 5 स्या (wrong syllable)
शाकुनिको जीवान्तकः, कोटिको मांसिकस्तथा ।सौनिको वैतंसिकश्च, घातस्थानं पशोर्भवेत् ॥ ३५० ॥
2.5.350 · p. 94
metre not recognisednearly अनुष्टुप्
सूना, मृगादिजीवानां बन्धोपकरणं हि यत् ।वीतंसोऽस्त्रियां, पाशो बन्धनग्रन्थिरप्य,थ ॥ ३५१ ॥
2.5.351 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वी (syllables merged)
अवटोऽवपातः, कूटयन्त्रमुन्माथ इत्यपि ।पामरः प्राकृतो नीचो विवर्णश्च पृथग्जनः ॥ ३५२ ॥
2.5.352 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
इतरो बर्बरो,ऽथान्तेवासी श्वपचबुक्कसौ ।दिवाकीर्तिरन्तावसायी निषादोऽजनंगमः ॥ ३५३ ॥
2.5.353 · p. 94
अनुष्टुप्metre not read in every line
चण्डालः प्लवमातङ्गौ, पुलिन्दा वरटा भटाः ।किराता नाहला निष्ट्याः शबरा भिल्ला भूरयः ॥ ३५४ ॥
2.5.354 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ल्ला (wrong syllable)
मालाः सर्वेऽरण्यचरा उद्भिन्ना देशभेदतः ।म्लेच्छजातयः शूद्राणां समुदाये पतन्त्यमी ॥ ३५५ ॥
2.5.355 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यः (wrong syllable)