कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Siddhaśabdārṇava

सिद्धशब्दार्णव Siddhaśabdārṇava

799 verses · text only, tagging comes next

प्रथमः काण्डः · जैनेतराधिकारः (1/3)

इति जैनाधिकारः ।

धर्मधातुर्जिनो बोधिसत्त्वः शास्ता त्रिकालवित् ।आर्यस्तथागतो बुद्धः सुगतो दशभूमिगः ॥ २९ ॥
1.2.29 · p. 4
अनुष्टुप्
मुनीन्द्रः श्रीघनो द्वादशाक्षो दशबलो मुनिः ।महामैत्रो दशार्हस्त्रिकायो विज्ञानमातृकः ॥ ३० ॥
1.2.30 · p. 4
अनुष्टुप्
दयाकूर्चश्चतुस्त्रिंशज्जातकज्ञो विनायकः ।संगुप्तश्चाद्वयो धर्मराजो मार-ख-लोकजित् ॥ ३१ ॥
1.2.31 · p. 4
अनुष्टुप्
षडभिज्ञो महासत्त्वः पञ्चज्ञानः सुनिश्चितः ।गुणाब्धिर्भगवानर्हन् बोधिर्विज्ञानदेशनः ॥ ३२ ॥
1.2.32 · p. 4
अनुष्टुप्
समन्तभद्रः स्याल्लोकनाथो योगी समे च ते ।सप्तबुद्धा विपश्याद्याः शाक्यसिंहोऽस्ति तेषु यः ॥ ३३ ॥
1.2.33 · p. 4
अनुष्टुप्
शौद्धोदनिर्गौतमः स मायादेवीसुतोऽपि च ।देवदत्ताप्रजो राहुलसूः स्यादर्कबान्धवः ॥ ३४ ॥
1.2.34 · p. 4
अनुष्टुप्
सर्वार्थसिद्धोऽथ विधिर्विरिञ्चि-र्धाता स्वयम्भूः स्थविरो विरञ्चः ।स्रष्टा विधाता कविवेदगर्भौब्रह्माऽऽत्मभूर्नाभिभुवो ध्रुवोऽजः ॥ ३५ ॥
1.2.35 · p. 4
इन्द्रवज्रा
वेधाः प्रजापतिचतुर्मुखहंसगाः कोलोकेशसात्त्विकभवान्तकृतोऽब्जयोनिः ।पद्मासनः शतधृतिः कमनो हिरण्य-गर्भः पुराणगपितामहसम्भवाश्च ॥ ३६ ॥
1.2.36 · p. 4
वसन्ततिलका
विश्वरेता जगत्कर्ता शतानन्दो विरञ्चनः ।परमेष्ठी सुरज्येष्ठः क्षेत्रज्ञो द्रुघणः पुनः ॥ ३७ ॥
1.2.37 · p. 5
अनुष्टुप्
स्यादष्टश्रवणो भूयो द्रुहिणो,ऽथ जनार्दनः ।विष्णुर्जिष्णुर्हृषीकेशो हरिनारायणाच्युताः ॥ ३८ ॥
1.2.38 · p. 5
अनुष्टुप्
नरायणो जगन्नाथो दाशार्हः पुरुषोत्तमः ।श्रीपतिः श्रीधरो विश्वरूपो दामोदरो जिनः ॥ ३९ ॥
1.2.39 · p. 5
अनुष्टुप्
विधुः पीताम्बरो मार्जः शौरिस्तार्क्ष्यध्वजः स्वभूः ।सनातनः पद्मनाभो वासुदेवो वृषाकपिः ॥ ४० ॥
1.2.40 · p. 5
अनुष्टुप्
केशवोऽधोक्षजो विष्वक्सेनोऽब्धिशयनः पुनः ।पुनर्वसुरजः कृष्णः पद्मेशयकुमोदकौ ॥ ४१ ॥
1.2.41 · p. 5
अनुष्टुप्
वनमाली मुञ्जकेशी शतावर्त्तो गदाग्रजः ।इन्द्रानुज उपेन्द्रश्च सोमसिन्धुश्चतुर्भुजः ॥ ४२ ॥
1.2.42 · p. 5
अनुष्टुप्
गोपेन्द्रो देवकीसूनुर्मुकुन्दो धरणीधरः ।षड्बिन्दुः पुण्डरीकाक्षः शार्ङ्गी विश्वम्भरः पुनः ॥ ४३ ॥
1.2.43 · p. 5
अनुष्टुप्
पृश्निशृङ्गो यदुनाथ आत्मभूः पाण्डवायनः ।गोविन्दः शशिबिन्दुश्च वैकुण्ठो बभ्रुवेधसौ ॥ ४४ ॥
1.2.44 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 दु (wrong syllable)
सुवर्णबिन्दुर्दैत्यारिः पुराणपुरुषोऽपि च ।जह्नुस्त्रिविक्रमो यज्ञपुरुषो माधवः पुनः ॥ ४५ ॥
1.2.45 · p. 5
अनुष्टुप्
श्रीवत्सभृच्च श्रीवत्सश्चक्रभृत् शङ्खभृत्तथा ।गोवर्धनधरश्चापि गदाभृद्विष्टरश्रवाः ॥ ४६ ॥
1.2.46 · p. 5
अनुष्टुप्
हिरण्यकेशः श्रवणस्तमघ्नो वायुवाहनः ।चतुर्व्यूह ऊर्ध्वकर्मा पराविद्धोऽपराजितः ॥ ४७ ॥
1.2.47 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
पुण्यश्लोक उरुगात्रस्तीर्थपाद उरुक्रमः ।दशावतारः श्रीगर्भो लतापर्णः सहस्रजित् ॥ ४८ ॥
1.2.48 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
वृषोत्साहो वर्धमानः सुषेणश्च षडङ्गजित् ।क्रतुधामा बहुरूपो विधाता समितिंजयः ॥ ४९ ॥
1.2.49 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 हु (wrong syllable)
हिरण्यनाभः कपिलो वासुभद्रो महातपाः ।श्रीकरो भद्रकपिलः कालकुण्ठः सरीसृपः ॥ ५० ॥
1.2.50 · p. 6
अनुष्टुप्
एकदृक् धर्मनाभोऽपि सूक्ष्मनाभः सुरोत्तमः ।लोकनाभः पद्महासो महाहंस उदारधीः ॥ ५१ ॥
1.2.51 · p. 6
अनुष्टुप्
वृन्दारकः स्थिरः सोमैकपाद्द्विपदस्त्रिपात् ।त्रिधामा त्रिककुल्लोहिताक्षो धन्वा च विश्वभुक् ॥ ५२ ॥
1.2.52 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृक्षनेमिर्यवनारिः सुधन्वाऽधोमुखः कपिः ।शतवीरो ब्रह्मनाभः पद्मगर्भो वृषोदरः ॥ ५३ ॥
1.2.53 · p. 6
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
एकशृङ्गो बहुशृङ्गः पुष्पहासो बलिंदमः ।नवशक्तिरहिः पांशुजालिकः स्यान्महाक्रमः ॥ ५४ ॥
1.2.54 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable)
रत्नबाहुर्महामाय एकाङ्गश्च प्रमर्दनः ।यमकालः शतानन्दः सुवृषः शरुरित्यपि ॥ ५५ ॥
1.2.55 · p. 6
अनुष्टुप्
सुयामुनः श्रीवराहः सदायोगी सुभद्रकः ।नृसिंहवपुरासन्दोऽव्ययः स्याच्छिवकीर्तनः ॥ ५६ ॥
1.2.56 · p. 6
अनुष्टुप्
कंसप्रभृतयो दैत्या वध्या, अस्य तथा पिता ।आनकदुन्दुभिर्भूकश्यपो दिन्दुस्तथा पुनः ॥ ५७ ॥
1.2.57 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
वसुदेवो भुजमध्ये कौस्तुभो,ऽस्य स्यमन्तकः ।मणिः, करे गदा कौमोदकी, शार्ङ्गं धनुस्तथा ॥ ५८ ॥
1.2.58 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
चक्रं सुदर्शनो [नाम], नन्दकोऽसिश्च, वाहनम् ।गरुडः,श्चिह्नं श्रीवत्सः, पाञ्चजन्याभिधो महान् ॥ ५९ ॥
1.2.59 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह्नं (wrong syllable)
शङ्खोऽथ मुशली रामो हली कृष्णाग्रजो बलः ।संकर्षणो रौहिणेयः कामपालः सितासितः ॥ ६० ॥
1.2.60 · p. 7
अनुष्टुप्
ताललक्ष्मा बलभद्रो बलदेवः प्रलम्बभित् ।यमुनारुक्मिभिद्रेवतीशोऽनन्तो मधुप्रियः ॥ ६१ ॥
1.2.61 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
नीलवस्त्रो बली फालः एककुण्डलसात्त्वतौ ।शेषाहिनामभृद्गुप्तवरो भद्राङ्ग इत्यपि ॥ ६२ ॥
1.2.62 · p. 7
अनुष्टुप्
प्रलापी पौरः स्याद्भद्राचलनो,ऽस्य नपुंसके ।हलं संवर्त्तकं सौनन्दं क्लीबे मुशलं त्वथो ॥ ६३ ॥
1.2.63 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रः (wrong syllable)
क्षीरोदतनया ता सा मा श्रीः पद्मा हरिप्रिया ।रमा लक्ष्मीः पद्मवासा या विष्णुशक्तिर्भर्भरी ॥ ६४ ॥
1.2.64 · p. 7
अनुष्टुप्metre not read in every line
इन्दिरा कमला लोकमाता क्षीराब्धिमानुषी ।अथ कामः कलाकेलिः कन्दर्पः कमनः स्मरः ॥ ६५ ॥
1.2.65 · p. 7
अनुष्टुप्
मदनो दर्पकोऽनङ्गोऽनन्यजो मन्मथोऽङ्गजः ।जराभीरुर्मधुदीपो हृच्छयो मधुसारथिः ॥ ६६ ॥
1.2.66 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
श्रीनन्दनो मनोयोनिः प्रमत्तः पुष्पकेतनः ।आत्मभूर्यौवनोद्भेदः सर्वधन्वी प्रकर्षकः ॥ ६७ ॥
1.2.67 · p. 7
अनुष्टुप्
रागरज्जुः शिखिमृत्युर्मनोदाही महोत्सवः ।संकल्पयोनिर्विषमायुधो,ऽस्य रमणी रतिः ॥ ६८ ॥
1.2.68 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 खि (wrong syllable)
बाणाः पञ्च, ध्वजौ मीनकरौ, कुसुमानि च ।बाणधनुरायुधानि, शत्रू शम्बरशूर्पकौ ॥ ६९ ॥
1.2.69 · p. 7
metre not recognised
मधुमित्रं, तथा पुत्रः उषेशो ब्रह्मसूः पुनः ।अनिरुद्धः स्यादृष्याङ्कः, सौपर्णेयो विषापहः ॥ ७० ॥
1.2.70 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
सर्पारातिर्वैनतेयस्तार्क्ष्यो विष्णुरथोऽपि च ।पक्षिस्वामी वज्रतुण्डः सुधाहृद्वज्रजित्तथा ॥ ७१ ॥
1.2.71 · p. 8
अनुष्टुप्
महावेगः स्वर्णकायः पक्षिसिंहो विशालकः ।गरुत्मान् गरुडः शाल्मली कामायुस्तु काश्यपिः ॥ ७२ ॥
1.2.72 · p. 8
अनुष्टुप्
नागान्तकः सुपर्णो,ऽथ नीलकण्ठो महाव्रती ।ईशान ईश उड्डीशो भीमो धूर्जटिशंकरौ ॥ ७३ ॥
1.2.73 · p. 8
अनुष्टुप्
गिरीशो गिरिशः षण्ढः ऊर्ध्वलिङ्गो महेश्वरः ।अस्थिधन्वा महादेवो महानटो विषान्तकः ॥ ७४ ॥
1.2.74 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
श्मशानवेश्मा पुरुषो अस्थिमाली घनवाहनः ।अट्टहासी मृडो भर्गः एकपादैकदृक् त्रिदृक् ॥ ७५ ॥
1.2.75 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृषाङ्को भालदृक् वामदेवो मृत्युंजयः शिवः ।अहिर्बुध्न्यो विरूपा[क्षो] वह्निरेता उमापतिः ॥ ७६ ॥
1.2.76 · p. 8
अनुष्टुप्
हिरण्यरेताः श्रीकण्ठः कण्ठेकालः कपालभृत् ।व्योमकेशः पशुपतिर्भैरवश्च पिनाकभृत् ॥ ७७ ॥
1.2.77 · p. 8
अनुष्टुप्
पिङ्गेक्षणः पिङ्गजटो गङ्गाखट्वाङ्गभृत् हरः ।शिपिविष्टः शम्भुशर्वौ दिग्वासा अहिशूलभृत् ॥ ७८ ॥
1.2.78 · p. 8
अनुष्टुप्
प्रमथपतिः सर्वज्ञः खण्डपर्शुरपीश्वरः ।अष्टमूर्तिः सुप्रसादः कपर्दी नन्दिवर्धनः ॥ ७९ ॥
1.2.79 · p. 8
metre not recognisednearly अनुष्टुप्
स्थाणुः पञ्चमुखो रुद्रो नीललोहित इत्यपि ।कृत्तिवासा भवो नाट्यप्रिय उग्रोऽपराजितः ॥ ८० ॥
1.2.80 · p. 8
अनुष्टुप्
इन्दुभृच्छङ्कुगोपालौ शैलधन्वाऽक्षतस्वनः ।उन्मत्तवेषः शबरः सिताङ्गः कपिलाञ्जनः ॥ ८१ ॥
1.2.81 · p. 8
अनुष्टुप्
कोणवादी विशालाक्षः सुभगो धर्मवाहनः ।नवशक्तिर्महानादो दशबाहुर्जटाधरः ॥ ८२ ॥
1.2.82 · p. 9
अनुष्टुप्
कटंकटो जटाजूटाङ्गः कालश्च महाम्बुकः ।जगत्स्रष्टा भूतपतिर्दिशां प्रियतमः खरुः ॥ ८३ ॥
1.2.83 · p. 9
अनुष्टुप्
वह्निनेत्रो महाकान्तो नराधारो नृवेष्टनः ।अतलो धूम्रयोगी च स्त्रीदेहार्द्धो,ऽस्य शत्रवः ॥ ८४ ॥
1.2.84 · p. 9
अनुष्टुप्
अनङ्गाद्याः, जटाजूटः कपर्दो,ऽथ सुखंगुणः ।खट्वाङ्गोऽस्त्री, तथा चापमजगावं पिनाकिनः ॥ ८५ ॥
1.2.85 · p. 9
अनुष्टुप्
अजगवं पिनाकोऽस्त्री, ब्राह्मी प्रभृतयः पुनः ।मातरः सप्त, प्रमथाः पार्षदाश्च गणास्तथा ॥ ८६ ॥
1.2.86 · p. 9
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable); pāda 3, syllable 5 प्त (wrong syllable)
ऐश्वर्यं वशिता प्रप्तिः प्राकाम्यमणिमेशिता ।यत्र कामावसायित्वं लघिमा महिमाऽष्टधा ॥ ८७ ॥
1.2.87 · p. 9
अनुष्टुप्
भवानी त्र्यम्बका दुर्गा रुद्राणी पार्वतीश्वरा ।दक्षजाऽऽर्या सिंहयाना चण्डी कात्यायनी शिवा ॥ ८८ ॥
1.2.88 · p. 9
अनुष्टुप्
शर्वाणी स्यान्महादेवी कुमारी सर्वमङ्गला ।मृडानी मातृमाताऽम्बिकाऽपर्णोमाऽद्रिजा सती ॥ ८९ ॥
1.2.89 · p. 9
अनुष्टुप्
मेनाजा कृष्णमैनाकस्वसा गौरी महाजया ।निशुम्भमथनी शुम्भमथनी गणनायिका ॥ ९० ॥
1.2.90 · p. 9
अनुष्टुप्
कान्तारवासिनी भूतनायिका ब्रह्मचारिणी ।काली बर्हिध्वजाऽमोघा गौतमी तामसी जया ॥ ९१ ॥
1.2.91 · p. 10
अनुष्टुप्
नन्दपुत्री महाकाली भद्रकाली च योगिनी ।एकपर्णी बहुभुजा महामाया च बाभ्रवी ॥ ९२ ॥
1.2.92 · p. 10
अनुष्टुप्
दृषदन्ती कालरात्रिः कृष्णा स्यात्कृष्णपिङ्गला ।भ्रामरी जाङ्गुली षष्ठी प्रगल्भा यादवी वरा ॥ ९३ ॥
1.2.93 · p. 10
अनुष्टुप्
मघेन्द्रभगिनी हासा कौशिकी रेवती हिमा ।स्कन्दमाता प्रकूष्माण्डी गण्डिनी चोग्रचारिणी ॥ ९४ ॥
1.2.94 · p. 10
अनुष्टुप्
महारौद्री मलयिनी विजया कुलदेवता ।कालञ्जरी कालङ्गमा नन्दयन्ती निरञ्जना ॥ ९५ ॥
1.2.95 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
कोटिश्रीर्मन्दरावासा दर्दुरी च महानिशा ।किराती कालदमनी शिवदूती करालिका ॥ ९६ ॥
1.2.96 · p. 10
अनुष्टुप्
नीलवस्त्रा विकराला विरजा शृङ्गवासिनी ।कुलेश्वरी हैमवती विलङ्का नन्दिनीत्यपि ॥ ९७ ॥
1.2.97 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
प्रकीर्णकेशी स्यात्क्षेमंकरी नरायणी तथा ।शैला शाकम्भरी क्षण्डा(?) क्षेमा शतमुखी प्रभा ॥ ९८ ॥
1.2.98 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
विशालाक्षी बहुपुत्रा सावित्री गोकुलोद्भवा ।अष्टादशभुजा कुन्द्रा रौद्रा स्यान्नकुला कुला ॥ ९९ ॥
1.2.99 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable)
अनन्ता, तस्या विजया जया सख्यौ, [तु] केसरी ।मनस्तालो,ऽथ चामुण्डा महागन्धा कपालिनी ॥ १०० ॥
1.2.100 · p. 10
अनुष्टुप्
चर्ममुण्डा मार्जारकर्णिका भैरवीऽत्यपि चर्चिका ।कर्णमोटी, स्याद्गणेश आखुगः [तनयः] पुनः ॥ १०१ ॥
1.2.101 · p. 10
metre not recognisednearly अनुष्टुप्
विघ्नेशः पर्शुपाणिश्च द्वैमातुरो विनायकः ।लम्बोदर एकदन्तो हेरम्बश्च गजाननः ॥ १०२ ॥
1.2.102 · p. 11
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable); pāda 3, syllable 4 र (wrong syllable)
हस्तिमल्लः पृश्निशृङ्गः पृश्निगर्भस्त्रिधातुकः ।विषाणान्तो द्विशरीरो,ऽथ सेनानीर्दिगम्बरः ॥ १०३ ॥
1.2.103 · p. 11
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 श (wrong syllable)
विशाखः सिद्धसेनोऽपि कुमारः षण्मुखो गुहः ।ब्रह्मचारी महासेनः कार्तिकेयोऽग्निभूरपि ॥ १०४ ॥
1.2.104 · p. 11
अनुष्टुप्
जाह्नवीनन्दनो द्वादशाक्षः स्कन्द उमासुतः ।वैजयन्तस्तारकारिः शरभूः शक्तिभृत्तथा ॥ १०५ ॥
1.2.105 · p. 11
अनुष्टुप्
बालाचार्यो महातेजाः स्वामी च शिखिवाहनः ।करवारकक्रौञ्चारी, आश्रमोऽस्त्री चतुर्विधः ॥ १०६ ॥
1.2.106 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ।वर्णी, तस्मिन्नथ ज्येष्ठाश्रमी स्यात्स्नातको गृही ॥ १०७ ॥
1.2.107 · p. 11
अनुष्टुप्
गृहमेधी गृहस्थो,ऽथ वैखानसस्तृतीयके ।भिक्षौ सांन्यासिकः पाराशरी च यतितापसौ ॥ १०८ ॥
1.2.108 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
मस्करी रक्तवसनः कर्मन्दी पारिरक्षकः ।पारिकाङ्क्षी परिव्राजकस्तपस्वी मुनिस्तथा ॥ १०९ ॥
1.2.109 · p. 11
अनुष्टुप्
स स्थाण्डिलो व्रतवशात् शेते यः स्थण्डिले पुनः ।स्थण्डिलशाय्य,ऽथो दान्तस्तपःक्लेशसहोऽदरः ॥ ११० ॥
1.2.110 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
अथ बटूकरणोपनायोपनया आनयः पुनः ।आग्नीध्राग्नीन्धने चाग्निकार्यं स्यादग्निकारिका ॥ १११ ॥
1.2.111 · p. 12
अनुष्टुप्metre not read in every line
स्यादाषाढो व्रते दण्डः पालाशो, राम्भवैणवौ ।सारस्वतो बैल्वरौच्या वौपरोधिकपैलवौ ॥ ११२ ॥
1.2.112 · p. 12
अनुष्टुप्
आश्वत्थो जितनेमिः श्चोदुम्बरोलूखलौ समौ ।अस्त्री कमण्डलुः कण्डिका, भूयः आसनं वृषी ॥ ११३ ॥
1.2.113 · p. 12
अनुष्टुप्
स्त्रियां जटा सटा, कल्पो विधिः क्रमः, पुनर्जपः ।स्वाध्यायः, औपवस्त्रं चोपवासोऽस्त्री तथा पुनः ॥ ११४ ॥
1.2.114 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)
श्रान्तो जितेन्द्रियः शान्तो,ऽवदानं कर्मनिर्मलम् ।षट्कर्मा ब्राह्मणो विप्रो द्विजातिर्द्विज इत्यपि ॥ ११५ ॥
1.2.115 · p. 12
अनुष्टुप्
द्विजन्मा सूत्रकण्ठोऽग्रजन्मा च मुखसंभवः ।अग्निजातिः शमीगर्भः सावित्रो वाडवोऽग्रजः ॥ ११६ ॥
1.2.116 · p. 12
अनुष्टुप्
एतसो वेदगर्भोऽपि वर्णज्येष्ठस्त्रयीमुखः ।समानौ मैत्रभूदेवौ, बटुमाणवकौ तथा ॥ ११७ ॥
1.2.117 · p. 13
अनुष्टुप्
अध्वरः संस्तरः सप्ततन्तुः स्तोमः क्रतुर्मखः ।सत्रं यागः सवो यज्ञोऽस्त्रियौ वितानबर्हिषौ ॥ ११८ ॥
1.2.118 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
मन्युश्चाथो ब्रह्मयज्ञोऽध्ययनं, होम आहुतिः ।देवयज्ञो वषट्करो होत्रं चाप्य,थ तर्पणम् ॥ ११९ ॥
1.2.119 · p. 13
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 ट्क (wrong syllable)
पितृयज्ञः पिण्डदानं श्राद्धमस्त्री, बलिः पुनः ।भूतयज्ञो, नृयज्ञश्चातिथिपूजनमप्यथ ॥ १२० ॥
1.2.120 · p. 13
अनुष्टुप्
महायज्ञा अमी पञ्च, यज्ञौ पक्षान्तयोर्भवौ ।पौर्णमासस्तथा दर्शो, दीक्षार्हस्येष्टिः सौमिकी ॥ १२१ ॥
1.2.121 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ष्टिः (wrong syllable)
व्रतसंग्रहस्तु दीक्षा, भिक्षा कवलमात्रकम् ।आदेष्टा याजको यष्टा यजमानो मखे व्रती ॥ १२२ ॥
1.2.122 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्र (wrong syllable)
दीक्षितः स्यात्सोमयाजी, यायजूकः पुनर्भवेत् ।इज्याशीलो,ऽथ यज्वा स्यादासुतीवल इत्यपि ॥ १२३ ॥
1.2.123 · p. 13
अनुष्टुप्
सोमपीथी सोमपो,ऽथ गुरोरिष्टिविधायकः ।स्थपतिः, सर्ववेदा यो यज्ञं सर्वस्वदक्षिणम् ॥ १२४ ॥
1.2.124 · p. 14
अनुष्टुप्
इयाजा,ध्वर्युर्यजुर्वि,द्धोता ऋग्विच्च, सामवित् ।उद्गाता, छान्दसः श्रोत्रियश्च स्याद्वेदपाठकः ॥ १२५ ॥
1.2.125 · p. 14
अनुष्टुप्
यज्ञार्थं संस्कृता भूमिर्वेदी, स्थण्डिलचत्वरे ।अपरा, यूपोऽस्त्री, यज्ञकीलको यूपमस्तके ॥ १२६ ॥
1.2.126 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पोऽ (wrong syllable)
कटके चषालोऽस्त्री स्यात्, यूपकर्णो घृतक्षितौ ।तर्म्मा यूपाग्रभागेऽस्त्री, कुम्बा यज्ञे वृतिर्घना ॥ १२७ ॥
1.2.127 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षा (wrong syllable)
अक्लीबोऽरणिर्निर्मन्थकाष्ठेग्नेर्वह्नयस्त्रयः ।दक्षिणाहवनीयाग्नी गार्हपत्याग्निरित्यपि ॥ १२८ ॥
1.2.128 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णि (wrong syllable)
एते त्रेता त्रयोप्यत्र, वह्निर्मन्त्रादिना तु यः ।संस्कृतः स प्रणीतः स्यादिन्धनं क्षिप्यतेऽनले ॥ १२९ ॥
1.2.129 · p. 15
अनुष्टुप्
यया सा ऋक् सामिधेनी धाय्या, भूयोऽथ तर्पणम् ।एध्ममस्त्री समिदेधः पुंस्येधः स्यान्नपुंसके ॥ १३० ॥
1.2.130 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 मि (wrong syllable)
इन्धनं च, क्षारो रक्षा भस्मभसितभूतयः ।यज्ञे स्रुवादिकं पात्रं स्रुक् स्रुवस्तु कनीयसी ॥ १३१ ॥
1.2.131 · p. 15
अनुष्टुप्metre not read in every line
उपभृत् सा जुहूर्वृद्धा स्त्रियां, यत्र निधीयते ।घृतं च सर्वयज्ञार्थं सा ध्रुवा तैर्निगद्यते ॥ १३२ ॥
1.2.132 · p. 15
अनुष्टुप्
यागेऽभिमन्त्र्य यं हिंस्यात्स पशुः स्यादुपाकृतः ।परम्पराकं यागे स्यात्प्रोक्षणं शसनं वधः ॥ १३३ ॥
1.2.133 · p. 15
अनुष्टुप्
अभिचारः स विज्ञेयो हिंसार्थं कर्म यद्भुवि ।यज्ञियं यज्ञयोग्यं च, सान्नाय्यं हविरित्यपि ॥ १३४ ॥
1.2.134 · p. 15
अनुष्टुप्
तप्तक्वपयोगं स्याद्दधि क्षीरशरः पुनः ।पयस्यामिक्षे, तन्मस्तुनि वाजिनं हव्यमुच्यते ॥ १३५ ॥
1.2.135 · p. 16
metre not recognised
तद्यत्सुरेभ्यो दातव्यं, कव्यं पितृजनोचितम् ।ओदनं दधिसंपृक्ते हविषि स्यात्पृषातकम् ॥ १३६ ॥
1.2.136 · p. 16
अनुष्टुप्
पृषदाज्यं दधिषाज्यं, दधिसम्पृक्तं च यन्मधु ।महोदयो मधुपर्कं, हव्यपाके पुमांश्चरुः ॥ १३७ ॥
1.2.137 · p. 16
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 धु (wrong syllable)
होमकुण्डं हवित्री स्यात्, यज्ञशेषेऽमृतं तथा ।भुक्तशेषे च विघसो यज्ञान्तावभृथौ समौ ॥ १३८ ॥
1.2.138 · p. 16
अनुष्टुप्
खातादिकर्म तत्पूर्त्तमस्त्री, [इ]ष्टं यज्ञजा क्रिया ।तत् द्वयमिष्टापूर्त्तं च, विष्टरोऽस्त्री च बर्हिषाम् ॥ १३९ ॥
1.2.139 · p. 16
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 द्व (wrong syllable)
विमुष्टि रथाऽहिताग्निः स्यादग्निहोत्र्यग्निचित् पुनः ।अग्निहोत्रमग्न्याधानमग्निरक्षणमप्यथ ॥ १४० ॥
1.2.140 · p. 16
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 म (wrong syllable)
होमे धूमस्तथा भस्म निगणो, वैष्टुतं क्रमात् ।आचमनमुपस्पर्शः सेको घारश्च सेचनम् ॥ १४१ ॥
1.2.141 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
प्रवर्ग्यः स्यान्महाज्वालमहावीरावुभौ समौ ।होमाग्निर,थ दर्वी तु कथिता घृतलेखिनी ॥ १४२ ॥
1.2.142 · p. 17
अनुष्टुप्
ब्रह्मासनं भवेत्तत्तु ध्यानयोगासनं हि यत् ।वृत्ताध्ययनर्द्धिः पुनः कथ्यते ब्रह्मवर्चसम् ॥ १४३ ॥
1.2.143 · p. 17
अनुष्टुप्metre not read in every line
वेदपाठेऽञ्जलिर्ब्रह्माञ्जलि,स्ते ब्रह्मबिन्दवः ।विप्रुषो ये मुखात्पाठे निष्क्रान्ताऽथ कार्त्स्न्यतः ॥ १४४ ॥
1.2.144 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वचनं पारायणं च, तीर्थं स्यादङ्गुलीमुखे ।दैवतं, ब्राह्मं मूले स्यादङ्गुष्ठस्य, कनिष्ठयोः ॥ १४५ ॥
1.2.145 · p. 17
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ह्मं (wrong syllable)
कायं, पित्र्यं तर्जन्यङ्गुष्ठान्तः, सौम्यं करे पुनः ।ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं तथैव च ॥ १४६ ॥
1.2.146 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
देवत्वादिकमप्येवं, ग्रहः संस्कारपूर्वकः ।वेदस्योपाकरणं स्यात्, कृच्छ्रं सांतपनादिकम् ॥ १४७ ॥
1.2.147 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
अस्त्री प्रायः पुमान् संन्यास्यनशने समादृतः ।व्रतमस्त्री नियमोऽपि तपः पुण्यकमित्यपि ॥ १४८ ॥
1.2.148 · p. 18
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable); pāda 3, syllable 6 य (wrong syllable)