All kośas › Siddhaśabdārṇava
सिद्धशब्दार्णव Siddhaśabdārṇava
799 verses · text only, tagging comes next
प्रथमः काण्डः · जैनेतराधिकारः (2/3)
शीलमस्त्री चरित्रं च आचारश्चारित्रमेव च ।वृत्तं चरितं चरणं, सर्वपापप्रणाशिनि ॥ १४९ ॥
1.2.149 · p. 18
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 रि (wrong syllable)
जप्येऽघमर्षणं, वाच्यावभिवादनोपसंग्रहौ ।पादग्रहणं भूयो,ऽथोपवीतमस्त्रियां तथा ॥ १५० ॥
1.2.150 · p. 18
metre not recognised
यज्ञसूत्रं प्रोद्धृते दक्षिणे हस्ते, तथाऽपरे ।प्राचीनावीतं, निवीतं कण्ठलम्बितमस्ति यत् ॥ १५१ ॥
1.2.151 · p. 18
अनुष्टुप्
मैत्रावरुणवल्मीकौ कविप्राचेतसावपि ।तथैव कुसिवाल्मीकौ वाल्मीकिरथ माठरः ॥ १५२ ॥
1.2.152 · p. 18
अनुष्टुप्
व्यासो द्वैपायनः पाराशर्यः स्याद्बादरायणः ।वेदव्यासश्च कानीनोऽस्य प्रसूर्गन्धकालिका ॥ १५३ ॥
1.2.153 · p. 18
अनुष्टुप्
वासवी योजनगन्धा दाशेयी सत्यवत्यपि ।मत्स्योदरी सालङ्कायनजा गन्धवती पुनः ॥ १५४ ॥
1.2.154 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
रेणुकेयो जामदग्न्यः समानौ रामभार्गवौ ।नारदः पिशुनो देवब्रह्मा च कलिकारकः ॥ १५५ ॥
1.2.155 · p. 19
अनुष्टुप्
योगेशो याज्ञवल्क्यः स्याद्योगीशो ब्रह्मरात्रिकः ।अरुन्धतीजानिर्भूयो वसिष्ठोऽरुन्धती पुनः ॥ १५६ ॥
1.2.156 · p. 19
अनुष्टुप्
अक्षमाला, विश्वामित्रो गाधेयः कौशिकोऽपि च ।त्रिशङ्कुयाजी, दुर्वासाः कुशारणिश्च, गौतमः ॥ १५७ ॥
1.2.157 · p. 19
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
शतानन्दो,ऽथ स्यात्सालातुरीयः पाणिनिः पुनः ।दाक्षीयो,ऽथ गोनर्दीयः पतञ्जलिः, पुनर्वसुः ॥ १५८ ॥
1.2.158 · p. 19
metre not recognised
मेधाजित् स्याद्वररुचिस्तथा कात्यायनोप्यथ ।नन्दिनीतनयो व्याडिर्विन्ध्यावासी, करेणुभूः ॥ १५९ ॥
1.2.159 · p. 19
अनुष्टुप्
पालकाप्योऽथ, कक्षीवान् स्फोटायनोऽ,थ द्रामिलः ।विष्णुगुप्तो मल्लनागोऽङ्गुलश्चणकात्मजः ॥ १६० ॥
1.2.160 · p. 19
metre not recognised
कौटिल्यः पक्षिलस्वामी वात्स्यायनोऽमी तापसाः ।ज्ञानध्यानधनाः सर्वे विश्रुताः सकलावनौ ॥ १६१ ॥
1.2.161 · p. 19
अनुष्टुप्metre not read in every line
संस्काररहितो व्रात्य, अवकीर्णी खण्डितव्रतः ।कृष्णकर्मा शिश्विदानो, ब्राह्मणो योऽधमः पुनः ॥ १६२ ॥
1.2.162 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 1 अव (syllable split)
ब्रह्मबन्धु,र्जातिमात्रजीवी विप्रो द्विजब्रुवः ।वीरहा योऽत्र नष्टाग्निः, भोजनार्थं प्रजल्पति ॥ १६३ ॥
1.2.163 · p. 20
अनुष्टुप्
स्वकं गोत्रादि वार्त्ताशी, वेदहीनो निराकृतिः ।धर्मध्वजो लिङ्गजीवी, मत उच्छिष्टभोजनः ॥ १६४ ॥
1.2.164 · p. 20
अनुष्टुप्
सदैव नैवेद्यबलिभोजनो यो भवेद्द्विजः ।नाधीते योऽसध्येता सोऽजपोऽप्य,न्यशाखकः ॥ १६५ ॥
1.2.165 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 योऽ (syllables merged)
शाखारण्डः, काण्डस्पृष्टः शस्त्राजीवो, मलः पुनः ।अश्राद्धो देवाद्यर्च्चायां, गुरुहा नरकीलकः ॥ १६६ ॥
1.2.166 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 5 वा (wrong syllable)
मलिम्लुचः पञ्चयज्ञपरिक्षीणः, खरुः पुनः ।निरस्तैकरुचि,र्वीरोज्झो योऽत्र न जुहोति सः ॥ १६७ ॥
1.2.167 · p. 20
अनुष्टुप्
उदेति तपनो यस्मिन् शयितेऽस्तं प्रयाति वा ।क्रमेण तावभ्युदिता,भिनिम्रुक्तौ स्मृतावुभौ ॥ १६८ ॥
1.2.168 · p. 21
अनुष्टुप्
शूद्रानीतैर्धनैर्जुह्वत् वीरविप्लावको मतः ।वीरोपजीव्यग्निहोत्रमिषाद्याच्ञापरोऽत्र यः ॥ १६९ ॥
1.2.169 · p. 21
अनुष्टुप्
आर्हतः स्याद्वादवादी, बौद्धः स्याच्छून्यवादकः ।योगस्त्वाक्षपादो नैय्यायिकः, सांख्यश्च कापिलः ॥ १७० ॥
1.2.170 · p. 21
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
औलूक्यो वैशेषिको,ऽथ चार्वाको नास्तिकः पुनः ।बार्हस्पत्यो लोकायतिकः एते तार्किकाश्च षट् ॥ १७१ ॥
1.2.171 · p. 21
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 का (wrong syllable)
वेदः स्वाध्यायः आम्नायः छन्दः श्रुतिरथ त्रयी ।स्युरृग्वेदयजुर्वेदसामवेदा,स्तदुद्धतिः ॥ १७२ ॥
1.2.172 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यः (wrong syllable)
अथर्वा पुंसि, प्रणवः ओंकारो,ऽथ निरुक्तयः ।व्याकरणं छन्दः शिक्षा कल्पो ज्योतिरमूनि षट् ॥ १७३ ॥
1.2.173 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
उच्यन्तेऽङ्गान्यथो, धर्मशास्रं स्याद्धर्मसंहिता ।स्मृति,श्चान्वीक्षिकी तर्कविद्या चा,थ विचारणा ॥ १७४ ॥
1.2.174 · p. 22
अनुष्टुप्
मीमांसो,पनिषद्वेदान्ता, अथो पञ्चलक्षणम् ।पुराण,ममी पञ्चसर्गो मन्वन्तराणि च ॥ १७५ ॥
1.2.175 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वंशानुवंशचरितं प्रतिसर्गश्च वंशकः ।चतस्रः श्रुतयो धर्मशास्त्रमङ्गानि षट् पुनः ॥ १७६ ॥
1.2.176 · p. 22
अनुष्टुप्
पुराणं मीमांसा तर्कविद्या विद्याश्चतुर्दश ।सूचनकृत्सूत्रमस्त्री, भाष्यं विस्तारकं मतम् ॥ १७७ ॥
1.2.177 · p. 22
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मां (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
सूत्रार्थानां, प्रकरणं प्रस्तावः, पदभञ्जनम् ।निरुक्त,मथ शास्त्राणां विश्राम आह्निकं मतम् ॥ १७८ ॥
1.2.178 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
एकाधिकारकथितोऽधिकरणं प्रशस्यते ।उदितोऽयमनुक्तोऽयं दुरुक्तो योऽर्थसंचयः ॥ १७९ ॥
1.2.179 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
तस्य ज्ञानं करोत्येतद्वार्त्तिकं विविदुर्बुधाः ।अन्तराभावतो व्याख्याऽर्थानां टीका,[ऽथ पञ्जिका] ॥ १८० ॥
1.2.180 · p. 22
अनुष्टुप्
विषमार्थभञ्जिका स्या,द्ग्रन्थभेदाविमौ पृथक् ।वृत्तिनिबन्धावन्वर्थौ, तथान्वर्थपथाः समाः ॥ १८१ ॥
1.2.181 · p. ००२३
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 र्थ (wrong syllable); pāda 3, syllable 2 त्ति (wrong syllable)
अनेन सर्गपद्धतिपरिशिष्टमुखा अपि ।ग्रन्थावयवविशेषा ज्ञातव्या बुद्धिवैभवात् ॥ १८२ ॥
1.2.182 · p. ००२३
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 द्ध (wrong syllable); pāda 3, syllable 6 वि (wrong syllable)
लघुवृत्तौ कारिका सा प्रभूतार्थप्रकाशिनी ।समाहृतिः संग्रहश्च, सर्वविद्या कलन्दिका ॥ १८३ ॥
1.2.183 · p. ००२३
अनुष्टुप्
निघण्टुः स्यात्पुमानस्त्री कैश्चित्तु नामसङ्ग्रहः ।इतिहासः प्राक्चरितं, वार्त्ता प्रवृत्तिरित्यपि ॥ १८४ ॥
1.2.184 · p. ००२३
metre not recognised
तुल्यावुदन्तवृत्तान्ता,वैतिह्यं सा पुरातनी ।जनश्रुतिः किंवदन्ती, प्रहेलिका [स्यात्] प्रवह्लिका ॥ १८५ ॥
1.2.185 · p. ००२३
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
संज्ञाऽभिख्याऽभिधा आख्या आह्वा नामास्त्री गोत्रमाह्वयः ।नामधेय,मथो संबोधनमामन्त्रणं तथा ॥ १८६ ॥
1.2.186 · p. ००२३
अनुष्टुप्
अथ आकारणमाह्वानं स्यादभिमन्त्रणं हवः ।हूतिर्हक्कारकाऽऽकारौ, संहूतिर्बहुभिः कृताः ॥ १८७ ॥
1.2.187 · p. ००२३
अनुष्टुप्metre not read in every line
उपोद्घात उपन्यासोदाहारौ वाङ्मुखं तथा ।विवादो व्यवहारो,ऽथ शपनं शपथः पुमान् ॥ १८८ ॥
1.2.188 · p. 24
अनुष्टुप्
शपो,ऽथ प्रतिवचः स्यादुत्तरं चानुयोजनम् ।कथंकथिकता प्रश्नः पृच्छा, पुनरुपश्रुतिः ॥ १८९ ॥
1.2.189 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
देवप्रश्नः, प्रियप्रायं चटुचाटू कलाऽस्त्रियौ ।सूनृतं वचनं तद्धि यत्प्रियं सत्यमप्यथ ॥ १९० ॥
1.2.190 · p. 24
अनुष्टुप्
सत्यं तथ्यमृतं सम्यक् समीचीनं यथायथम् ।यथास्थितं स्यात्सद्भूतमेतानि स्युर्नपुंसके ॥ १९१ ॥
1.2.191 · p. 24
अनुष्टुप्
अनृतेऽलीकं वितथं, यद्विरुद्धं परस्परम् ।तत्क्लिष्टं संकुलं, सान्त्वमत्यर्थमधुरं वचः ॥ १९२ ॥
1.2.192 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
अश्लीलं ग्राम्यं, म्लिष्टं यदप्रकटमनक्षरम् ।अवाच्यं, ग्रस्तं संपूर्णोच्चारितं यद्वचो न तु ॥ १९३ ॥
1.2.193 · p. 24
metre not recognised
निरस्तं शीघ्रता उक्तं, थूत्कारसहितं पुनः ।अम्बूकृत,मसंबद्धवचनं स्यान्निरर्थकम् ॥ १९४ ॥
1.2.194 · p. 24
अनुष्टुप्
द्विस्त्रिरुक्तं भवेदाम्रेडितं, यद्दोषभाषणम् ।परोक्षे परकीयं तत्पृष्ठमांसादनं भवेत् ॥ १९५ ॥
1.2.195 · p. 25
अनुष्टुप्
अभ्याख्यानमसद्दोषारोपणं, हृदयंगमम् ।संगतं, निष्ठुरं रूक्षं विक्रुष्टं परुषं पुनः ॥ १९६ ॥
1.2.196 · p. 25
अनुष्टुप्
उच्चैर्घुष्टं घोषणा च, प्रशंसा वर्णना स्तवः ।ईडा स्तोत्रमर्थवादः स्तुतिः श्लाघा पुनर्नुतिः ॥ १९७ ॥
1.2.197 · p. 25
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 त्र (wrong syllable)
विकत्थनमसत्या सा, विगानं वचनीयता ।कौलीनं जनप्रवादो, निन्दा कुत्सा जुगुप्सनम् ॥ १९८ ॥
1.2.198 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
अपवाद उपक्रोशः परिवादश्च गर्हणा ।अवर्णो धिक्क्रिया क्षेपो निर्वादो, गालि[श्च] सोदिता ॥ १९९ ॥
1.2.199 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विरुद्धभाषणं यत्स्या,च्छापाक्षेपौ समौ पुनः ।आक्रोशः स्यादभीषङ्ग, आशीर्मङ्गलभाषणम् ॥ २०० ॥
1.2.200 · p. 25
अनुष्टुप्
श्लोकः समाज्ञाऽभिख्या च यशः कीर्तिः, शुभा च वाक् ।कल्या,ऽशुभा रुशती च, चर्चटी चर्चरी उभे ॥ २०१ ॥
1.2.201 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
हर्षक्रीडावाचके स्तः, परिभाषणमुच्यते ।य उपालम्भो निन्दायुक्, संभाषः स्यात्सकृद्वचः ॥ २०२ ॥
1.2.202 · p. 26
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 म्भो (wrong syllable)
आपृच्छाऽऽलापाव,सकृदनुलापः प्रकीर्तितः ।विलापः शोकवचनं, प्रलापोऽनर्थकं मतम् ॥ २०३ ॥
1.2.203 · p. 26
अनुष्टुप्
परस्परोक्तिः संलापः संकथा, या च काकुवाक् ।उल्लापो, विप्रलापस्तु विरुद्धवचनं हि यत् ॥ २०४ ॥
1.2.204 · p. 26
अनुष्टुप्
सुवचनं सुप्रलापो,ऽपलापो निह्नवः पुनः ।वाचिकं सन्देशवचः, स्यादाज्ञाशिष्टे [च] शासने ॥ २०५ ॥
1.2.205 · p. 26
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 च (wrong syllable)
अववादश्च निर्देशो नियोगो देश आनितः ।प्रतिशासनमाहूय प्रेषणं, चाथ संगरः ॥ २०६ ॥
1.2.206 · p. 26
अनुष्टुप्
आगूः स्त्रियां प्रतिज्ञाऽभ्युपगमः संवित् संश्रवः ।अभ्युपायश्च सन्धाऽस्थे अङ्गीकार अतिश्रवः ॥ २०७ ॥
1.2.207 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वित् (wrong syllable)
आश्रवो,ऽथ श्रुतदेवी गीर्गौर्वाणी सरस्वती ।ब्राह्मी वाग्भारती भाषाः, वचनं भाषितं वचः ॥ २०८ ॥
1.2.208 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
व्याहारो भणितं जल्पितं लपितं तथोदितम् ।गदिताभिधाने, साव्ययकारकविशेषणम् ॥ २०९ ॥
1.2.209 · p. 27
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 5 धा (wrong syllable)
क्रिया वाक्यं, स्वाद्यन्तं स्यात्पदं, विष्टपमस्त्रियाम् ।जगती विश्वं भुवनमस्त्री लोको जगत्तथा ॥ २१० ॥
1.2.210 · p. 27
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्वा (wrong syllable); pāda 3, syllable 5 श्वं (wrong syllable)
जीवाजीवयोः स्थानं स्याल्लोकः, ततोऽपरः ।पुरुषश्चेतन आत्मा क्षेत्रज्ञः, स भवी पुनः ॥ २११ ॥
1.2.211 · p. 27
metre not recognised
सत्त्वमस्त्री देहभृत् स्यादसुमान् जन्तुरस्त्रियाम् ।जन्युर्जीवो,ऽथ जननं जनिरुत्पत्तिरुद्भवः ॥ २१२ ॥
1.2.212 · p. 27
अनुष्टुप्
जन्मजनुषी, जीवस्त्रिलिङ्गो जीवितमित्यपि ।प्राणासू पुंसि बहूक्ता,वस्त्री जीवातुरादृतः ॥ २१३ ॥
1.2.213 · p. 27
metre not recognised
जीवनौषधं, श्वसितं श्वासः, समुखमध्यगः ।आहर आन उच्छासो, निश्वासः स्याद्बहिर्मुखः ॥ २१४ ॥
1.2.214 · p. 27
metre not recognised
एतनः पान, आयुस्तु क्लीबे पुंसि च सम्मतः ।जीवितकालो,ऽथ मनो मानसं स्वान्तमुच्चलम् ॥ २१५ ॥
1.2.215 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 वि (wrong syllable)
अन्तःकरणं हृदयं चित्तं हृच्चेतसी अपि ।गूढपथं, मनसो हि कर्म संकल्प उच्यते ॥ २१६ ॥
1.2.216 · p. 28
metre not recognised
शर्म्म सातं सुखं सौख्यं निर्वृति,र्वेदना व्यथा ।अर्तिः पीडा बाधा कृच्छ्रमाभीलमसुखं पुनः ॥ २१७ ॥
1.2.217 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बा (wrong syllable)
प्रगाढमामनस्यं च दुःखं कष्टं प्रसूतिजम् ।पुंस्याधिर्मानसं दुःखं, क्षुत् दुःखमुदराग्निजम् ॥ २१८ ॥
1.2.218 · p. 28
अनुष्टुप्
सपत्राकृतिरत्यर्थवेदनावाचकः पुनः ।निष्पत्राकृतिरप्येवं, व्यापादो द्रोहचिन्तनम् ॥ २१९ ॥
1.2.219 · p. 28
अनुष्टुप्
प्रथमज्ञानमुपज्ञा, चर्चा पुंसि स्त्रियामपि ।स्यात्सङ्ख्या विचारणा,ऽथ संस्कारो भावनाऽपि च ॥ २२० ॥
1.2.220 · p. 28
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable); pāda 3, syllable 4 वि (wrong syllable)
वासनाऽनुभूताद्यर्थसंहतीनामविस्मृतिः ।अन्तोऽदन्तो निर्णयश्च निश्चयः, संप्रधारणा ॥ २२१ ॥
1.2.221 · p. 28
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 भू (wrong syllable)
समर्थन,मथाज्ञानमविद्याऽहंमतिः पुनः ।मिथ्यामतिर्भ्रमो भ्रान्तिः, संदेहो द्वापरोस्त्रियाम् ॥ २२२ ॥
1.2.222 · p. 28
अनुष्टुप्
आरेकः संशयो विचिकित्सा, अथादीनवाश्रवौ ।दोषो,ऽथात्मा रूपतत्वं स्वभावप्रकृती पुनः ॥ २२३ ॥
1.2.223 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 विचि (syllable split)
धर्मोऽस्त्री सहजः सर्गः स्वरूपं च स्वलक्षणम् ।रीतिः सतत्त्वं संसिद्धिः निसर्गः शीलमस्त्रियाम् ॥ २२४ ॥
1.2.224 · p. 29
अनुष्टुप्
गुणोत्कर्षः परभागो, दशाऽवस्था स्थितिस्तथा ।अस्त्रियौ स्नेहप्रेमाणौ हार्दं प्रिति,रथो पुमान् ॥ २२५ ॥
1.2.225 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 5 ह (wrong syllable)
समाधिः प्रणिधानं चावधानं धानमित्यपि ।समार्था,वथानुपश्चाद्भ्यां तापश्चाऽनुशयस्तथा ॥ २२६ ॥
1.2.226 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विप्रतीसारो, दाक्षिण्यं द्वितीयमनुकूलता ।पुण्यं श्रेयो वृषो धर्मः सुकृतं, नियतिर्विधिः ॥ २२७ ॥
1.2.227 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रो (wrong syllable)
दिष्टं भाग्यं तथा भागधेयं दैवं त्वदोऽस्तियाम् ।शुभं दैव,मयोऽदन्तो, निरृतिः कालकर्णिका ॥ २२८ ॥
1.2.228 · p. 29
अनुष्टुप्
अलक्ष्मी,रथांहः पापं दुष्कृतं कल्मषं तमः ।दुरितं किल्बिषं कल्कमस्त्रियां वृजिनं पुनः ॥ २२९ ॥
1.2.229 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 थां (wrong syllable)
अघं पङ्कोऽस्त्रियां किण्वमेनः कलुषमित्यपि ।पातकोऽस्त्री पुमान् पाप्मा स्यादशुभं नपुंसके ॥ २३० ॥
1.2.230 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable)
धर्मार्थकामास्त्रिवर्गः, चतुर्भद्रं बलान्विताः ।मोक्षयुक्ताश्चतुर्वर्गः, उपाधिर्धर्मचिन्तनम् ॥ २३१ ॥
1.2.231 · p. 30
अनुष्टुप्
छन्दोऽदन्तो मतं भावोऽस्त्रियामाकूतमाशयः ।अभिप्रायो,ऽथ प्रमादस्तथैवानवधानता ॥ २३२ ॥
1.2.232 · p. 30
अनुष्टुप्
स्रोतः क्लीबेऽक्षकरणे खं हृषीकं तथेन्द्रियम् ।विषयी नन्तः, स्पर्शनादिकं बुद्धीन्द्रियं स्मृतम् ॥ २३३ ॥
1.2.233 · p. 30
अनुष्टुप्metre not read in every line
क्रियेन्द्रियं स्यात्पाण्यादिकं, पञ्च स्पर्शादयोऽप्यथ ।गोचरा विषया इन्द्रियार्थाः, शिशिरशीतलौ ॥ २३४ ॥
1.2.234 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शीतस्तुषारः सुशीमो हिमो जड इमे समे ।गुणे पुंसि वाच्यलिङ्गास्तद्वति स्युस्तथाऽपरे ॥ २३५ ॥
1.2.235 · p. 30
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable)
तीव्रस्तीक्षणः उष्णतिग्मौ चण्डः पटुखरावपि ।ईषदुष्णः कदुष्णश्च मन्दोष्णः कोष्णः पञ्चमः ॥ २३६ ॥
1.2.236 · p. 30
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 ष्णः (wrong syllable)
कवोष्णो,ऽथ दृढः क्रूरः कर्कषः कठिनः खरः ।कठोरो जरठो निष्ठुरः परुषश्च कक्खटः ॥ २३७ ॥
1.2.237 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
अकर्कशः सुकुमारो मृदुलः कोमलः मृदुः ।सुमालो, मधुरो गुल्यो रसज्येष्ठो मधूलकः ॥ २३८ ॥
1.2.238 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
स्वादुः, पाचनोऽम्लो दन्तशठः, सर्वरसः सरः ।लवणो,ऽथ कटुर्भूय उषणो मुखशोधनः ॥ २३९ ॥
1.2.239 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नोऽ (wrong syllable)
तिक्तो वक्त्रभेदी नन्तः, कषायस्तुवरो रसाः ।गन्धो, जनमनोह्लादी भवेत्स घ्राणतर्पणः ॥ २४० ॥
1.2.240 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भे (wrong syllable)
निर्हारी च समाकर्षी सुरभिः, स विदूरगः ।आमोदो, यो विमर्दोत्थः स परिमल आदृतः ॥ २४१ ॥
1.2.241 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प (wrong syllable)
अथेष्टगन्ध आमोदी सुगन्धिर्मुखवासनः ।दुर्गन्धः पूतिगन्धश्च, विस्रं स्यादामगन्धि यत् ॥ २४२ ॥
1.2.242 · p. 31
अनुष्टुप्
वर्णाः श्वेतमुखाः सर्वे,ऽथ शुक्लो धवलोऽर्जुनः ।अवदातः शुचिर्गौरी वलक्षो हरिणः सितः ॥ २४३ ॥
1.2.243 · p. 31
अनुष्टुप्
पाण्डुरो विशदः पाण्डुः श्वेतः शुभ्रश्च पाण्डरः ।श्येतः, स धूसरो ज्ञेय ईषत्पाण्डुर्भवेद्यकः ॥ २४४ ॥
1.2.244 · p. 31
अनुष्टुप्
कपोताभः कपोतश्च, गौरः स्यात्पीतरञ्जनः ।हारिद्रः पीतलः पीतः, पालाशो हरितो हरित् ॥ २४५ ॥
1.2.245 · p. 32
अनुष्टुप्
पीतनीलस्तालकाभो माञ्जिष्ठो रक्तरोहितौ ।लोहितः शोणो, यः श्वेतरक्तः स्यात्स तु पाटलः ॥ २४६ ॥
1.2.246 · p. 32
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 णो (wrong syllable)
बालसन्ध्यारुचिर्यः स्यादरुणः स निगद्यते ।पीतरक्तो हरिः श्यावः पिशङ्गः पिङ्गपिञ्जरौ ॥ २४७ ॥
1.2.247 · p. 32
अनुष्टुप्
पिङ्गलः कपिलो बभ्रुः कडारकपिशौ तथा ।कद्रुः, नीलोऽसितः श्यामः श्यामलो मेचकः शितिः ॥ २४८ ॥
1.2.248 · p. 32
अनुष्टुप्
कृष्णः कालः पुना रामो, रक्तश्यामस्तु धूमलः ।धूम्रो,ऽथ कर्बुरश्चित्र एतोऽदन्तश्च चित्रलः ॥ २४९ ॥
1.2.249 · p. 32
अनुष्टुप्
समौ किर्मीरकल्माषौ शबलो,ऽथ स्वरो ध्वनिः ।ध्वानः स्वानो रवो नादो निनदो निस्वनः स्वनः ॥ २५० ॥
1.2.250 · p. 32
अनुष्टुप्
रणः क्वणः स्वनिर्घोषः क्वाणो निक्वाणनिक्वणौ ।निनादशब्दनिर्घोषा ह्रादो निह्राद आरवः ॥ २५१ ॥
1.2.251 · p. 32
अनुष्टुप्
संरावश्च विरावश्च निःस्वानः क्वणनं पुनः ।आरावो,ऽथ सप्ततन्त्रीकण्ठजाताः स्वरा अमी ॥ २५२ ॥
1.2.252 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ऽथ (wrong syllable)
धैवतो निषधः षड्जो गान्धार ऋषभः पुनः ।मध्यमः पञ्चमस्ते स्युरुरःकण्ठशिरोभवाः ॥ २५३ ॥
1.2.253 · p. 33
अनुष्टुप्
मन्द्रा मध्यास्तथा ताराः, सप्रणादस्तु सीत्कृतम् ।जातो गुणानुरागाभ्यां शब्दो नॄणां स एव च ॥ २५४ ॥
1.2.254 · p. 33
अनुष्टुप्
क्रन्दितं रुदितं क्रुष्टं, गह्वरः स उदीरितः ।तदेवजातपूत्कारं, पर्दनं गुदजो रवः ॥ २५५ ॥
1.2.255 · p. 33
अनुष्टुप्
कर्दनं कुक्षिसंभूतः, सिंहनादस्तथा भवेत् ।क्ष्वेडा,ऽथ क्रन्दनं योधाह्वानं, कोलाहलोऽस्त्रियाम् ॥ २५६ ॥
1.2.256 · p. 33
अनुष्टुप्
कलकलो,ऽथ तुमलः शब्दो यो व्याकुलो भवेत् ।हस्तिनां बृंहितं गर्जो, हेषा ह्रेषा तु वाजिनाम् ॥ २५७ ॥
1.2.257 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
मृगादीनां तिरश्चां च रुतं वासितम,प्यथ ।पक्षिणां कूजितं, रेषा रेषणं स्याद्वृषस्य तु ॥ २५८ ॥
1.2.258 · p. 33
अनुष्टुप्
बुक्कणं भषणं सारमेयस्य, जलदस्य तु ।रसितं स्वनितं गर्जिः पुमान् ध्वनितगर्जिते ॥ २५९ ॥
1.2.259 · p. 34
अनुष्टुप्
स्तनितं चाथ विस्फारो धनुषां, गोरुभे मते ।हम्भारम्भे, भाजनं स्यात् कीचकानां च, टट्टुरम् ॥ २६० ॥
1.2.260 · p. 34
अनुष्टुप्
भेरीनादो, मुरजस्य गुन्दलः, प्रक्वणः पुनः ।प्रक्वाणस्त्रन्त्रीक्वणने, मणितं रतकूजितम् ॥ २६१ ॥
1.2.261 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
व्याध्यादिभिः पीडितानां कणितं, मधुरः कलः ।गम्भीरो मन्द्रः; उच्चैरत्यर्थं तारो निगद्यते ॥ २६२ ॥
1.2.262 · p. 34
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न्द्रः (wrong syllable)
कलः सूक्ष्मः काकली स्त्री, त्वेकतालो लयानुगः ।काकुरक्लीबो विकारो ध्वनेः शोकभयादिभिः ॥ २६३ ॥
1.2.263 · p. 34
अनुष्टुप्
प्रतिश्रुत् स्त्री प्रतिशब्दे … ।स्वास्थ्यं धृतिश्च संतोषः, पूर्वानुभवचिन्तनम् ॥ २६४ ॥
1.2.264 · p. 34
अनुष्टुप्metre not read in every line
स्मरणं स्मृतिराध्यानं स्याद्बुद्धिर्धिषणा मतिः ।प्रज्ञाप्रतिभाप्रतिपत्प्रेक्षासंवित्तिचेतनाः ॥ २६५ ॥
1.2.265 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
उपलब्धिः शेमुषी चिन्मनीषाज्ञप्तिदृष्टयः ।धीर्या तु धारणशक्ता मेधा सा प्रोच्यते बुधैः ॥ २६६ ॥
1.2.266 · p. 35
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ण (wrong syllable)
तत्त्वदृष्टिर्भवेत्पण्डा, ज्ञानं मोक्षफला मतिः ।विज्ञानमन्यशास्त्रादा,वथाष्टौ धीगुणा यथा ॥ २६७ ॥
1.2.267 · p. 35
अनुष्टुप्
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।ऊहोऽपाहोऽर्थविज्ञानं तत्त्वज्ञानं, त्रपा पुनः ॥ २६८ ॥
1.2.268 · p. 35
अनुष्टुप्