All kośas › Siddhaśabdārṇava
सिद्धशब्दार्णव Siddhaśabdārṇava
799 verses · text only, tagging comes next
द्वितीयः काण्डः · नारकाधिकारः
इति सुराधिकारः ।
यात्याप्रेताः नारकाश्च परेता अतिवाहिकाः ।विष्टिराजूः स्त्रियामेतौ, कारणा यातनापि च ॥ १०८ ॥
2.2.108 · p. 59
अनुष्टुप्
तीव्रवेदना,ऽथाक्लीबो दुर्गतिर्नरकः पुनः ।नारको निरयो,ऽथ स्वाद्बलिवेश्म नपुंसकम् ॥ १०९ ॥
2.2.109 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
रसातलं नागलोकोऽधोलोकः वडवामुखम् ।पाताल,मथो विवरं रोकं निम्नं बिलं वपा ॥ ११० ॥
2.2.110 · p. 59
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 म (wrong syllable)
अन्तरं शुषिरं रन्ध्रं छिद्रं निर्व्यथनं शुषिः ।स्त्रीपुमानपरे रोपं कुहरं, कुहरे भुवः ॥ १११ ॥
2.2.111 · p. 59
अनुष्टुप्
गर्त्तोऽक्लीबोऽवटः श्वभ्रमगाधोश्च दरस्त्रिषु ।रत्नप्रभादिमाः सन्ति भुवः सप्त जिनागमे ॥ ११२ ॥
2.2.112 · p. 59
अनुष्टुप्