कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Siddhaśabdārṇava

सिद्धशब्दार्णव Siddhaśabdārṇava

799 verses · text only, tagging comes next

द्वितीयः काण्डः · सुराधिकारः

ऐ नमः ॥

नाकोऽस्त्री त्रिदिवं तथैव तविषो द्यौः स्त्री दिवं ताविषःस्वर्गो गौरनपुंसको भुविरिति स्त्री चोर्ध्वलोकोऽवयम् ।स्वर्देवालयसैरिकौ दिदिविकः स्याद्दीदिविर्वासवा-वासः क्लीब इति त्रिविष्टपमपि द्युर्मेरुपृष्ठं तथा ॥ १ ॥
2.1.1 · p. 47
शार्दूलविक्रीडितम्
फलोदयो,ऽथ निर्जरा सुपर्वदेवनाकिनः ।अमर्त्यलेखतस्तदः सुधाभोजो निलिम्पकाः ॥ २ ॥
2.1.2 · p. 47
metre not recognisednearly पञ्चचामरम्: pāda 2, syllable 11 भो (wrong syllable)
गीर्वाणा अमृतान्धसः सुमनसः स्वाहाभुजो देवताअस्वप्ना विबुधाः सुधाक्रतुभुजो बर्हिर्मुखाः पुजिलाः ।आदित्या दनुजद्विषश्चानिमिषाः कामादिरूपाश्चिरा-युर्मत्र्यार्चिकसाध्यशोभमरुतो वृन्दारका दैवता ॥ ३ ॥
2.1.3 · p. 47
metre not recognisednearly शार्दूलविक्रीडितम्: pāda 2, syllable 17 पु (wrong syllable); pāda 3, syllable 9 श्चा (wrong syllable)
अस्त्र्येष(?) एवं त्रिदशा अमा ऋभवः सुराः ।अथार्काः द्वादश, तुषिताः षट्त्रिंशत्, वसवः पुनः ॥ ४ ॥
2.1.4 · p. 47
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वं (syllables merged)
अष्टौ, त्रयोदश विश्वे देवा, आभासुरास्तथा ।षष्टिर्द्वादश साध्याश्च सुशर्म्माणो दश स्मृताः ॥ ५ ॥
2.1.5 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
रुद्रा एकादश प्रोक्ताः वौकुण्ठाः स्युश्चतुर्दश ।एकोनपञ्चाशच्च स्युर्वायवो महाराजिकाः ॥ ६ ॥
2.1.6 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 हा (wrong syllable)
षट्त्रिंशदेते सर्वेऽपि विज्ञेया गणदेवताः ।विमानमस्त्री तेषां स्याद्वाहनं, भोजनं तथा ॥ ७ ॥
2.1.7 · p. 47
अनुष्टुप्
सुधा पीयूषममृत,मसुराः दानवाः पुनः ।इन्द्रारयः शुक्रशिष्याः पूर्वदेवाः सुरद्विषः ॥ ८ ॥
2.1.8 · p. 48
अनुष्टुप्
दनुजा दैत्यदैतेया दितिसुता, अमी दश ।असुरप्रमुखाश्च दिक्कुमारान्ता जिनागमे ॥ ९ ॥
2.1.9 · p. 48
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable); pāda 3, syllable 7 श्च (wrong syllable)
पातालवासिनः सर्वे अमरेन्द्राद्याः नामतः ।व्यन्तराश्च पिशाचाद्याष्टौ पातालवासिनः ॥ १० ॥
2.1.10 · p. 48
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 द्याः (wrong syllable)
चन्द्राद्याः पञ्चसंख्याका ज्योतिष्काश्च, खचारिणः ।सौधर्माश्चाच्युतान्ता द्वादश स्युर्विमानगाः ॥ ११ ॥
2.1.11 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कल्पातीता नव पञ्च भेदा एवं सुराः समे ।निकायभेदतो जाताश्चत्वारो,ऽथ विशेषतः ॥ १२ ॥
2.1.12 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
पुरन्दरोऽच्युताग्रजः सहस्रनेत्रवासवौ ।शचीपतिः शतक्रतुः सरर्षभश्च कौशिकः ॥ १३ ॥
2.1.13 · p. 48
पञ्चचामरम्
ऋभुक्षिमेघवाहनौ हरिश्च पाकशासनः ।वरक्रतुर्वृषा जयः सुरेशपूर्वदिक्पतिः ॥ १४ ॥
2.1.14 · p. 48
पञ्चचामरम्
पर्जन्यो बाहुदन्तेयः पुरुहूतोऽप्सरःपतिः ।तपस्तक्षः स्वर्गपतिर्हरिमान् वज्रदक्षिणः ॥ १५ ॥
2.1.15 · p. 48
अनुष्टुप्
वास्तोष्पतिः सुनासीरः सुत्रामशक्रदल्मयः ।विडौजा मघवा वज्री मघवान् देवदुन्दुभिः ॥ १६ ॥
2.1.16 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
वृत्रहा गोत्रभृत् प्रक्रन्दन आखण्डलः पुनः ।हरिहयो जम्भभेदी जिष्णुर्नमुचिसूदनः ॥ १७ ॥
2.1.17 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
बलद्विट् प्राचीनबर्हिस्तुराषाट् वियुनोऽपि च ।वृद्धश्रवाः पृतनाषाट् मरुत्वान्मिहिरः पुनः ॥ १८ ॥
2.1.18 · p. 49
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 त (wrong syllable)
उग्रधन्वा दुश्च्यवनः यामनेमिरमसहा ।किणालातः, प्रिया चास्य शची चारुरवा तथा ॥ १९ ॥
2.1.19 · p. 49
अनुष्टुप्metre not read in every line
शतावरी पौलोमी च शक्राणी जयवाहिनी ।इन्द्राणी स्यात्परिपूर्णसहस्रचन्द्रवत्यपि ॥ २० ॥
2.1.20 · p. 49
अनुष्टुप्metre not read in every line
पुत्रो जयो जयदत्तो जयन्तः पाकशासनिः ।जयन्ती तनया ताविषी तविषी, हयः पुनः ॥ २१ ॥
2.1.21 · p. 49
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable); pāda 4, syllable 3 वि (wrong syllable)
उच्चैःश्रवा वृषणाश्वो, मातलिस्तु हयंकषः ।सारथि,र्नन्दनं नाम वनं सर्वसुरप्रियम् ॥ २२ ॥
2.1.22 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
प्रासादो वैजयन्तोऽपि ध्वजो, दौवारिको महान् ।देवनन्दी भवेन्नान्तः, सरो नन्दीसरो वरम् ॥ २३ ॥
2.1.23 · p. 49
अनुष्टुप्
हस्ती चैरावणो हस्तिमल्ल ऐरावतोऽस्त्रियाम् ।अभ्रमातङ्गश्चाभ्रमुवल्लभश्च मदांवरः ॥ २४ ॥
2.1.24 · p. 49
अनुष्टुप्metre not read in every line
श्वेतगजो भद्रवेणुः सदादानोऽर्कसोदरः ।चतुर्दन्तो, धनुर्देवायुधं तत्सरलं तथा ॥ २५ ॥
2.1.25 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
रोहितं, यदि दीर्घं तु सरलं तन्निगद्यते ।ऐरावतमस्त्रियां च, वज्रमस्त्री पविः पुमान् ॥ २६ ॥
2.1.26 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
अशनिरक्लीबः शम्बः शतकोटिः पुमान् स्वरुः ।तामेव(?) ह्रादिनी दम्भोलिः पुमान् भिदुरं पुनः ॥ २७ ॥
2.1.27 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
कुलिशोऽस्त्री व्याधामो,ऽस्य ज्वालाऽतिभी स्रियाम् ।ध्वनिः स्फूर्जथुः पुमान्, अमरवती सुदर्शनं च पूः ॥ २८ ॥
2.1.28 · p. 50
metre not recognised
सभा सुधर्मा स्त्री नंत,स्तरवो हरिचन्दनः ।अस्त्री मन्दारसन्तानौ पारिजातश्च पञ्चमः ॥ २९ ॥
2.1.29 · p. 50
अनुष्टुप्
कल्पोऽश्विनौ यमौ दस्रौ नासिक्यौ वडवासुतौ ।अब्धिजावश्विनीपुत्रौ स्वर्वैद्यावर्क्कजौ पुनः ॥ ३० ॥
2.1.30 · p. 50
अनुष्टुप्
नासत्यौ नासत्यदस्रौ तथाऽग्रवरवाहनौ ।गदान्तकौ यज्ञवाहौ पुंसि द्विवचनौ सदा ॥ ३१ ॥
2.1.31 · p. 50
अनुष्टुप्
विश्वकृद्विश्वकर्मा च त्वष्टा स्याद्देववर्द्धकिः ।हाहाः पुंसि [च] तन्मुख्या हाहाहूहूः परे पुनः ॥ ३२ ॥
2.1.32 · p. 51
अनुष्टुप्
गान्धार्वास्तथा गन्धर्वाः तृतीयं देवगायनाः ।स्वर्वध्वः स्वर्गवध्वश्चाप्सरस्त्री बहुष्वयम् ॥ ३३ ॥
2.1.33 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 था (wrong syllable)
स्वर्वेश्या ऊर्वशीमुख्या, अथ प्रेतपतिर्यमः ।यमुनाभ्राता कीनाशो दक्षिणाशापतिर्हरिः ॥ ३४ ॥
2.1.34 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
कृतान्तः कालशीर्णाङ्घ्री धर्मराजोऽर्कनन्दनः ।समवर्ती श्राद्धदेवो मृत्युः स्याच्छमनोऽन्तकः ॥ ३५ ॥
2.1.35 · p. 51
अनुष्टुप्
दण्डधरः पितृपतिर्यमराट् महिषध्वजः ।महासत्यः कालकूटो यमुनाग्रज इत्यपि ॥ ३६ ॥
2.1.36 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
पुराणान्तोऽस्य धूमोर्णा प्रेयसी, [लेखस्तथा ।चित्रगुप्तः] प्रतिहारो वैध्यतः सेवकावुभौ ॥ ३७ ॥
2.1.37 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ति (wrong syllable)
चण्डस्तथा महाचण्डः, पुरी संयमनी भया ।रक्षोऽसंतश्च कीनाशः पलादो निकषात्मजः ॥ ३८ ॥
2.1.38 · p. 51
अनुष्टुप्
यात्वस्त्री कौणपः पुण्यजनोऽसृक्पश्च नैर्ऋतः ।नृचक्षाः कर्बुरो रात्रिंचरो रात्रिचरः पुनः ॥ ३९ ॥
2.1.39 · p. 51
अनुष्टुप्
पलप्रियो यातुधान आशरो राक्षसः पुमान् ।क्रव्यात् कर्वरौ विधुरः आशिरो जललोहितः ॥ ४० ॥
2.1.40 · p. 51
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र्व (wrong syllable)
सन्ध्याचलः कखापुत्रः उद्धरो नरविष्वणः ।त्रिशरो हरशः शङ्कूरः रात्रिबलः प्रवाहिकः ॥ ४१ ॥
2.1.41 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रिब (syllable split)
रक्तग्रीवस्तब्धसंभारः पुनः समितीपदः ।प्रचेता वरुणो यादःपतिर्जलपतिस्तथा ॥ ४२ ॥
2.1.42 · p. 52
अनुष्टुप्
पाशपाणिर्मेघनादोऽर्णवमन्दिरसंवृतौ ।परंजनो जलकान्तारः प्रतीचीशदुन्दुभी ॥ ४३ ॥
2.1.43 · p. 52
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ल (wrong syllable)
उद्दामो,ऽथ कैलासौका धनदो नरवाहनः ।ऐलविलो वैश्रवणस्त्रिशराः किंनरेश्वरः ॥ ४४ ॥
2.1.44 · p. 52
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 कै (wrong syllable); pāda 3, syllable 2 ल (wrong syllable)
धनेश्वरो निधीश्वरः पिशाचकी सितोदरः ।नृधर्मगुह्यकेश्वरौ कुबेरसत्यसंगरौ ॥ ४५ ॥
2.1.45 · p. 52
पञ्चचामरम्
एकपिङ्गो रत्नकरः श्रीदो यक्षेश्वरः एतः(?) ।इच्छावसुरीशसखो निधनाक्षः पुनः कुहः ॥ ४६ ॥
2.1.46 · p. 52
metre not recognised
पौलस्त्यश्च सुप्रसन्नः उत्तराशापतिस्तथा ।रत्नगर्भो महासत्त्वो धनकेलिः प्रमोदितः ॥ ४७ ॥
2.1.47 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
अस्य चैत्ररथं नाम वनं, पूरलका प्रभा ।वसुप्रभा वसुसारा स्याद्वस्वोकसारा, सुतः ॥ ४८ ॥
2.1.48 · p. 52
अनुष्टुप्metre not read in every line
नलकूबरो विमानं पुष्पकं, राजगुह्यकौ ।वटवासी पुण्यजनो यक्षः, किंपुरुषो मयुः ॥ ४९ ॥
2.1.49 · p. 52
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable); pāda 3, syllable 5 पु (wrong syllable)
किन्नरस्तुरङ्गमुखो, दिशामीशा अथ क्रमात् ।इन्द्रो हुताशनो मृत्युर्नैरृतो वरुणो मरुत् ॥ ५० ॥
2.1.50 · p. 52
अनुष्टुप्metre not read in every line
धनद ईशानोऽ[थ], दिग्गजा अष्ट ते अमी ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ५१ ॥
2.1.51 · p. 53
metre not recognised
पुष्पदन्तः सार्व्वभौमः सुप्रतीकः, करेणवः ।अभ्रमुः कपिलाऽनुपमा क्रमादथ ॥ ५२ ॥
2.1.52 · p. 53
metre not recognised
ताम्रकर्णी शुभ्रदन्ती चाङ्गना अञ्जनावती ।अथ चन्द्रो निशारत्नो निशाकरस्तिथिप्रणीः ॥ ५३ ॥
2.1.53 · p. 53
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
दशवाजी दशाश्वोऽपि सितवाजी सिताश्वकः ।सोमोऽमृतद्युतिः श्वेतद्युतिर्ग्लौ रोहिणीपतिः ॥ ५४ ॥
2.1.54 · p. 53
अनुष्टुप्
जैवातृकोऽमृतसूश्चात्रिदृग्जो दक्षजापतिः ।निशापतिर्द्विजपती राजा कुमुदबान्धवः ॥ ५५ ॥
2.1.55 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
कलाभृत् शशभृच्छायाभृदेणभृद्धिमद्युतिः ।कौमुदीपतिर्माजर्णो विधुः कुमुदिनीपतिः ॥ ५६ ॥
2.1.56 · p. 53
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable); pāda 3, syllable 5 ति (wrong syllable)
चन्द्रमाः ओषधिपतिर्भपतिः कृत्तिकाभवः ।राजराजस्तपाराजः शुभांशुशयतौ बुधः ॥ ५७ ॥
2.1.57 · p. 53
अनुष्टुप्
यज्ञराट् यजतः सृप्र खशिख श्वेतवाहनः ।सिन्धूत्थ ओषधीगर्भः श्रविष्टारमणोऽपि च ॥ ५८ ॥
2.1.58 · p. 53
अनुष्टुप्
स्यन्द आकाशचमसः पीतुश्चन्दिर एकभूः ।नेमिः स्याद्युवनः क्लेन्दुरिन्दुरस्य कला पुनः ॥ ५९ ॥
2.1.59 · p. 53
अनुष्टुप्
भागः स्यात्षोडशो, लक्ष्म लाञ्छनं चिह्नलक्षणे ।अभिज्ञानं कलङ्कोऽङ्को,ऽथ ज्योत्स्ना चन्द्रगोलिका ॥ ६० ॥
2.1.60 · p. 53
अनुष्टुप्
चन्द्रिका कौमुदी चन्द्रातपो,ऽथ बिम्बमस्त्रियाम् ।मण्डलं त्रिष्व,थादित्यो यमुनाजनकः शुचिः ॥ ६१ ॥
2.1.61 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ऽथ (wrong syllable)
विवस्वान् मिहिरो मित्रो द्युपतिर्गोपतिः पुनः ।सूरो मार्तण्डमार्त्तण्डौ द्वादशात्मा विरोचनः ॥ ६२ ॥
2.1.62 · p. 54
अनुष्टुप्
दिवाकरः प्रभाकरो विभाकरश्च भास्करः ।अहस्करो विकर्त्तनो अहाब्जिनीपतिः खगः ॥ ६३ ॥
2.1.63 · p. 54
पञ्चचामरम्
विभावस्तुस्त्रयीतनुर्गभस्तिचक्रबान्धवौ ।नभोमणिस्त्वहर्मणिर्हरिः पतङ्गतापनौ ॥ ६४ ॥
2.1.64 · p. 54
metre not recognisednearly पञ्चचामरम्: pāda 1, syllable 3 व (wrong syllable)
ध्वान्ताराती रविः सूर्यः कृतान्तजनको भगः ।प्रद्योतनश्चित्रभानुस्तरणि[श्चा]नपुंसकम् ॥ ६५ ॥
2.1.65 · p. 54
अनुष्टुप्
इनो हेलिर्हरिदश्वः किरणोऽरुणसारथिः ।कर्मसाक्षी जगत्साक्षी भास्वान् ग्रहपुषोऽर्यमा ॥ ६६ ॥
2.1.66 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
जगच्चक्षुरब्जहस्तोऽर्क्को दिवसकरस्तथा ।दिनकरो अंशुहस्तश्च तपनो गगनाध्वगः ॥ ६७ ॥
2.1.67 · p. 54
metre not recognised
सहस्रांशुः खरांशुश्च हंसस्त्वष्टाऽरुणः पपीः ।ब्रध्नोऽहर्बान्धवः सप्तसप्तिः स्यादब्जबान्धवः ॥ ६८ ॥
2.1.68 · p. 54
अनुष्टुप्
उष्णांशुः सविता पूषा भानेमिर्गगनध्वजः ।अंशुर्भानुदिवापुष्टौ लोकबन्धुः सदागतिः ॥ ६९ ॥
2.1.69 · p. 54
अनुष्टुप्
सहस्राङ्कः खतिलको दृशानः कर्णसूः कपिः ।वेदोदयो बहुरूपः प्रत्यूषाण्डोऽम्बुतस्करः ॥ ७० ॥
2.1.70 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable)
गलो प्रकाशनः पातुर्जगद्दीपः सुरावृतः ।सांवत्सररथः पाथः पुष्करो भानुकेशरः ॥ ७१ ॥
2.1.71 · p. 54
अनुष्टुप्
ब्रह्मा वाजी कालधरो रात्रिनाशन इत्यपि ।भानुगभस्तिवसवस्त्रयः पुंसि प्रभा स्त्रियाम् ॥ ७२ ॥
2.1.72 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
रुचिद्युती स्त्रियामुभे विभाऽनपुंसका च भा ।मरीचिवृश्नयस्त्रयः शुचिः पुमान् करस्तथा ॥ ७३ ॥
2.1.73 · p. 54
पञ्चचामरम्
रोचिः क्लीबेंऽशुरभीशुस्तथोपधृतिप्रग्रहौ ।घृणिरश्मिकेतवोऽपि विरोककिरणौ त्विषि ॥ ७४ ॥
2.1.74 · p. 55
metre not recognised
मयूख रुक्पादोस्रा एते पुंसि चतुर्दश ।गौरक्लीबस्तथा क्लीबे शोचिः ज्योतिश्च दीधितिः ॥ ७५ ॥
2.1.75 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रु (syllables merged)
स्त्रियामर्चिरपुमांश्च धाम क्लीबे तथा महः ।भाश्छविस्त्विड्द्युतिर्द्युश्च स्त्रियां पञ्च स्मृता अमी ॥ ७६ ॥
2.1.76 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पु (wrong syllable)
आतपालोकौ तेजो वर्च उद्योतपञ्चमम् ।प्रकाशः स्यान्मृगतृष्णा मरीचिका,ऽथ मण्डलम् ॥ ७७ ॥
2.1.77 · p. 55
metre not recognised
त्रिलिङ्गोऽयमुपसूर्यकं क्लीबोऽ[थ] परिधिः पुनः ।परिवेषः, सूर्यसूतः काश्यपिः गरुडाग्रजः ॥ ७८ ॥
2.1.78 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
अरुणो विनतासूनुरनूरुर्महासारथिः ।विपुलस्कन्धो, रेवन्तो हयवाहन इत्यपि ॥ ७९ ॥
2.1.79 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 हा (wrong syllable); pāda 3, syllable 5 न्धो (wrong syllable)
प्लवगोऽर्करेतोजश्च, माठराद्या अहर्पतेः ।अष्टादश सदा परिपार्श्विका अथ मङ्गलः ॥ ८० ॥
2.1.80 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable); pāda 3, syllable 7 प (wrong syllable)
लोहिताङ्गः कुजो वक्र आषाढाभूरङ्गारकः ।नवार्च्चिरार एकाङ्गो व्योमोल्मुकस्त्व,थो बुधः ॥ ८१ ॥
2.1.81 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 र (wrong syllable); pāda 4, syllable 3 ल्मु (wrong syllable)
श्रविष्ठाभूः श्यामाङ्गो ज्ञः पञ्चार्च्ची रोहिणीसुतः ।सौम्यः प्रहर्षलो, जीवः सुराचार्यो बृहस्पतिः ॥ ८२ ॥
2.1.82 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्या (wrong syllable)
उतथ्यानुजो धिषणो गुरुश्चित्रशिखण्डिजः ।वाचस्पतिः स्याद्बृहतीपतिवाग्मिनौ ॥ ८३ ॥
2.1.83 · p. 55
metre not recognised
आङ्गिरसो द्वादशार्च्चिर्दीदिविः फल्गुनीभवः ।प्रख्यामहामतिर्गौरो वाक्प्रचक्षाश्च गीरथः ॥ ८४ ॥
2.1.84 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
शुक्रः काव्यः षोडशार्च्चिर्धिष्ण्यो दैत्यगुरुः कविः ।भार्गवो भृगुरुशना मघाभवोऽप्य,थाऽसितः ॥ ८५ ॥
2.1.85 · p. 56
metre not recognisednearly अनुष्टुप्
शनिः शनैश्चरः सौरिः कूरात्मा रेवतीभवः ।महाग्रहः शतकर्मा मदः सप्तार्च्चिरित्यपि ॥ ८६ ॥
2.1.86 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
छायासुतो नीलवासाः क्रोडः पङ्गु,रथो तमः ।स्वर्भानुस्तु भरणीभूः सैहिकेयो विधुंतुदः ॥ ८७ ॥
2.1.87 · p. 56
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
उपप्लव उपरागो राहुः, केतुः शिखी पुनः ।अश्लेषाभूरूर्ध्वकचः आहिको,ऽथ ध्रुवः पुनः ॥ ८८ ॥
2.1.88 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
उत्तानपादजो ज्योतीरथो ग्रहाश्रयस्तथा ।अगस्तिर्मैत्रावरुणिरग्नेय आग्निमारुतः ॥ ८९ ॥
2.1.89 · p. 56
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable); pāda 4, syllable 3 य (wrong syllable)
वातापिद्विडौर्वशेयः पीताब्धिः कलशीसुतः ।दक्षिणाशारतिः विन्ध्यकूटोऽगस्त्यो घटोद्भवः ॥ ९० ॥
2.1.90 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्वि (wrong syllable)
वारुणिस्तपनः क्वाथिः सत्याग्निः मुनि,रस्य च ।भार्या कौषीतकी लोपामुद्रा वरप्रदा तथा ॥ ९१ ॥
2.1.91 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
मरीचिरत्रिः पुलस्योऽङ्गिराः पुलहः क्रतुः ।वसिष्ठश्च महातेजा सप्तमः परिकीर्तितः ॥ ९२ ॥
2.1.92 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्रिः (syllables merged)
सप्तर्षयस्तथा चि[त्र]शिखण्डिनोऽभिधा द्वयम् ।पुष्पदन्तौ पुष्पवन्तावभिन्नोक्त्येन्दुभास्करौ ॥ ९३ ॥
2.1.93 · p. 56
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ण्डि (wrong syllable)
य इन्दुसूर्ययो राहुग्रासः स ग्रह उच्यते ।उपप्लव उपरागो,ऽथारिष्टं स्यादुपद्रवः ॥ ९४ ॥
2.1.94 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
अजन्यमस्त्रियामार्तिः उपलिङ्गं च पञ्चमम् ।समावुत्पातोपसर्गौ वह्न्युत्पात उपाहितः ॥ ९५ ॥
2.1.95 · p. 57
अनुष्टुप्
त्रिलिङ्गास्तारकास्ताराऽक्लीबो भज्योतिषी ग्रहः ।उडुरपुमान्नक्षत्रं धिष्ण्यमृक्ष,मथाश्विनी ॥ ९६ ॥
2.1.96 · p. 57
अनुष्टुप्metre not read in every line
अश्वयुगश्वकिनी च बालिनी दस्रदेवता ।यमदेवता द्वितीयं भरणी, कृत्तिका पुनः ॥ ९७ ॥
2.1.97 · p. 57
metre not recognised
बहुलाः बहूक्तावग्निदेवास्तृतीयकम् ।ब्राह्मी स्याद्रोहिणी, मार्गो मृगशीर्षं मृगस्तथा ॥ ९८ ॥
2.1.98 · p. 57
अनुष्टुप्metre not read in every line
चान्द्रमसं मृगशिरोऽस्त्रियां, स्युः पञ्चतारकाः ।इल्वलाः स्त्री मृगशीर्षमस्तकस्थाश्च कालिनी ॥ ९९ ॥
2.1.99 · p. 57
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 6 ग (wrong syllable)
आर्द्रा रौद्री च, अथादित्यौ यामकौ तु पुनर्वसू ।स्युः पुष्यतिष्यसिध्याश्च [च]स्तुर्थं गुरुदैवतम् ॥ १०० ॥
2.1.100 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अश्लेषा [अ]क्लीबः सार्प्पी च बहूक्तौ स्त्री मघाः पुनः ।पित्र्याः स्युः, फाल्गुनी योनिदेवता,ऽर्यमदेवता ॥ १०१ ॥
2.1.101 · p. 58
अनुष्टुप्metre not read in every line
उत्तराफाल्गुनी, हस्तः सोऽक्लीबः सूर्यदैवतः ।चित्रा त्वाष्ट्री, तथा स्वातिरक्लीबोऽनिलदेवतः ॥ १०२ ॥
2.1.102 · p. 58
अनुष्टुप्
राधा विशाखा चैन्द्राग्निदेवा, मैत्री द्वितीयकम् ।अनुराधा, ज्येष्ठा चैन्द्री, मूलोऽस्त्री राक्षसः पुमान् ॥ १०३ ॥
2.1.103 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ये (wrong syllable)
जलदेवः पूर्वाषाढो, उत्तराषाढाः तथा पुनः ।वैश्वी स्यात्, श्रवणोऽक्लीबो हरिदेवो,ऽथ वासवी ॥ १०४ ॥
2.1.104 · p. 58
अनुष्टुप्metre not read in every line
धनिष्ठाश्रविष्ठे छल्ये, शतभिषक् तु वारुणी ।अजदेवी पूर्वभाद्रपदा उत्तरपूर्विका ॥ १०५ ॥
2.1.105 · p. 58
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तभि (syllable split)
भाद्रपदाऽहिर्बुध्नदेवा, प्रोष्ठपदा इति ।द्वयोर्नक्षत्रयोरेकं नाम पौष्ण्यं नपुंसके ॥ १०६ ॥
2.1.106 · p. 59
अनुष्टुप्metre not read in every line
रेवती, चन्द्रकामिन्यो दाक्षायण्यः पुनः समाः ।मेषाद्या राशयस्तेषामुदयो लग्नमस्त्रियाम् ॥ १०७ ॥
2.1.107 · p. 59
अनुष्टुप्