कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Siddhaśabdārṇava

सिद्धशब्दार्णव Siddhaśabdārṇava

799 verses · text only, tagging comes next

द्वितीयः काण्डः · शस्त्राधिकारः (1/2)

इति नारकाधिकारः ।

पुरुषो मानवो भूस्पृक् मानुषो मनुजो नरः ।मनुष्यः पुरुषो विट् ना मर्त्त्यः पञ्चजनः पुमान् ॥ ११३ ॥
2.3.113 · p. 59
अनुष्टुप्
द्विजक्षत्रियवैश्यशूद्राश्चतस्रो नरजातयः ।चातुर्वर्ण्यं, द्विजाः प्रोक्ताः पूज्यकाण्डे विशेषतः ॥ ११४ ॥
2.3.114 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अथ द्वितीयको वर्णो वर्ण्यते शास्त्रदृष्टितः ।राजन्यः क्षत्रियो बाहुसंभवः क्षत्रमस्त्रियाम् ॥ ११५ ॥
2.3.115 · p. 60
अनुष्टुप्
भूपालो लोकपालो राट् प्रजापालः क्षमापतिः ।पार्थिवः पृथिवीशक्रो मूर्धाभिषिक्तभूभृतौ ॥ ११६ ॥
2.3.116 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)
महीक्षिन्मध्यलोकेशो राजा,ऽथ मण्डलाधिपः ।मध्यमः, स भवेत्सम्राट् यो भूपान् शास्ति सर्वतः ॥ ११७ ॥
2.3.117 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ऽथ (wrong syllable)
योऽधिपः सर्वदेशस्य योऽयाक्षीद्राजसूयकम् ।अधीश्वरश्चक्रवर्ती सार्वभौमो,ऽत्र भारते ॥ ११८ ॥
2.3.118 · p. 60
अनुष्टुप्
जिनागमेऽभवद्वादश ते भरतमुख्यकाः ।मान्धाता धुन्धुमारश्च हरिश्चन्द्रः पुरूरवाः ॥ ११९ ॥
2.3.119 · p. 60
अनुष्टुप्
भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः ।लोकप्रसिद्धनामानि तेषामेवं यथाक्रमम् ॥ १२० ॥
2.3.120 · p. 60
अनुष्टुप्
युवनाश्वजो मान्धाताम् धुन्धुमारो द्वितीयकम् ।कुवलाश्वो,ऽथ त्रिशङ्कुजो हरिश्चन्द्र इत्यपि ॥ १२१ ॥
2.3.121 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 जो (wrong syllable)
उर्वशीरमणो बौधः ऐलो भूयः पुरूरवाः ।सर्वदमो भरतश्च शकुन्तलात्मजस्तथा ॥ १२२ ॥
2.3.122 · p. 61
अनुष्टुप्metre not read in every line
दौष्यन्ति,रर्जुनः कार्त्तवीर्यो भुजसहस्रभृत् ।हैहेयो,ऽथ त्रिपृष्टाद्या अचलप्रमुखा नव ॥ १२३ ॥
2.3.123 · p. 61
अनुष्टुप्
वासुदेवबलदेवाश्वग्रीवादयः पुनः ।प्रतिवासुदेवास्तेऽपि नव प्रोक्ता जिनागमे ॥ १२४ ॥
2.3.124 · p. 61
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दे (wrong syllable)
जिनानामृषभादीनां वीरान्तानां महात्मनाम् ।चतुर्विंशत्या त्रिषष्टिः शलाकापुरुषाः समे ॥ १२५ ॥
2.3.125 · p. 61
अनुष्टुप्
रामो दशरथिः कौसल्यात्मज,स्तस्य कामिनी ।जानकी मैथिली सीता धरणीतनया तथा ॥ १२६ ॥
2.3.126 · p. 61
अनुष्टुप्
वैदेही, रामतनयौ कुशलवौ कुशीलवौ ।अभिन्नोक्त्या,ऽथ सौमित्रीलक्ष्मणौ, वालिवालिनौ ॥ १२७ ॥
2.3.127 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
इन्द्रसुतो,ऽथ सुग्रीव आदित्यनुसूप्यथ ।मारुतिराञ्जनेयश्च हनुमानर्जुनध्वजः ॥ १२८ ॥
2.3.128 · p. 61
metre not recognised
वज्रकङ्कटकेशरिसुतौ, स्याद्दशकन्धरः ।राक्षसो लङ्केशश्च पौलस्त्यो रावणस्तथा ॥ १२९ ॥
2.3.129 · p. 61
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable); pāda 3, syllable 4 ल (syllables merged)
मन्दोदरीसुतो मेघनादो रावणिरिन्द्रजित् ।युधिष्ठिरो धर्मपुत्रः कङ्कः शल्यारिरित्यपि ॥ १३० ॥
2.3.130 · p. 62
अनुष्टुप्
अजमीढोऽजातशत्रुः, भीमो बकनिसूदनः ।वृकोदरो मरुत्पुत्रः स्याद्धिडिम्बनिसूदनः ॥ १३१ ॥
2.3.131 · p. 62
अनुष्टुप्
किर्मीरारिः कीचकारिः, सुभद्रेशो धनंजयः ।राधावेधी सव्यसाची किरीटी नन्तिमास्त्रयः ॥ १३२ ॥
2.3.132 · p. 62
अनुष्टुप्
ऐन्द्रिर्बृहन्नटो जिष्णुः स्युः पार्थार्जुनफाल्गुनाः ।कपिध्वजो गुडाकेशो योगी श्वेतहयो नरः ॥ १३३ ॥
2.3.133 · p. 62
अनुष्टुप्
कृष्णपक्षश्चित्रयोधी विजयः कर्णजित्पुनः ।बीभत्सुर्धन्वी चित्राङ्गसूदनो,ऽस्य रथः स्मृतः ॥ १३४ ॥
2.3.134 · p. 62
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न्वी (wrong syllable)
नन्दिघोषो, धनुर्गाण्डीवं गाण्डीवोऽस्त्रियौ मतौ ।सहदेवो ग्रन्थिकः स्यात्, नकुलस्तन्तिपालकः ॥ १३५ ॥
2.3.135 · p. 62
अनुष्टुप्
माद्रेयाविमा,वितरे भीमार्जुनयुधिष्ठिराः ।कौन्तेयाश्च, द्वयेऽथैते पाण्डवाः पाण्डवायनाः ॥ १३६ ॥
2.3.136 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 वि (wrong syllable)
पाण्डवेया, अथ कृष्णा द्रौपदी नित्ययौवना ।याज्ञसेनी च सैरन्ध्री पाञ्चाली यज्ञवेदिजा ॥ १३७ ॥
2.3.137 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
चम्पाधिपश्च राधेयः सूतार्कतनयोऽङ्गराट् ।कर्ण,स्तस्य धनुः कालपृष्ठं भूपा इमे समे ॥ १३८ ॥
2.3.138 · p. 63
अनुष्टुप्
पृथुरादिराजो वैन्यः प्रसिद्धः शिवशासने ।श्रेणिकाद्यास्तु कुमारपालान्ता जिनशासने ॥ १३९ ॥
2.3.139 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable); pāda 3, syllable 6 कु (wrong syllable)
राजवंश्यो राजबीजी, वंश्यो बीज्यश्च कथ्यते ।वंशजाते,ऽथ सप्त स्युः प्रकृतयो यथाक्रमम् ॥ १४० ॥
2.3.140 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त (wrong syllable)
राजा मन्त्री मित्रं कोशः देशः कोटो बलं तथा ।कथ्यते, प्रकृतयोऽपि समेऽपि पुरवासिनः ॥ १४१ ॥
2.3.141 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मि (wrong syllable); pāda 3, syllable 6 त (wrong syllable)
या स्वदेशस्य चिन्ता स्याद्रक्षणे तन्त्रमुच्यते ।आवापः शत्रुदेशस्य संध्यादिगुणषट्कतः ॥ १४२ ॥
2.3.142 · p. 63
अनुष्टुप्
तन्त्रं तथोपकरणं परिबर्हः परिच्छदः ।परिस्यन्दः परिकरः परिवारः परिग्रहः ॥ १४३ ॥
2.3.143 · p. 63
अनुष्टुप्
भूपासनं भवेद्भद्रासनं, स्वर्णमयं पुनः ।सिंहासनं, राजशय्या महाशय्या उभे समे ॥ १४४ ॥
2.3.144 · p. 63
अनुष्टुप्
आतपवारणं छत्रं, त्रिषु चमरचामरे ।प्रकीर्णकं रोगगुच्छो वालव्यजनमप्य,थ ॥ १४५ ॥
2.3.145 · p. 64
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable); pāda 2, syllable 2 षु (wrong syllable)
स्थगीर्वतश्च(?) ताम्बूलकरकः, कनकालुका ।भृङ्गारो,ऽथ पूर्णकुम्भो भद्रकुम्भं, पदासनम् ॥ १४६ ॥
2.3.146 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ऽथ (wrong syllable)
पादपीठमथो मन्त्री सचिवः सामवायिकः ।अमात्यो धीसखो,ऽथ स्यादायुक्तो व्यापृतः पुनः ॥ १४७ ॥
2.3.147 · p. 64
अनुष्टुप्
कर्मसचिवो नियोगी, प्राड्विवाकः स उच्यते ।यो द्रष्टा व्यवहाराणामक्षदर्शक इत्यपि ॥ १४८ ॥
2.3.148 · p. 64
अनुष्टुप्metre not read in every line
प्रधानानि महामात्राः, सौवस्तिकपुरोहितौ ।पुरोधाः, दण्डी द्वारस्थः द्वास्थो वेत्रधरोऽपि च ॥ १४९ ॥
2.3.149 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्डी (wrong syllable)
दौवारिकः प्रतीहारो क्षत्ताअ द्वाःस्थितिदर्शकः ।द्वारपालक उत्सारकः, स्यादधिकृतः पुनः ॥ १५० ॥
2.3.150 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अध्यक्षो,ऽथानीकस्थः स्यादङ्गरक्षकसंततौ ।सूदा[ध्य]क्षः पौरोगवः सूपः सूदश्च बल्लवः ॥ १५१ ॥
2.3.151 · p. 64
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable); pāda 3, syllable 6 रो (wrong syllable)
औदनिकः सूपकरो गुण आरालिकस्तथा ।भक्तकारो,ऽथ भौरिकः यः कनकाध्यक्षो भवेत् ॥ १५२ ॥
2.3.152 · p. 65
metre not recognised
नैष्किको रूप्याध्यश्च, स्थानाध्यक्षस्तु स्थनिकः ।शौल्किकः शुल्काध्यक्षः स्यात्, देयं घट्टादि स्फुटम् ॥ १५३ ॥
2.3.153 · p. 65
metre not recognised
स शुल्कोऽस्त्री, धर्माध्यक्षो धर्माधिकरणी पुनः ।धार्मिको, हट्टाध्यक्षोऽधिकर्मिको, दण्डनायकः ॥ १५४ ॥
2.3.154 · p. 65
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable); pāda 3, syllable 5 ट्टा (wrong syllable)
सेनानीश्चतुरङ्गबलाध्यक्षः, स्थागुरुः स च ।ग्रामेऽधिकृतो, बहुषु ग्रामेषु गोप उच्यते ॥ १५५ ॥
2.3.155 · p. 65
metre not recognised
योऽन्तःपुराधिकारी स्यादन्तर्वंशिक उच्यते ।अवरोधिकोऽथो कोट्टपतिः स्याद्दण्डपाशिकः ॥ १५६ ॥
2.3.156 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कोऽ (wrong syllable)
पुराध्यक्षः पौरिकोऽपि, स भवेत्पारिकर्मिकः ।क्षुद्रोपरकरणानां योऽधिकारी, चावरोधनम् ॥ १५७ ॥
2.3.157 · p. 65
metre not recognisednearly अनुष्टुप्
शुद्धान्तोऽस्त्रियामन्तःपुरमवरोध इत्यथ ।सौविदाः सौविदल्लास्ते ये चान्तःपुररक्षकाः ॥ १५८ ॥
2.3.158 · p. 66
अनुष्टुप्metre not read in every line
स्थापत्याः कञ्चुकिनोऽपि कुब्जवामनमुख्यकाः ।षण्ढो वर्षवरश्चायमप्यन्तःपुरपालकः ॥ १५९ ॥
2.3.159 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कि (wrong syllable)
जिघांसुः शात्रवः प्रत्यवस्थाताऽसहनो रिपुः ।अभियातिः प्रत्यनीको दस्युर्द्वेषी द्विषन्नरिः ॥ १६० ॥
2.3.160 · p. 66
अनुष्टुप्
आरातिरहितोऽमित्रः पुमान् प्रत्यर्थिवैरिणौ ।अभिमातिर्विपक्षो द्विट् सपत्नः परिपन्थिकः ॥ १६१ ॥
2.3.161 · p. 66
अनुष्टुप्
परिपन्थकः दुर्हृच्छत्रुः प्रतिपक्षः परस्तथा ।विद्वेषो विरोधो वैरं, मित्रं स्यात्सवयाः सखा ॥ १६२ ॥
2.3.162 · p. 66
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 रो (wrong syllable)
सुहृत् सहचरः स्निग्धो वयस्यो,ऽजर्यसौहृदे ।स्थान्मैत्री सौहार्द साप्तपदीनं संगतं पुनः ॥ १६३ ॥
2.3.163 · p. 66
अनुष्टुप्
सख्य,मानन्दनं चाऽपृच्छनं सभाजनं तथा ।विषयादन्तरो राट् शत्रु,र्मित्रमतः परम् ॥ १६४ ॥
2.3.164 · p. 66
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
उदासीनः परतरः, पार्ष्णिग्राहस्तु पृष्ठतः ।अनुरोधोऽनुवृत्तिश्च, चरश्चारस्तु हेरिकः ॥ १६५ ॥
2.3.165 · p. 67
अनुष्टुप्
यथार्हवर्णः प्रणिधिर्मन्त्रविद्गूढपूरुषः ।अवस्पर्शो स्पशो वार्तायनः, प्रत्ययितस्त्रिषु ॥ १६६ ॥
2.3.166 · p. 67
अनुष्टुप्
आप्तो, गृहपतिः सत्री, दूतः संदेशहारकः ।गुणाः संध्यादयः षट् च तेषामर्थः क्रमादयम् ॥ १६७ ॥
2.3.167 · p. 67
अनुष्टुप्
संधिरेकत्वकरणं, स्वस्थानात्परमण्डले ।करणं दाहलोपादेर्विग्रहः स निगद्यते ॥ १६८ ॥
2.3.168 · p. 67
अनुष्टुप्
स्याद्यानं प्रतियात्रा, तथाऽऽसनं विग्रहच्युतिः ।एकत्र सन्धिरन्यत्र यानं द्वैधं निगद्यते ॥ १६९ ॥
2.3.169 · p. 67
अनुष्टुप्
बलिनः शक्त्याश्रयणमाश्रयः षड्गुणा अमी ।राज्योपकारकास्त्रिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ १७० ॥
2.3.170 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्त्या (wrong syllable)
शक्तयो,ऽथ सामदानभेददण्डा अमी खलु ।उपायाः, सान्त्वनं सामोक्तिर्यत्प्रियभाषणम् ॥ १७१ ॥
2.3.171 · p. 68
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ऽथ (wrong syllable)
भेदस्तथोपजापः स युतयोर्भेदनं हि यत् ।दण्डोऽस्त्रिया[मथ] क्लीबे अपरं [तु साहसं] दमः ॥ १७२ ॥
2.3.172 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स प्रतापः प्रभावोऽपि तेजो यत्कोशदण्डजम् ।सोपधा या परीक्षा च धर्मार्थकामैः स्याद्भिया ॥ १७३ ॥
2.3.173 · p. 68
अनुष्टुप्metre not read in every line
एकान्ते मन्त्रणं मन्त्रो,ऽषडक्षीणं तदुच्यते ।मन्त्रक्रीडादि न ज्ञातं तृतीयप्रमुखेण यत् ॥ १७४ ॥
2.3.174 · p. 68
अनुष्टुप्
अथ स्यात्प्राभृतं कौशलिकं त्वामिषमस्त्रियाम् ।लञ्चाक्लीब उपचार उत्कोचो ढौकनं तथा ॥ १७५ ॥
2.3.175 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
उपप्रदानमुपदोपह्वारोपायने समे ।उपग्राह्योऽथेन्द्रजालं मायाऽपेक्षा अमी त्रयः ॥ १७६ ॥
2.3.176 · p. 68
अनुष्टुप्
उपाया अल्पा, अक्लीबे भागधेयः करो बलिः ।द्विगुणो दण्डो द्विपाद्यो, बलं सेना [प]ताकिनी ॥ १७७ ॥
2.3.177 · p. 68
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ल्पा (wrong syllable)
कटकानीकचक्राणि सदण्डान्यस्त्रियां चमूः ।अस्त्रियां स्कन्धावारो भूयः सैन्यं तन्त्रमनीकिनी ॥ १७८ ॥
2.3.178 · p. 69
अनुष्टुप्metre not read in every line
वरूथिनी ध्वजिनी च वाहिनी पृतना,ऽस्याः स्थितिः ।शिबिरं, रचना व्यूहो[स चा]नेकविधो युधि ॥ १७९ ॥
2.3.179 · p. 69
अनुष्टुप्metre not read in every line
दण्डव्यूहचक्रव्यूहशकटव्यूहनामभिः ।गरुडव्यूहनामाऽ,थ प्रत्यासारो द्वितीयकम् ॥ १८० ॥
2.3.180 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
व्यूहपार्ष्णिरपि, सैन्यपृष्ठे प्रोक्तः प्रतिग्रहः ।एकद्विपा चैकरथा त्र्यश्वा पञ्च पदातयः ॥ १८१ ॥
2.3.181 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
पत्तिः, स्यात्त्रिगुणा चैवं क्रमेण विहिता सती ।सेना सेनामुखं गुल्मोऽस्त्रियां स्याद्वाहिनी ततः ॥ १८२ ॥
2.3.182 · p. 69
अनुष्टुप्
पृतना चमूरनीकिनी चाक्षौहिणी दश गुणा ।ततः अनीकिनी भवेदक्षौहिणी सेना यदाहवे ॥ १८३ ॥
2.3.183 · p. 69
अनुष्टुप्metre not read in every line
स्यात्सेनाऽक्षौहिणी नाम खागाष्टैकद्विकैर्गजैः ।रथैश्चैभ्यो हयैस्त्रिघ्नैः पञ्चघ्नैश्च पदातिभिः ॥ १८४ ॥
2.3.184 · p. 69
अनुष्टुप्
उपरक्षणं द्वितीयं सज्जनं स्यात्, ध्वजोऽस्त्रियाम् ।केतुः [पुन]र्वैजयन्ती पताका केतनं तथा ॥ १८५ ॥
2.3.185 · p. 69
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
अस्योर्ध्वं स्थित उच्चूलो,ऽवचूलोऽधोमुखः स्थितः ।कूर्चः, स्यादथ सेनाङ्गं गजवाजिरथैस्तथा ॥ १८६ ॥
2.3.186 · p. 70
अनुष्टुप्
पत्तिभिश्च चतुर्भेदं, युद्धहेतौ च चक्रिणि ।याने शताङ्गं स्यन्दनो रथोऽक्लीबो भवेदसौ ॥ १८७ ॥
2.3.187 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स्य (wrong syllable)
पुष्परथो रमणार्थं नियुक्तो,ऽथ मरुद्रथः ।देवार्थो,ऽथ शस्त्राभ्यासरथो वैनयिकः पुनः ॥ १८८ ॥
2.3.188 · p. 70
metre not recognised
यः स्याद्रथो मार्गरथः कथ्यते पारियानिकः ।कर्णीरथः प्रवहणं डयनं रथगर्भकः ॥ १८९ ॥
2.3.189 · p. 70
अनुष्टुप्
शकटस्त्रिलिङ्गोऽस्त्री तु परेऽनः स्यान्नपुंसके ।गन्त्री कम्बलि वाह्यं स्यादस्त्री, वास्त्रादयो रथाः ॥ १९० ॥
2.3.190 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लि (wrong syllable)
तैस्तैराच्छादिताः, पाण्डुकम्बली स निगद्यते ।पाण्डुकम्बलैराच्छादितो, द्वैपस्तु यो वृतः ॥ १९१ ॥
2.3.191 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वैपेन चर्मणा, वैयाघ्रश्च वैयाघ्रचर्मणा ।चक्रमस्त्री रथाङ्गं रथपादोऽरिषण्डके ॥ १९२ ॥
2.3.192 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धारा प्रधिरस्य नेमिः स्त्रिया,माणिरणिः पुनः ।अक्लीबावक्षाग्रकीलः, नाभिः स्त्री पिण्डिका तथा ॥ १९३ ॥
2.3.193 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 धि (wrong syllable)
युगंधरकूबरौ द्वावस्त्रियौ, शम्याः युगकीलक एव यः ।… ॥ १९४ ॥
2.3.194 · p. 71
metre not recognised
युगान्तरं स्यात्प्रासङ्गो,ऽधस्थदारु च यद्रथे ।अनुकर्षः स विज्ञेयो धूधूर्वी द्वौ स्त्रियौ पुनः ॥ १९५ ॥
2.3.195 · p. 71
अनुष्टुप्
यानमुखं, वरूथोऽस्त्री रथगुप्ति,रपस्कराः ।रथाङ्गानि, याप्ययानं शिबिका, दोला [च] सा मता ॥ १९६ ॥
2.3.196 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
प्रेङ्खाप्रभृतिर्याऽस्त्यत्र, शिबिकाप्रमुखं हि यत् ।परंपरावाहनं च तद्वैनीतकमस्त्रियाम् ॥ १९७ ॥
2.3.197 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
वह्यं वाह्यं यानं युग्यं वाहनं प्रत्रमस्त्रियाम् ।धोरणं चा,थ नियन्ता प्राजिता सूतसारथी ॥ १९८ ॥
2.3.198 · p. 71
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable); pāda 3, syllable 6 नि (wrong syllable)
क्षत्ता प्रवेत्ता सव्येष्ठा यन्ता रथकुटुम्बिकः ।दक्षिणस्थो, रथे योद्धा रथरोही रथी पुनः ॥ १९९ ॥
2.3.199 · p. 71
अनुष्टुप्
रथी रथिकरथिरौ, सादी तुरगीनन्तकः ।अश्वारोहोऽश्ववारश्च, यन्तृसादिनिषादिनः ॥ २०० ॥
2.3.200 · p. 72
अनुष्टुप्metre not read in every line
हस्त्यारोहो महामात्रो, हस्तिपकेभपालकौ ।गजाजीवाधोरणौ चत्वारोऽमी तु किङ्कराः ॥ २०१ ॥
2.3.201 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 3, syllable 5 धो (syllables merged)
मण्ठो देश्यां, भटा योधा योद्धारोप्यथ, सैनिकाः ।सेनारक्षा, मिलिता ये सेनानां सैनिकाः पुनः ॥ २०२ ॥
2.3.202 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लि (wrong syllable)
सैन्याः, सहस्रिणः साहस्रास्ते योद्धार आदृताः ।सहस्रेण समं ये तु, छत्रधारः स चादृतः ॥ २०३ ॥
2.3.203 · p. 72
अनुष्टुप्
छायाकरो,ऽथ पताकी द्वितीयं वैजयन्तिकः ।परिधिस्थः परिचरः, प्रतिमुक्तस्तथा आङ्परः ॥ २०४ ॥
2.3.204 · p. 72
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
उक्तोऽपिनद्धः पिनद्धो,ऽथ सज्जो व्यूढकङ्कटः ।सन्नद्धो दंशितो वर्मितो,ऽथ वर्म्म नपुंसके ॥ २०५ ॥
2.3.205 · p. 72
अनुष्टुप्
माठी वमश्च सन्नाहो दंशः कवचमस्त्रियाम् ।उरश्छदस्तनुत्रं च जगरः कङ्कटस्तथा ॥ २०६ ॥
2.3.206 · p. 72
अनुष्टुप्
अस्त्रियां कञ्चुको वारवाणश्चापि निचोलकः ।कूर्पासो,ऽथ सारसनमधिका[ङ्गं] तथाऽस्त्रियाम् ॥ २०७ ॥
2.3.207 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ऽथ (wrong syllable)
सकञ्चुका धरन्तीह हृदये यत्तदुच्यते ।शिरस्कं शीर्षकं शीर्षण्यं शिरस्राणमित्यपि ॥ २०८ ॥
2.3.208 · p. 73
अनुष्टुप्
उदरत्राणनागोदौ, बाहुलं बाहुरक्षणम् ।मत्कुणं जङ्घात्राणं स्या,दायसी त्वङ्गरक्षणी ॥ २०९ ॥
2.3.209 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ङ्घा (wrong syllable)
जालिका तु जालप्राया, आयुधीयः शस्त्रजीवोऽपि ।आयुधिकः काण्डपृष्ठः, कौन्तिकः प्रासिकः पुनः ॥ २१० ॥
2.3.210 · p. 73
metre not recognised
परश्वधायुधः पारश्वधिको द्वितीयं तथा ।पारश्वधो,ऽथ शाक्तीको, याष्टीकः शक्तियष्टिभृत् ॥ २११ ॥
2.3.211 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ती (wrong syllable)
क्रमान्नैस्त्रिंशकोऽप्येवं, धानुष्को धनुभृत्तथा ।तूणी नन्तश्च काण्डीरः काण्डवान्, यः शराणि हि ॥ २१२ ॥
2.3.212 · p. 73
अनुष्टुप्
सुप्रयुङ्क्ते कृतहस्तः कृतपुङ्खः स उच्यते ।लघुहस्तः शीघ्रवेधी, सोऽपराद्धेषुरुच्यते ॥ २१३ ॥
2.3.213 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
लक्षतो भ्रष्टबाणो यो, दूरवेधी च नन्तकौ ।दूरापाती, प्रहरणं हेतिरायुधमस्त्रियाम् ॥ २१४ ॥
2.3.214 · p. 74
अनुष्टुप्
शस्त्रमपुमानस्त्रं, चतुर्भेदं हि तद्भवेत् ।पाणियन्त्रप्रभेदेन द्विधा मुक्तं [नि]गद्यते ॥ २१५ ॥
2.3.215 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शक्त्यादिकं पाणिमुक्तं यन्त्रमुक्तं शरादिकम् ।अमुक्तं शस्त्रिप्रमुखं मुक्तामुक्तं भवेदिह ॥ २१६ ॥
2.3.216 · p. 74
अनुष्टुप्
यष्टिप्रभृतिकं सर्वं, धनुरस्त्री च कार्मुकम् ।आसः कोदण्डमिष्वासश्चापस्तेऽप्यस्त्रियां मताः ॥ २१७ ॥
2.3.217 · p. 74
अनुष्टुप्
धनुः क्लीबे द्रुणमस्त्र,मस्य मध्यं च लस्तकः ।कोटिरर्त्तिरटिनी च, जीवा ज्या सञ्जिनी द्रुणा ॥ २१८ ॥
2.3.218 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable); pāda 3, syllable 6 टि (wrong syllable)
गव्याऽपुमान् गुणो मौर्वी शिञ्जा बाणासनं, तलम् ।अपुमान् गोधा ज्याघातवारणं, मण्डलं तथा ॥ २१९ ॥
2.3.219 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
आलीढं प्रत्यालीढं च वैशाखं समपादकम् ।पञ्चस्थानानि बाणस्य मोचनावसरे तथा ॥ २२० ॥
2.3.220 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्या (wrong syllable)
क्लीबे पञ्चापि केऽप्याहुरस्त्रियामिति तद्विदः ।शरव्यकं लक्षं लक्ष्यं वेध्यं निमित्तमित्यपि ॥ २२१ ॥
2.3.221 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
शिलीमुखश्च मार्गणः शरोऽस्त्रियामजिह्मगः ।कलम्बसायकौ समौ खगश्च काण्डमस्त्रियाम् ॥ २२२ ॥
2.3.222 · p. 75
पञ्चचामरम्
बाणोऽस्त्रियां चित्रपुङ्खः पत्त्री रोप इषुस्त्रिषु ।पृषत्कविशिखौ गार्ध्रपक्षः प्रदर आशुगः ॥ २२३ ॥
2.3.223 · p. 75
अनुष्टुप्
पत्त्रवाहः कङ्कपत्त्रो लक्षहा मर्मभेदनः ।वारोऽस्त्रकण्टको वीरशङ्कुः कादम्ब इत्यपि ॥ २२४ ॥
2.3.224 · p. 75
अनुष्टुप्
नाराच एषणः सर्वलोहः प्रक्ष्वेडनः पुनः ।स्यादस्त्रसायको लोहनालो, [मुक्तो निरस्तकः] ॥ २२५ ॥
2.3.225 · p. 75
अनुष्टुप्
[शरः स्याद्], विषसंयुक्तो दिग्धो लिप्तः पुनः स च ।व्यवच्छेदो बाणमोक्षो, दीप्तिः शरजवस्य यत् ॥ २२६ ॥
2.3.226 · p. 75
अनुष्टुप्
तीव्रत्वं, क्षुरप्रतीरी तद्बलार्धेन्दुमुख्यकाः ।तस्य भेदाः, वाजः पक्षः, शरस्योपरि पत्त्रणा ॥ २२७ ॥
2.3.227 · p. 75
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्षु (wrong syllable); pāda 3, syllable 5 वा (wrong syllable)
पक्षरचना या, पुङ्खोऽस्त्रियां स्यात्कर्तरी पुनः ।शरधिः पुमान् तूणीरः तूणस्त्रिषु शराश्रयः ॥ २२८ ॥
2.3.228 · p. 75
metre not recognised
कलापो निषङ्ग उपासङ्गो,ऽथासिः पुमांस्तथा ।तरवारिरपि द्वौ च ऋष्टिरीष्टी अषण्डकौ ॥ २२९ ॥
2.3.229 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
कौक्षेयको मण्डलाग्रो व्यवहारः प्रजाकरः ।चन्द्रहासः करवालस्तीक्ष्णकर्मा [दु]रासदः ॥ २३० ॥
2.3.230 · p. 76
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
कृपाणः खड्गनिस्त्रिंशौ मनुज्येष्ठः शिवंकरः ।धर्मपालः करपालो धाराधरो विषाग्रजः ॥ २३१ ॥
2.3.231 · p. 76
अनुष्टुप्metre not read in every line
शास्ता क्षरः स्याच्छ्रीगर्भो विजयश्च करालिकः ।चन्द्रभासस्तीक्ष्णधारो देवः प्रसङ्गसायकौ ॥ २३२ ॥
2.3.232 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)