कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Siddhaśabdārṇava

सिद्धशब्दार्णव Siddhaśabdārṇava

799 verses · text only, tagging comes next

द्वितीयः काण्डः · अवस्थाभेदाधिकारः

समाप्तः शूद्राधिकारः ।

अथ चतुर्णां वर्णानां प्राग्भवाचीर्णसंस्कारा इत्यादिना अवस्थाभेदं सामान्यत आह ।

कुमारकः क्षीरकण्ठो बालः पोतः स्तनंधयः ।पृथुकोत्तानशयौ डिम्भशावौ तथा शिशुः ॥ ३५६ ॥
2.6.356 · p. 95
metre not recognisednearly अनुष्टुप्
अर्भः पाको,ऽथ शिशुत्वं शैशवं बाल्यमप्यथ ।तरुणो युवा वयस्थो,ऽथ तारुण्यं तथाऽस्त्रियाम् ॥ ३५७ ॥
2.6.357 · p. 95
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 शि (wrong syllable); pāda 3, syllable 4 यु (wrong syllable)
यौवनं, चाथ स्थविरो यातयामो जरी जरन् ।जीर्णो जीवः प्रवयाश्च वृद्धो,ऽथ विस्रसा जरा ॥ ३५८ ॥
2.6.358 · p. 95
metre not recognised
स्थाविरं वार्द्धकं, [ज्यायान्] वर्षीयान् दशमी तथा ।लब्धवर्णः प्राप्तरूपो विद्वान् व्यक्तविपश्चितौ ॥ ३५९ ॥
2.6.359 · p. 95
अनुष्टुप्
विचक्षणो विशारदो मनीषिधीरपण्डिताः ।बुधप्रबुद्धकोविदाः कविः कृती सुधीस्तथा ॥ ३६० ॥
2.6.360 · p. 95
पञ्चचामरम्
मेधावी सूरिदोषज्ञाभिरूपप्राज्ञकृष्टयः ।स्यात्सङ्ख्यावान्सन् ज्ञो, दक्षः शिक्षितो निपुणः पटुः ॥ ३६१ ॥
2.6.361 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्सन् (wrong syllable)
अभिज्ञो विज्ञः स्याद्वैज्ञानिकः कृतमुखः पुनः ।कृतकर्मा कृतहस्तः कुशलश्चतुरोऽपि च ॥ ३६२ ॥
2.6.362 · p. 95
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ज्ञः (wrong syllable); pāda 3, syllable 6 त (wrong syllable)
समौ निष्णातप्रवीणौ, प्रस्तावज्ञे तु छेकिलः ।छेको विदग्धः छेकालो देश्यां छइल्ल इत्यपि ॥ ३६३ ॥
2.6.363 · p. 95
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable); pāda 4, syllable 3 छ (wrong syllable)
प्रगल्भः प्रतिभायुक्तः प्रौढो,ऽथ दीर्घदर्श्ययम् ।पश्येद्यो दूरतः, प्रत्युत्पन्नबुद्धिर्द्वितीयकम् ॥ ३६४ ॥
2.6.364 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ऽथ (wrong syllable)
तत्कालधीः, सूक्ष्मदर्शी कुशाग्रीयमतिः पुनः ।चिद्रूपो हृदयालुश्च तत्त्वज्ञानयुतिः स्मृतः ॥ ३६५ ॥
2.6.365 · p. 96
अनुष्टुप्
सहृदयः, संस्कृतो यो व्युत्पन्नः प्रहतः स तु? ।क्षुण्णोऽपि, सोऽन्तर्वाणिर्यः शास्त्रविद्वक्तुमक्षमः ॥ ३६६ ॥
2.6.366 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
प्रधानवक्ता योऽमुष्मिन् वागीशो वाक्पतिः स च ।प्रतिभायुक्तजल्पाकौ वाचोयुक्तिपटुः स्मृतः ॥ ३६७ ॥
2.6.367 · p. 96
अनुष्टुप्
वावदूकः प्रवाग्वाग्मी समुखो,ऽथ वदावदः ।वक्ता वदो,ऽथ जल्पाको यो भवेद्बहुगर्ह्यवाक् ॥ ३६८ ॥
2.6.368 · p. 96
अनुष्टुप्
वाचाटो वाचालः, प्रश्नेऽनुत्तरो यद्वदस्तथा ।दुर्वाक् कद्वदो,ऽथ हीनवादी चाधर इत्यपि ॥ ३६९ ॥
2.6.369 · p. 96
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable); pāda 3, syllable 4 द्व (wrong syllable)
एडमूकस्तथाऽनेडमूकोऽवाक्श्रुतिरप्य,थ ।स तु कुवादः कुचरो यो भवेत्कुटिलाशयः ॥ ३७० ॥
2.6.370 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 तु (wrong syllable)
रवणः शब्दनः सोऽत्र यः शब्दं कुरुतेऽधिकम् ।काहलो लोहलः स स्यादस्फुटवाक् च यो भवेत् ॥ ३७१ ॥
2.6.371 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
अवाक् मूको,ऽस्वरः स स्याद्घर्घवचनो हि यः ।विदुरो वेदिता विन्दु, वन्दारुरभिवादकः ॥ ३७२ ॥
2.6.372 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आशंसिका स्यादाशंसुः, कट्वरः कटुभाषिणि ।क्षिप्नुर्निराकरिष्णुश्च, विकाशी स्याद्विकस्वरः ॥ ३७३ ॥
2.6.373 · p. 97
अनुष्टुप्
मुखरो दुर्मुखोऽबद्धमुखो,ऽथ स्यात्प्रियंवदः ।शक्लः, प्रियंवदो दानशीलश्च यो भवेत्स हि ॥ ३७४ ॥
2.6.374 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
वदान्यश्च वदन्यो,ऽथ मूर्खोऽज्ञो मातृशासितः ।मातृमुखो यथाजातो मन्दोऽमेधो जडः पुनः ॥ ३७५ ॥
2.6.375 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
मूढो वैधेयो विवर्णो देवानांप्रियबालिशौ ।जाल्मो बालोऽनेडो नामवर्जितो,ऽथ चिरक्रियः ॥ ३७६ ॥
2.6.376 · p. 97
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ने (wrong syllable)
दीर्घसूत्रो,ऽथ क्रियासु मन्दः कुण्ठो,ऽथ कर्मसु ।उद्यतो यः क्रियावान् सो,ऽलङ्कर्मीणः स उच्यते ॥ ३७७ ॥
2.6.377 · p. 97
अनुष्टुप्
कर्मक्षमः, कर्मदक्षः कर्मठः, कार्म एव सः ।कर्मशीलोऽपि, यस्तीक्ष्णकर्मकृदायःशूलिकः ॥ ३७८ ॥
2.6.378 · p. 98
metre not recognisednearly अनुष्टुप्
सुरूपदेही य स्वङ्गः सिंहसंहननः पुनः ।स्वैरी स्वतन्त्रः स्वरुचिः निरवग्रहोऽपावृतः ॥ ३७९ ॥
2.6.379 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 होऽ (wrong syllable)
यथाकामी स्वच्छन्दो,ऽथ स्वेच्छा स्यात्स्वैरिता पुनः ।यदृच्छा, गृह्यको निघ्नः पराधीनश्च नाशवान् ॥ ३८० ॥
2.6.380 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
परायत्तः परवशः परतन्त्रोऽवधानकः ।परच्छन्दो वशायत्तः परवान्, अथ लक्ष्मणः ॥ ३८१ ॥
2.6.381 · p. 98
अनुष्टुप्
लक्ष्मीवान् श्लीलो,ऽथेभ्यः स्यादृद्धाऽढ्यौ धनीश्वरः ।दरिद्रः कीटको निःस्वो दुःस्थोऽकिञ्चनदुर्गतौ ॥ ३८२ ॥
2.6.382 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्ली (syllables merged)
दुर्विधो दीनः क्षुद्रो,ऽथ किंपचानो मितंपचः ।कीनाशः कृपणः क्षुद्रो दृढमुष्टिश्च तद्धनः ॥ ३८३ ॥
2.6.383 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नः (wrong syllable)
नेताऽधिपः परिवृढः प्रभुरिन्द्र ईशोभर्त्तेश्वरो विभुः पत्यधिभू स्वनाथः ।स्वामी तथाऽऽर्य इन ईशितृनायकौ चभृत्य-पराचित-भुजिष्य-नियोज्य-दासाः ॥ ३८४ ॥
2.6.384 · p. 98
metre not recognisednearly वसन्ततिलका: pāda 2, syllable 6 भुः (syllables merged); pāda 4, syllable 2 त्य (wrong syllable)
परैधितः परजातः परान्नपरिकर्मिणौ ।परिस्कन्दो गोप्यः प्रेष्यो परपिण्डादकिंकरौ ॥ ३८५ ॥
2.6.385 · p. 99
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 5 गो (wrong syllable)
परिचारकः स्याच्चेटो डिङ्गरो,ऽथ विशेषतः ।कर्मकरो भृतभुग्वैतनिको भृतकोऽपि च ॥ ३८६ ॥
2.6.386 · p. 99
metre not recognised
कर्मकारः सनिभृतिः, भर्मण्या भर्मनिष्क्रयौ ।भृत्या भृतिर्भरणं च निर्वेशो वेतनं पणः ॥ ३८७ ॥
2.6.387 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
मूल्यं विधा च कर्मण्या, वेश्यामूल्यं हि यद्भवेत् ।भोगो भाटिः स उच्यते, खलपूर्द्वितीयं पुनः ॥ ३८८ ॥
2.6.388 · p. 99
अनुष्टुप्metre not read in every line
बहुकरो, भारवाहो भारिको, भारवीवधौ ।विवधो,ऽथ वार्तावहो वैवधिको, विहङ्गिका ॥ ३८९ ॥
2.6.389 · p. 99
metre not recognised
भारयष्टि,र्भारलम्बः शिक्यं काचः सरज्जुयुक् ।वीरश्चारभटः शूरो विक्रान्तो, भीरुभीरुकौ ॥ ३९० ॥
2.6.390 · p. 99
अनुष्टुप्
भीलुकः कातरो भीतो दरितश्चकितोऽप्य,थ ।व्यग्रः स्याद्व्याकुलो भूयो विहस्तो,ऽत्यर्थमाकुलः ॥ ३९१ ॥
2.6.391 · p. 99
अनुष्टुप्
पिञ्जलः स समुत्पिञ्ज उत्पिञ्जलः, भयद्रुते ।कान्दिशीको,ऽथ महात्मा महामना महाशयः ॥ ३९२ ॥
2.6.392 · p. 100
metre not recognised
उदार उद्भटोदात्तौ महेच्छोदीर्णौ, सूरतः ।करुणापरः कृपालुः दयालुर,थ घातुकः ॥ ३९३ ॥
2.6.393 · p. 100
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 र्णौ (wrong syllable); pāda 3, syllable 4 प (wrong syllable)
शरारुर्हिस्रो,ऽथ वधो घातो व्यापादनं पुनः ।प्रोज्जासनं प्रमथनं प्रमथोऽस्त्री प्रमापणम् ॥ ३९४ ॥
2.6.394 · p. 100
अनुष्टुप्
अपासनं निसूदनं प्रवासनं च वर्जनम् ।प्रशसनं समापनं विशरणं निबर्हणम् ॥ ३९५ ॥
2.6.395 · p. 100
metre not recognised
निर्वापणालम्भहिंसोन्मन्थसंज्ञप्तयस्तथा ।निष्कारणनिर्यातनक्राथनिर्वासनानि च ॥ ३९६ ॥
2.6.396 · p. 100
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 नि (syllables merged)
उद्वासनं मारपिञ्जौ प्रतिघातनमित्यपि ।निस्तर्हणं प्रशमनं परासनं कदनं तथा ॥ ३९७ ॥
2.6.397 · p. 100
metre not recognisednearly अनुष्टुप्
निर्ग्रन्थनं विशसनं निशुम्भोऽप्य,थ कर्तनम् ।कल्पनं वर्धनं छेद, आततायी स उच्यते ॥ ३९८ ॥
2.6.398 · p. 100
अनुष्टुप्
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।क्षेत्रदारहरश्चैव षडेते आततायिनः ॥ ३९९ ॥
2.6.399 · p. 100
अनुष्टुप्
शीर्षच्छेदिकः शीर्षच्छेदो योऽर्हो हन्तुमत्र सः ।नामशेषो यशःशेषः परासुः प्रेतसंस्थितौ ॥ ४०० ॥
2.6.400 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कः (wrong syllable)
आलेख्यशेषः परेतः मृतश्चोपगतः पुनः ।उपसंपन्नो व्यापन्नः प्रमीतो,ऽथौर्ध्वदेहिकम् ॥ ४०१ ॥
2.6.401 · p. 101
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न्नो (wrong syllable)
मृतस्य दिवसे दानं तदर्थमिदमुच्यते ।अपस्नानं मृतस्नानं, पितॄणां यत्तु तर्पणम् ॥ ४०२ ॥
2.6.402 · p. 101
अनुष्टुप्
निवापः सोऽप्य,थ चिता चित्या चिति,रथाञ्जसः ।प्राञ्जल ऋजुरुदारः, सरलो दक्षिणोऽप्य,थ ॥ ४०३ ॥
2.6.403 · p. 101
अनुष्टुप्metre not read in every line
अनृजुः शठनिकृतौ, निस्त्रिंशः क्रूर इत्यपि ।नृशंसः पापो,ऽथ धूर्तो मायी व्यंसकजालिकौ ॥ ४०४ ॥
2.6.404 · p. 101
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
दाण्डाजिनिकः कुहकः वञ्चकः, सज्जनः पुनः ।सभ्यार्यौ साधु,र्दोषैकदृक्पुरोभागिनाव,थ ॥ ४०५ ॥
2.6.405 · p. 101
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable); pāda 3, syllable 5 धु (wrong syllable)
द्विजिह्वो दुर्जनः कर्णेजपः पिशुनसूचकौ ।नीचः खलोऽस्त्रियामन्यः क्षुद्रः प्रखलमत्सरी ॥ ४०६ ॥
2.6.406 · p. 101
अनुष्टुप्
उपरक्तो व्यसनार्तः, स्तेनोऽस्त्री पारिपन्थिकः ।परास्कन्दी परिमोषी तस्करः प्रतिरोधकः ॥ ४०७ ॥
2.6.407 · p. 101
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable); pāda 3, syllable 6 रि (wrong syllable)
पाटच्चर ऐकागारिको दस्युः स्यान्मलिम्लुचः ।चोरश्चौरो रात्रिचरश्चौरडोप्य,थ तस्करः ॥ ४०८ ॥
2.6.408 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ऐ (wrong syllable)
यो हरेत्परकीयं स्वं पश्यतस्तत्कलावशात् ।मनीषिभिः स पापिष्ठ उच्यते पश्यतोहरः ॥ ४०९ ॥
2.6.409 · p. 102
अनुष्टुप्
स्तेयं चौर्यं चौरिका चापुमान्, लोप्त्रं धनं हि तत् ।स्तेनापहृतं यत्स्यात्, यद्भविष्योऽपरः पुनः ॥ ४१० ॥
2.6.410 · p. 102
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 स्ते (syllables merged)
दैवपरो,ऽथानुष्णः स्यादालस्योऽलसशीतकौ ।तुन्दपरिमृजो मन्दः, सूत्थानश्चतुरः पटुः ॥ ४११ ॥
2.6.411 · p. 102
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 व (wrong syllable); pāda 3, syllable 3 प (wrong syllable)
उष्णकः पेशलो दक्षः उष्णो,ऽथ प्रह्वतत्परौ ।प्रसितः परायणश्च आसक्तः प्रवण इत्य,थ ॥ ४१२ ॥
2.6.412 · p. 102
अनुष्टुप्metre not read in every line
उदारो दाता,ऽथ दानशौण्डो बहुप्रदः पुनः ।स्थूललक्षो,ऽथ यो दाता भोक्ता च सुकलः स्मृतः ॥ ४१३ ॥
2.6.413 · p. 102
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब (wrong syllable)
तर्कुको मार्गणश्चार्थी याचनको वनीपकः ।याचको,ऽथोत्पतिष्णुः स्यादुत्पतिता,ऽथ मण्डनः ॥ ४१४ ॥
2.6.414 · p. 102
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 4, syllable 3 ति (wrong syllable)
अलंकरिष्णुः स्या,द्भूष्णुर्भविष्णुर्भविताऽप्य,थ ।वर्तिष्णुर्वर्तनो भूयो, विसारिणि विसृत्वरः ॥ ४१५ ॥
2.6.415 · p. 103
अनुष्टुप्
प्रसारी विसृमरो,ऽथापत्रपिष्नुर्द्वितीयकम् ।लज्जाशीलः, क्षमी क्षन्ता तितिक्षुः क्षमिता पुनः ॥ ४१६ ॥
2.6.416 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
सहिष्णुः सहन, ईर्ष्यालुः कुहनोऽथ मत्सरात् ।परोत्कर्षासहने चाक्षान्तिरीर्ष्या द्वकौ मतौ ॥ ४१७ ॥
2.6.417 · p. 103
metre not recognised
क्रोधनो रोषणोऽमर्षणः क्रोधी, भृशकोपने ।चण्डो, बुभुक्षितो भूयो जिघत्सुः क्षुधितस्तथा ॥ ४१८ ॥
2.6.418 · p. 103
अनुष्टुप्
अशनायितः, पिपासुस्तृषिततृष्णजौ समौ ।रसादानं शोषणं च, घस्मरो भक्षकोऽद्मरः ॥ ४१९ ॥
2.6.419 · p. 103
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 यि (wrong syllable); pāda 2, syllable 3 त (wrong syllable)
आशितो,ऽथाशितस्तृप्त आघ्रातः सुहितोऽप्य[थ] ।भक्तोच्छिष्टं तथोच्छिष्टं फेलापिण्डोलिफेलयः ॥ ४२० ॥
2.6.420 · p. 103
अनुष्टुप्
स्वोदरपूरके पुंसि कुक्षिम्भरिर्निगद्यते ।उदरम्भरिस्तथा आत्मम्भरि,रौदरिकः स तु ॥ ४२१ ॥
2.6.421 · p. 103
metre not recognised
आद्यूनोऽपि, विजिगीषा(?)ऽभिलाषावर्जितोऽपि यः ।सर्वान्नभक्षकः सर्वान्नीनश्च तृतीयं पुनः ॥ ४२२ ॥
2.6.422 · p. 104
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 जि (wrong syllable); pāda 4, syllable 5 ती (wrong syllable)
उदरपिशाचो, यस्य भक्षितस्यापि वस्तुनः ।तृत्पिर्न जायते पुंसः सोऽसेचनक उच्यते ॥ ४२३ ॥
2.6.423 · p. 104
अनुष्टुप्metre not read in every line
पिशिताशी शाष्कुलः स्या,दुन्मदिष्णुः स च स्मृतः ।वातभूतादिदोषेण योऽनवस्थितमानसः ॥ ४२४ ॥
2.6.424 · p. 104
अनुष्टुप्
गर्धनो लोलुपो लिप्सुस्तृष्णक् लुब्धोऽभिलाषुकः ।गृध्नुश्च लोलुभो लोलः समौ लालसलम्पटौ ॥ ४२५ ॥
2.6.425 · p. 104
अनुष्टुप्
उद्धतः स्यादविनीतः, प्रसृतो निभृतः पुनः ।विनीतो,ऽथ विनयस्थो विधेयो, वचने स्थितः ॥ ४२६ ॥
2.6.426 · p. 104
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
यः स आश्रवो विज्ञेयः, प्रणेयो वश्य इत्यपि ।धृष्णुक् वियातो धृष्णुश्च धृष्टो,ऽधृष्टस्तु शारदः ॥ ४२७ ॥
2.6.427 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वो (wrong syllable)
शुभसंयुक्तः शुभंयुः, स्यादहंकृत अहंयुः ।कामुकः कामयिताऽभीकोऽनुकोऽभिकः ॥ ४२८ ॥
2.6.428 · p. 104
metre not recognised
कम्रः कमिता कमरः कामनो, व्यसनी पुनः ।विप्लुतः पञ्चभद्रो,ऽथ प्रमना हृष्टमानसः ॥ ४२९ ॥
2.6.429 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 मि (wrong syllable)
विकुर्वाणो हर्षमाणो, दुर्मना विमनास्तथा ।अन्तर्मना विचेताश्च, क्षीबो मत्त उत्कटः पुनः ॥ ४३० ॥
2.6.430 · p. 105
metre not recognisednearly अनुष्टुप्
शौण्डो,ऽथ वीक्षापन्नः स्याद्विलक्षोऽथोत्सुकस्तथा ।उत्कण्ठितः पुनरुत्क उन्मना, वाच्यदूषितौ ॥ ४३१ ॥
2.6.431 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
अभिशस्तः क्षारितश्च, स भवेत्कृतलक्षणः ।अहतलक्षणश्चापि यो गुणैर्विश्रुतो भुवि ॥ ४३२ ॥
2.6.432 · p. 105
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 त (wrong syllable)
पाण्डुरपृष्ठो निर्लक्षणः, सङ्कसुकोऽप्यस्थिरः ।तूष्णीकस्तूष्णींशीलश्च, यः स्यादनिष्टदुष्टधीः ॥ ४३३ ॥
2.6.433 · p. 105
metre not recognised
विवशः सो,ऽथ बद्धश्च नद्धः संदानितः सितः ।निगडितः संयतश्च कीलितो यन्त्रितोऽप्य,थ ॥ ४३४ ॥
2.6.434 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 डि (wrong syllable)
उद्दानं बन्धनं द्वौ स्तः, प्रतिबद्धो मनोहतः ।हतप्रतिहतौ तुल्या,वधिक्षिप्तो द्वितीयकम् ॥ ४३५ ॥
2.6.435 · p. 105
अनुष्टुप्
प्रतिक्षिप्तो,ऽथावकृष्टो निष्कासितो,ऽथ धिक्कृतः ।अपध्वस्तो न्यक्कृतो,ऽथ विप्रकृतश्च निकृतः ॥ ४३६ ॥
2.6.436 · p. 106
metre not recognised
आत्तगन्धोऽभिभूतो,ऽथ विप्रलब्धश्च वञ्चितः ।निद्रालुः शयालुः स्वप्नक्, घूर्णितः प्रचलायितः ॥ ४३७ ॥
2.6.437 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
जागरी जागरूकः, स्याज्जागरो जागरा पुनः ।जागरणं जागर्या,ऽथ निद्राणशयितौ समौ ॥ ४३८ ॥
2.6.438 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ग (wrong syllable)
सुप्तो,ऽथ देवद्र्यङ् नित्यं यः पुमान् देवमञ्चति ।सध्र्यङ् सहाञ्चति, विष्वक् विष्वद्र्यङ् योऽञ्चति स्फुटम् ॥ ४३९ ॥
2.6.439 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
तिरोऽञ्चति स्यात् स तिर्यङ्, रोचिष्णुर्यस्तु रोचनः ।संशयिता संशयालु,र्ग्रहिता गृहयालुकः ॥ ४४० ॥
2.6.440 · p. 106
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 यि (wrong syllable)
पातुकः पतयालुः, स्याद्दक्षिण्यो दक्षिणार्हकः ।दक्षिणीयः, साधितस्तु दापितो दण्डितोऽप्य,[थ] ॥ ४४१ ॥
2.6.441 · p. 106
अनुष्टुप्
अर्हितः पूजितो नमस्यितो नमसितोऽर्चितः ।अञ्चितोऽपचितो,ऽथार्च्यः प्रतीक्ष्यो, विक्लवः पुनः ॥ ४४२ ॥
2.6.442 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न (wrong syllable)
विह्वलो,ऽथ पीवा पीनः समानौ स्थूलपीवरौ ।द्वेष्योऽक्षिगतश्चक्षुष्यः सुभगो, मांसलो बली ॥ ४४३ ॥
2.6.443 · p. 107
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पी (wrong syllable); pāda 3, syllable 5 त (wrong syllable)
उपचितः स्यान्निर्दिग्धांसलो, दुर्बलः कृशः ।पेलवस्तलिनोऽमांसः छातः क्षीणतनुस्तथा ॥ ४४४ ॥
2.6.444 · p. 107
अनुष्टुप्metre not read in every line
क्षामो,ऽथ तुन्दिलस्तुन्दिस्तुन्दिकश्च पिचण्डिलः ।उदरिलो बृहत्कुक्षिरुदरी, स्यादनासिके ॥ ४४५ ॥
2.6.445 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
विग्रो विख्रो विख्रुश्चाथा,वनाटो नतनासिके ।अवभ्रटोऽवटीटश्च चिपिटो, लघुनासिके ॥ ४४६ ॥
2.6.446 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
न क्षुद्रः … ॥ ४४७ ॥
2.6.447 · p. 107