कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Siddhaśabdārṇava

सिद्धशब्दार्णव Siddhaśabdārṇava

799 verses · text only, tagging comes next

द्वितीयः काण्डः · क्षत्रियाधिकारः

इति शस्त्राधिकारः ।

योग्याऽभ्यासः श्रमो भूयः खुरली शराभ्यासकः ।उपासनं, तधाभ्यासधरणी स्यात् खलूरिका ॥ २४२ ॥
2.4.242 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रा (wrong syllable)
सर्वौघः सर्वाभिसारः सर्वसन्नहनं तथा ।पूर्वे नीराजनाद्राज्ञां शास्त्रोक्तो यो विधिर्भवेत् ॥ २४३ ॥
2.4.243 · p. 77
अनुष्टुप्
लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनं विधिः ।… ॥ २४४ ॥
2.4.244 · p. 78
अनुष्टुप्metre not read in every line
प्रणायकं यात्रा व्रज्या प्रस्थानं गमनं पुनः ।अभिनिर्याणं, स्याच्छत्रोः सेनयाऽभिगमश्च यः ॥ २४५ ॥
2.4.245 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णं (wrong syllable)
अभिषेणनमासारः सुहृत्सैन्यं तु पृष्ठतः ।गच्छत्, प्रचक्रं चलितं सैन्यं, प्रसारस्तद्भवेत् ॥ २४६ ॥
2.4.246 · p. 78
अनुष्टुप्metre not read in every line
तृणकाष्ठादिनिमित्तं गमनं सैन्यतो बहिः ।निर्णीतस्य शत्रून् [प्रति] रणे गतिरभिक्रमः ॥ २४७ ॥
2.4.247 · p. 78
metre not recognised
योऽलंगामी प्रतिशत्रूनभ्यमित्र्यः स उच्यते ।अभ्यमित्रीयोऽभ्यमित्रीणो,ऽपुरस्वान् पुनः स च ॥ २४८ ॥
2.4.248 · p. 78
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
उरसिल, ऊर्जस्वलः ऊर्जस्वीयो, रणे भवेत् ।साधुः सांयुगीनो, जेता जित्वरो जिष्णुरित्यपि ॥ २४९ ॥
2.4.249 · p. 78
metre not recognised
यो जेतुं शक्यते जय्यो, अन्यो जेयः सौखसुप्तिकाः ।वैतालिकाः बोधकरा अर्थिका अपरे पुनः ॥ २५० ॥
2.4.250 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पण्डिता स्वकृता बाहुः(?) राज्ञोऽवसरपाठकाः ।चाक्रिकाः घाण्टिकाः, बन्दी नन्तो मङ्गलपाठकः ॥ २५१ ॥
2.4.251 · p. 78
अनुष्टुप्
सूतो,ऽथ मगधो मागधो, स्युर्युद्धानिवर्त्तिनः ।संशप्तका, अथ नग्नो जरद्वस्त्रधरोऽत्र यः ॥ २५२ ॥
2.4.252 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
बन्दी स्तुतिव्रतस्तस्य, ग्रन्थो भोगावली तथा ।संस्फोटः कलहो युद्धं सङ्ग्रामः साम्परायिकम् ॥ २५३ ॥
2.4.253 · p. 79
अनुष्टुप्
संयुगं त्वस्त्रियां संगरो विगहःसम्परायोऽस्त्रियामाहवायोधने ।सम्प्रहारो रणोऽस्त्री समीकं कलिःस्यात्पुमान् सङ्ख्यमस्त्री मृधं युत्सितम् ॥ २५४ ॥
2.4.254 · p. 79
स्रग्विणीmetre not read in every linenearly स्रग्विणी: pāda 1, syllable 10 वि (wrong syllable)
स्रग्विणीमस्त्रियां(?) राटिः स्त्री संयच्च नपुंसके ।केचित्स्त्रियामिति द्वन्द्वं जन्यं समरस्त्रियाम् ॥ २५५ ॥
2.4.255 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आजिः स्त्री समितिरभ्यामर्दः प्रहरणं पुनः ।अभिसम्पातसम्मर्दप्रघाताऽऽस्कन्दना[नि] च ॥ २५६ ॥
2.4.256 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अभ्यागमः समुदयः समुदायः समाह्वयः ।सघनं च समाघातः आक्रन्दः प्रविदारणम् ॥ २५७ ॥
2.4.257 · p. 79
अनुष्टुप्
नियुद्धं भुजसम्भूतं, पटहाडम्बरावुभौ ।अस्त्रियां तुमुलं युद्धसंकुलं, त्वग्रयानकम् ॥ २५८ ॥
2.4.258 · p. 79
अनुष्टुप्
नासीरमपुमानस्त्री केचि,त्पीडनमस्य च ।अवमर्दोऽपि, प्रपातो धाट्यभ्यासादने पुनः ॥ २५९ ॥
2.4.259 · p. 79
अनुष्टुप्
अभ्यवस्कन्दो, यामिन्यां सौप्तिकं स निगद्यते ।रणरुद्रभूमिर्वीराशंसनं च, नियुद्धभूः ॥ २६० ॥
2.4.260 · p. 80
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्दो (wrong syllable); pāda 3, syllable 5 भू (wrong syllable)
आजवाटो, रणे मोहो मूर्च्छा स्यात्कश्मलं पुनः ।रणे भाविन् जाते वा यत्पानं वीरपाणकम् ॥ २६१ ॥
2.4.261 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 विन् (syllables merged)
संदावविद्रवौ प्रद्रावः संद्रावो द्रवः पुनः ।उद्रावोऽपक्रमोऽपयानं पलायनमित्यपि ॥ २६२ ॥
2.4.262 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
जयश्च विजयो, युद्धे यो भङ्गः स पराजयः ।डमरो डिम्बोऽस्त्रियां च शृगालिविप्लवौ समौ ॥ २६३ ॥
2.4.263 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
वैरशुद्धिर्वैरनिर्यातनं वैरप्रतिक्रिया ।पराजितः पराभूतो परिभूतो जितः पुनः ॥ २६४ ॥
2.4.264 · p. 80
अनुष्टुप्
भग्नोऽभिभूतो,ऽथ नष्टो गृहीतदिक् पलायितः ।तिरोहितो, जितकाशी जिताहवो रणे जितः ॥ २६५ ॥
2.4.265 · p. 80
metre not recognised
अथ स्यात्पतितो भूयः प्रस्कन्नी, गुप्तिचारकौ ।काराऽथ ग्रहको बन्दी प्रग्रहोपग्रहौ समौ ॥ २६६ ॥
2.4.266 · p. 81
अनुष्टुप्