All kośas › Siddhaśabdārṇava
सिद्धशब्दार्णव Siddhaśabdārṇava
799 verses · text only, tagging comes next
प्रथमः काण्डः · जैनेतराधिकारः (3/3)
ह्रीर्लज्जा व्रीडा मन्दाक्षं परतः सात्वऽपत्रपा ।जाड्यं मौर्ख्यं, पुनः सादोऽवसादस्तु विषण्णता ॥ २६९ ॥
1.2.269 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 डा (wrong syllable)
विषादो, मद आनन्दमोहयोः संगमो भवेत् ।आधारो गह्वरो व्याधिः, निद्रा शयनसंलयौ ॥ २७० ॥
1.2.270 · p. 35
अनुष्टुप्
प्रमीला स्वापः संवेशो नन्दीमुखी च तापसी ।श्वासहेतिः पुनस्तन्द्रा, साऽधिका सुखसुप्तिका ॥ २७१ ॥
1.2.271 · p. 35
अनुष्टुप्metre not read in every line
सुप्तं सुष्वापः, औत्सुक्यं हृल्लेखोत्कलिके पुनः ।रणरणक उत्कण्ठा रतिरायल्लकस्तथा ॥ २७२ ॥
1.2.272 · p. 35
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पः (wrong syllable); pāda 3, syllable 3 र (wrong syllable)
अक्लीबोऽवहित्थाकारगूहने गृहजालिका ।अवकटिकाऽवकुटारिका, शङ्का तु सा मता ॥ २७३ ॥
1.2.273 · p. 36
metre not recognised
संभावनमनिष्टस्य, चापलं चानवस्थितिः ।कौसीद्यं नन्द्रा आलस्यं चा,नन्दो हर्षमुदौ तथा ॥ २७४ ॥
1.2.274 · p. 36
अनुष्टुप्metre not read in every line
चित्तप्रसन्नता प्रीतिः प्रमोदामोदसम्मदाः ।आनन्दथुः पुमान् ह्लादः प्रमोदोऽथावलिप्तता ॥ २७५ ॥
1.2.275 · p. 36
अनुष्टुप्
स्युरभिमानाहंकारगर्वाः पुंसि परेऽस्त्रियाम् ।मानोऽस्त्री ममता दर्पः स्मयश्चित्तोन्नतिस्तथा ॥ २७६ ॥
1.2.276 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र (wrong syllable)
साऽहमहमिका या तु स्पर्धनं क्रियते मिथः ।अहोपुरुषिका गर्वात् या स्वात्मनि विचारणा ॥ २७७ ॥
1.2.277 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
अहंपूर्वमहंपूर्वमित्यहंपूर्विका तथा ।उग्रत्वं चण्डता, ग्लानिः स्त्रियां च बलहीनता ॥ २७८ ॥
1.2.278 · p. 36
अनुष्टुप्
प्रबोधः स्याद्विनिद्रत्वं, दैन्यं कार्पण्यमप्यथ ।व्यायामः प्रयासः क्लेशः श्रमः क्लमः परिश्रमः ॥ २७९ ॥
1.2.279 · p. 36
अनुष्टुप्metre not read in every line
आयासो, वातभूतादि दोषाच्चित्तानवस्थितिः ।चित्तविप्लव उन्माद,स्त्रास आकस्मिकं भयम् ॥ २८० ॥
1.2.280 · p. 36
अनुष्टुप्
गुणो यः क्रोधसंभूतो जिगीषोत्साहवांश्च यः ।अमर्षः स विजानीया,न्मौढ्यमोहौ समौ तथा ॥ २८१ ॥
1.2.281 · p. 37
अनुष्टुप्
धातुवैषम्येऽपस्मारः, चिन्ताध्यानमथाऽत्मनः ।अवगणनं निर्वेद,स्तर्क ऊहो विमर्शनम् ॥ २८२ ॥
1.2.282 · p. 37
metre not recognised
उन्नयनं वितर्कोऽस्त्री परामर्शोऽध्याहारकः ।संवेगः संभ्रमावेगौ त्वरित्तूर्णिः स्त्रियौ त्वरा ॥ २८३ ॥
1.2.283 · p. 37
अनुष्टुप्metre not read in every line
गुणेषु दोषाविष्कारोऽसूया,ऽथास्तं निमीलनम् ।परलोकगमो नाशो दीर्घनिद्राऽत्ययौ समौ ॥ २८४ ॥
1.2.284 · p. 37
अनुष्टुप्
अवसानं कालधर्मः कालः संस्था तथा मृतिः ।अक्लीबो मृत्युर्दिष्टान्तः पञ्चत्वं निधनं पुनः ॥ २८५ ॥
1.2.285 · p. 37
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 त्यु (wrong syllable)
अस्त्री तत्सर्वगं मारिर्मरकोऽस्त्री, समे त्वमी ।संचारिणस्त्रयस्त्रिंशद,थ रागो रतिः पुनः ॥ २८६ ॥
1.2.286 · p. 37
अनुष्टुप्
अनुरागोऽनुरतिः स्यात्, हासिका घर्घरो हसः ।हास्यं हासो हसनं, चादृष्टदन्ते स्मितं तथा ॥ २८७ ॥
1.2.287 · p. 37
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 6 स (wrong syllable)
वक्रोष्ठिकाऽपुमां,स्तमिन् किञ्चित्प्रेक्षितदन्तके ।हसितं, किञ्चिच्छ्रुते विहसितं च स्फुरदोष्ठके ॥ २८८ ॥
1.2.288 · p. 38
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 स्त (wrong syllable); pāda 4, syllable 1 हसि (syllable split)
हसनमाच्छुरितकं हासे सोत्प्रास उच्यते ।शुक् स्त्रियां शोचनं स्वेदः शोको,ऽथ क्रुत् स्त्रियां रुषा ॥ २८९ ॥
1.2.289 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
क्रुधा मन्युः पुमान् कोपो रुट् स्त्रियां प्रतिघः समौ ।रोषक्रोधा,वथ प्रौढिरुद्यमः कियदेतिका ॥ २९० ॥
1.2.290 · p. 38
अनुष्टुप्
अभियोगोऽध्यवसाय ऊर्ज्जोत्साहौ प्रगल्भता ।उद्योगः, सात्वतिशययुक्ता वीर्यमथो भयम् ॥ २९१ ॥
1.2.291 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
दरोऽस्त्री भीः स्त्रियां भीतिराशंका साध्वसं भिया ।आतङ्को, यद्भूधवानां राजपुत्रादितो भयम् ॥ २९२ ॥
1.2.292 · p. 38
अनुष्टुप्
अहिभय,मथो दृष्टं स्वकीयपरचक्रजम् ।जलानलादितोऽदृष्ट,मथ भीमं भयानकम् ॥ २९३ ॥
1.2.293 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भ (wrong syllable)
भैरवं दारुणं भीष्मं प्रतिभयं भयावहम् ।घोरं भयङ्करं भीषणमाभीलं च भासुरम् ॥ २९४ ॥
1.2.294 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
डमर(?), घृणा जुगुप्सा,ऽथ चित्रं मोहविस्मयौ ।आश्चर्यं कुल्लकं विक्षं चोद्यमद्भुतमप्यथ ॥ २९५ ॥
1.2.295 · p. 38
अनुष्टुप्metre not read in every line
तृष्णाक्षयः शमः शान्तिरुपशमश्च पञ्चमम् ।शमथः, कारणं स्थायिनो रसानां क्रमादमी ॥ २९६ ॥
1.2.296 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
जाड्यं स्तम्भो,ऽथ निदाघो घर्मः स्वेदो,ऽथ कण्टकः ।पुलको द्वावस्त्रियौ स्तो रोमाञ्चो रोमहर्षणम् ॥ २९७ ॥
1.2.297 · p. 39
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
रोमोद्गमो रोमविकार उल्लूकसनं पुनः ।उद्घुषणं, कल्लत्वं चेत् स्वरे स्वरभेदो हि यः ॥ २९८ ॥
1.2.298 · p. 39
अनुष्टुप्metre not read in every line
वैवर्ण्यं कालिका वर्णविपर्यासो,ऽथ वेपथुः ।कम्पनं, प्रलयोऽचेष्टा, बाष्पोऽस्रमस्रु रोदनम् ॥ २९९ ॥
1.2.299 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable)
अश्रुनेत्राम्बु, भावाः स्युः संचारिस्थायिसात्त्विकाः ।स्युस्त्रयः संचारीस्थायिभावा, अथ रसाः पुनः ॥ ३०० ॥
1.2.300 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
अस्त्री शृङ्गारः करुणो हस्यो वीरो भयानकः ।रौद्रः शान्तोऽद्भुतो भूयो बीभत्सोऽथाधिकरणः ॥ ३०१ ॥
1.2.301 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 क (wrong syllable)
पात्राणि नाटके, रामादीनां रूपपरिग्रहः ।भूमिका,ऽथ नटोऽस्त्री स्यात् भरतो भरतपुत्रकः ॥ ३०२ ॥
1.2.302 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 भर (syllable split)
धर्मीपुत्रः सर्वकेशी कृशाश्वी नन्त इष्यते ।शैलूषः शैलाली जायाऽऽजीवो रङ्गावतरकः ॥ ३०३ ॥
1.2.303 · p. 40
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ला (wrong syllable); pāda 4, syllable 6 त (wrong syllable)
रङ्गाजीवः, चारणस्तु कुशीलवो द्वितीयकम् ।स्त्रीवेषभृन्नटः कुंसो भ्रू-भ्रु-भ्र-भृ-परो यदा ॥ ३०४ ॥
1.2.304 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
नाट्यविधेः सूत्रधारः सूचकोऽप्यत्र दर्शकः ।वेश्याचार्यः पीठमर्दः, नन्दी स नान्द्याः पाठकः ॥ ३०५ ॥
1.2.305 · p. 40
metre not recognised
पारिपार्श्विकः पार्श्वस्थो, वैहासिको विदूषकः ।प्रहासी स्यात्केलिकिलो भूयो वासन्तिकस्तथा ॥ ३०६ ॥
1.2.306 · p. 40
अनुष्टुप्metre not read in every line
प्रीतिदोऽथ पल्लवको विट् षिङ्गः, पिता आबुकः ।नाट्ये स्वसृपतौ च आवुत्तः स्याद्भावुक इत्यपि ॥ ३०७ ॥
1.2.307 · p. 40
metre not recognised
सुधीर्भावो, युवराजो यः कुमारः स तूदितः ।भर्तृदारकः, या बाला[वा]सूः स्त्री, मार्ष इत्यसौ ॥ ३०८ ॥
1.2.308 · p. 40
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable); pāda 3, syllable 5 कः (wrong syllable)
आर्यः, स्वामी भवेद्भट्टारको देवो,ऽपि राष्ट्रियः ।भूपश्यालो, या च पुत्री भूपतेर्भर्तृदारिका ॥ ३०९ ॥
1.2.309 · p. 40
अनुष्टुप्
कृतपट्टाभिषेका या देवी, अन्या तु भट्टिनी ।वेश्याऽज्जुका, सखीहूतौ हला, दासीहवे पुनः ॥ ३१० ॥
1.2.310 · p. 41
अनुष्टुप्
हञ्जे हण्डे नीचहूतौ, यद्वा स्यादत्तिका स्वसा ।आर्यपुत्रः पति रम्बा माता,ऽब्रह्मण्यमुच्यते ॥ ३११ ॥
1.2.311 · p. 41
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ति (wrong syllable)
वधानर्हस्य विप्रस्य थूत्करणे,ऽथ ये क्षितौ ।निर्ग्रन्थाः सौगताद्यास्ते भदन्ताः कथिताः समे ॥ ३१२ ॥
1.2.312 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
गीतं नृत्तं तथा वाद्यमेतत्समुदितत्रयम् ।तौर्यत्रिकं नाट्य,मस्मिन् संगीतमुच्यते ॥ ३१३ ॥
1.2.313 · p. 41
अनुष्टुप्metre not read in every line
प्रेक्षणार्थं समारब्धे, नाट्यधर्मी स्त्रियां तथा ।शास्त्रोदिते,ऽथ गन्धर्वगीतिर्गीतं च मुख्यतः ॥ ३१४ ॥
1.2.314 · p. 41
अनुष्टुप्
गानं गेय,मथो नृत्तं नृत्यं नटननर्तने ।लास्यं नाट्यं ताण्डवोऽस्त्री, वशानां मण्डलेन यत् ॥ ३१५ ॥
1.2.315 · p. 41
अनुष्टुप्
नृत्तं हल्लीसकं, तूच्चतालं वीरजयन्तिका ।पानगोष्ठ्यां रणे चेदं क्रमान्नाट्यस्य यद्भवेत् ॥ ३१६ ॥
1.2.316 · p. 42
अनुष्टुप्
स्थानं रङ्गः, पूर्वरङ्गः प्रारम्भो,ऽभिनयः पुनः ।व्यञ्जकः स तु हस्तादिभिः पदार्थस्य सूचकः ॥ ३१७ ॥
1.2.317 · p. 42
अनुष्टुप्
सोऽलंकारादिनाऽऽहार्यो, रचितो वचसा पुनः ।वाचिक, आङ्गिकोऽङ्गेन, जातः सत्त्वेन सात्त्विकः ॥ ३१८ ॥
1.2.318 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
अङ्गहाराङ्गविक्षेपौ समौ, षट् संस्कृतादिमाः ।भाषाः स्युर्भारतीमुख्याश्चतस्रः सन्ति वृत्तयः ॥ ३१९ ॥
1.2.319 · p. 42
अनुष्टुप्
… आतो[द्य] तूर्यमस्त्री स्मरध्वजः वाद्यम् ।ततं वी[णा प्रभृतिकं] घनं तालादिकं तथा ॥ ३२० ॥
1.2.320 · p. 42
अनुष्टुप्metre not read in every line
शुषिरं वंशप्रमुख,मानद्धं मुरजादिकम् ।विपञ्ची वल्लकी वीणा चतुर्थी कण्ठकूणिका ॥ ३२१ ॥
1.2.321 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
घोषवती, सप्तभिः सा तन्त्रीभिः परिवादिनी ।तन्त्रीभेदादनेके स्युर्भेदा एवं यथाक्रमम् ॥ ३२२ ॥
1.2.322 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
भारत्याः कच्छपी वीणा, चानालम्बी हरस्य तु ।महती नारदस्या[थ] बृहती विश्वावसोः पुनः ॥ ३२३ ॥
1.2.323 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 बृह (syllable split)
प्रभावती गणानां हि, तुम्बरोः स्यात्कलावती ।चाण्डालिका तु कटोलवीणा चण्डालदेहिनाम् ॥ ३२४ ॥
1.2.324 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
कोलम्बकोऽङ्गं स्यादस्या, उपनाहस्तु बन्धनम् ।प्रवालोऽस्त्री तथा दण्डः, कलिका कूणिका तु सा ॥ ३२५ ॥
1.2.325 · p. 43
अनुष्टुप्
वंशशलाकाया मूले, प्रसेवककुभौ समौ ।कालमानं यत्क्रियायास्तालः चच्चपुटादिकः ॥ ३२६ ॥
1.2.326 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
तयोः साम्यं लयः प्रोक्तः, ओघो द्रुतलयो मतः ।सत्त्वं विलम्बितं, मध्यलयं नाम घनं स्मृतम् ॥ ३२७ ॥
1.2.327 · p. 44
अनुष्टुप्
मुरजो मृदङ्ग,स्त्रिधाऽऽलिङ्गी सोऽङ्की तथोर्ध्वकः ।ढक्का यशः पटहोऽपि, भेरी पटह आनकः ॥ ३२८ ॥
1.2.328 · p. 44
metre not recognised
पुल्लिङ्गो दुन्दुभिः, शारिः वीणादीनां प्रवादनम् ।कोणो,ऽथ गर्द्धोऽभिलाषः स्यात्काङ्क्षा तृड्मनोरथः ॥ ३२९ ॥
1.2.329 · p. 44
अनुष्टुप्
तृष्णा लिप्सा लोभो वाञ्छा कामोऽस्त्री कामना रुचिः ।आशंसा स्पृहाऽऽशेच्छेहा धनायेप्सा वशोपि च ॥ ३३० ॥
1.2.330 · p. 44
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable); pāda 3, syllable 5 हाऽऽ (wrong syllable)
अभिध्या सा तु या द्रव्ये परकीये स्पृहा भवेत् ।द्यूतक्रीडा मांसादनं मद्यपानं पणाङ्गना ॥ ३३१ ॥
1.2.331 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सा (wrong syllable)
पञ्चमं खेटकं कर्म चौरी परवशारुचिः ।सप्तैतानि व्यसनानि, शौर्यशौण्डीर्यविक्रमाः ॥ ३३२ ॥
1.2.332 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
प्रराक्रमः पौरुषं च न्यायः कल्पः समञ्जसम् ।देशरूपं नयोऽभ्रेषो,ऽथ युक्तं साम्प्रतं पुनः ॥ ३३३ ॥
1.2.333 · p. 44
अनुष्टुप्
न्याय्यं लभ्यं भजमानं प्राप्तमौपायिकं तथा ।उचितमभिनीतं च वाच्यलिङ्गा अमी समे ॥ ३३४ ॥
1.2.334 · p. 45
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable); pāda 3, syllable 3 त (wrong syllable)
अधिकारः प्रक्रिया सा व्यवस्था स्थापनं हि यत् ।मर्यादास्थितिसंस्थाश्च धारणा, आगो नपुंसके ॥ ३३५ ॥
1.2.335 · p. 45
metre not recognisednearly अनुष्टुप्
मन्तुः पुमान् व्यलीकं स्यादस्त्रियां विप्रियं पुनः ।अपराधो,ऽथ विजनं निःशलाकं च केवलम् ॥ ३३६ ॥
1.2.336 · p. 45
अनुष्टुप्
छन्नं विविक्तमेकान्तं रहः क्लीबेऽस्त्रियां पुनः ।उपह्वरं [उपांशु च] तदव्ययं विबुधैर्मतम् ॥ ३३७ ॥
1.2.337 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रहस्यं गुह्यं तज्ज्ञेयं गोपनीयं हि यद्भवेत् ।तरोऽसन्तः क्लीबे स्थामा नन्तः क्लीबे पराक्रमः ॥ ३३८ ॥
1.2.338 · p. 45
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ह्यं (wrong syllable); pāda 3, syllable 5 क्ली (wrong syllable)
प्राणः शक्तिः सहः सन्तस्तथौजोऽपि नपुंसके ।बलमस्त्री शूष्म नान्त ऊर्जोऽक्लीबस्तथा त्रयः ॥ ३३९ ॥
1.2.339 · p. 45
अनुष्टुप्
शुष्मं शौर्यं द्युम्नमथ, बलात्कारो हठः पुनः ।प्रसभोऽस्त्रियां, स्खलितं छलं, दानविसर्जने ॥ ३४० ॥
1.2.340 · p. 45
अनुष्टुप्metre not read in every line
विश्राणनमुत्सर्जनं त्यागः स्यात्प्रतिपादनम् ।अपवर्जनं स्पर्शनं प्रदेशनविहायिते ॥ ३४१ ॥
1.2.341 · p. 45
metre not recognised
वितरणं निर्वपनं स्त्रियामंहातिरित्यपि ।अर्थना प्रणयोऽध्येषणा सनिः स्त्रीपुमानपि ॥ ३४२ ॥
1.2.342 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त (wrong syllable)
अर्द्दना याचना याच्ञेषणाऽभिशस्तिमार्गणे ।भिक्षणा,ऽथ क्षमा आवत(?)स्तितिक्षा, सहनं रुचिः ॥ ३४३ ॥
1.2.343 · p. 46
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)
स्त्रियां जिघत्साऽशनाया बुभुक्षा रोचकोऽस्त्रियाम् ।अपलसिका पिपासा तृष्णोदन्या तृषा च तृट् ॥ ३४४ ॥
1.2.344 · p. 46
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 लसि (syllable split)
तर्षः पानं धीति,रथो सौहित्यं स्यादाघ्राणकम् ।तृप्ति,रथ परिभावो विप्रकारः पराभवः ॥ ३४५ ॥
1.2.345 · p. 46
metre not recognised
अत्यकारः परिभवोऽभिभवश्च तिरस्क्रिया ।न्यक्कारनिकारौ, कपटोऽस्त्री व्याजो मिषं छलम् ॥ ३४६ ॥
1.2.346 · p. 46
अनुष्टुप्metre not read in every line
कूटमस्त्री व्यपदेशः छद्मोपधि स्यात्कैतवम् ।लक्षमस्त्री निभं दम्भो,ऽथ कुहना च कुक्कुटिः ॥ ३४७ ॥
1.2.347 · p. 46
metre not recognised
दम्भचर्या च, व्यलीकमतिसंधानवञ्चने ।प्रतारण,मथो पूज्यनाम्नो भट्टारकादयः ॥ ३४८ ॥
1.2.348 · p. 46
अनुष्टुप्
त्रयः प्रयोज्यास्तेन स्यादर्हद्भट्टारकस्तथा ।पूज्यपादो नरदेव एवमन्येप्यनेकशः ॥ ३४९ ॥
1.2.349 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
तत्रभवान् भगवानत्र भवान् पूज्य इत्य,थ ।कुसृतिर्निकृतिर्माया शठता शाठ्यमप्य,थ ॥ ३५० ॥
1.2.350 · p. 46
अनुष्टुप्metre not read in every line
अहिंसा निर्मला क्षान्तिरनुकम्पा घृणा दया ।शूकोऽस्त्री स्यादनुक्रोशः कारुण्यं करुणा कृपा ॥ ३५१ ॥
1.2.351 · p. 46
अनुष्टुप्
सिद्धशब्दार्णवैः साङ्गः श्रीसहजादिकीर्तिभिः ।पूज्यः प्रथमकाण्डोऽयं स्मृतिमार्गमनीयत ॥ ३५२ ॥
1.2.352 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)