All kośas › Siddhaśabdārṇava
सिद्धशब्दार्णव Siddhaśabdārṇava
799 verses · text only, tagging comes next
प्रथमः काण्डः · जैनाधिकारः
परमेष्ठी जगन्नाथो जिनः शम्भुर्जितस्मरः ।अर्हन्पारगतः श्रीमान्भगवान्पुरुषोत्तमः ॥ ६ ॥
1.1.6 · p. 1
अनुष्टुप्
अष्टकर्मापहः स्वामी त्रिकालज्ञो जिनेश्वरः ।तीर्थंकरस्तीर्थकरो वीतरागो निरञ्जनः ॥ ७ ॥
1.1.7 · p. 1
अनुष्टुप्
सर्वज्ञः केवली देवाधिदेवो बोधदायकः ।आप्तः सार्वः सर्वदर्शी स्याद्वादी भयनाशकः ॥ ८ ॥
1.1.8 · p. 1
अनुष्टुप्
स्वयम्भूर्जितमोहोऽस्याग्रणीः शिष्यो गणाधिपः ।गणी लब्धनिधिः शिष्टो विनयी श्रुतपारगः ॥ ९ ॥
1.1.9 · p. 1
अनुष्टुप्
तपस्वी गुणवांस्तस्य शिष्यः सामान्यतो मुनिः ।अक्लीबो निर्ममो वाचंयमः साधुर्यतिर्यती ॥ १० ॥
1.1.10 · p. 1
अनुष्टुप्
मुमुक्षुः श्रमणो भिक्षुर्निर्ग्रन्थो निष्परिग्रहः ।अनगार ऋषिर्मौनी दयाधीरस्तपोधनः ॥ ११ ॥
1.1.11 · p. 1
अनुष्टुप्
तस्यायतौ स्थितिर्मोक्षः सर्वदुःखक्षयोऽभ्रमः ।अपवर्गो महानन्दोऽपुनर्भवमहोदयौ ॥ १२ ॥
1.1.12 · p. 2
अनुष्टुप्
शीतीभावोऽन्तिकः श्रेयोऽमृतं कैवल्यमक्षरम् ।निर्वाणमचलं निश्रेयसं निर्याणशाश्वते ॥ १३ ॥
1.1.13 · p. 2
अनुष्टुप्
नैश्चित्यं क्लीबकेऽमूनि ब्रह्माऽस्त्री शान्तिनिर्वृती ।सिद्धिस्त्रीणि स्त्रियां प्रोक्तं शिवमत्र नपुंसके ॥ १४ ॥
1.1.14 · p. 2
अनुष्टुप्
अस्योपायो भवेद्योगो ज्ञानश्रद्धाचरित्रयुक् ।अहिंसा सत्यमस्तेयं ब्रह्म निर्लोभता यमाः ॥ १५ ॥
1.1.15 · p. 2
अनुष्टुप्
पञ्चैते, तस्य तद्वाक्यमागमः समयः श्रुतम् ।समाः सिद्धान्तराद्धान्तकृतान्ता आप्तवाक् स्त्रियाम् ॥ १६ ॥
1.1.16 · p. 2
अनुष्टुप्
तपः शौचं च संतोषः प्रणिधानं च दैवतम् ।स्वाध्याय एत एव स्युर्नियमा योगसिद्धये ॥ १७ ॥
1.1.17 · p. 2
अनुष्टुप्
आसनं करणं चापि विषयेभ्यो निवर्तनम् ।इन्द्रियाणां स योगाङ्गः प्रत्याहारो निगद्यते ॥ १८ ॥
1.1.18 · p. 2
अनुष्टुप्
प्राणायामः स नु श्वासोच्छ्वासोर्यन्निरोधनम् ।प्राणयमोऽप्यथ ध्येये मनसः स्थिरता धृतिः ॥ १९ ॥
1.1.19 · p. 2
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 य (wrong syllable)
एकाग्रचित्त[ता] ध्येये, ध्यानं ध्येयावलम्बनम् ।ध्यानेनैव समाधिः स्याद्यमेन सहिता अमी ॥ २० ॥
1.1.20 · p. 3
अनुष्टुप्
नियमः करणं प्रत्याहारः प्राणयमो धृतिः ।ध्यानं समाधिरित्यष्टावेभिर्योगो विमुक्तये ॥ २१ ॥
1.1.21 · p. 3
अनुष्टुप्
तदुक्तोऽयमथो मौनमस्त्री पुनरभाषणम् ।क्लीबे, धर्मोपदेष्टा स्याद्गुरुर्व्याख्याविधायकः ॥ २२ ॥
1.1.22 · p. 3
अनुष्टुप्
आचार्यः पाठको भूय उपाध्यायो गणिः, श्रुते ।साङ्गेऽधीती त्वनूचानो, विवेकः स्याद्विवेचनम् ॥ २३ ॥
1.1.23 · p. 3
अनुष्टुप्
गुरुशिष्यप्रशिष्यादि कुलमाम्नाय आदृतः ।गुरुक्रमः सम्प्रदायः पारम्पर्यं नपुंसके ॥ २४ ॥
1.1.24 · p. 3
अनुष्टुप्
तुल्यागमव्रताचारा मिथः सब्रह्मचारिणः ।सतीर्थ्या एकगुरवो भूयोऽथ नियमस्थितिः ॥ २५ ॥
1.1.25 · p. 3
अनुष्टुप्
परिव्रज्या त[प]स्या स्युः स्त्रियां भूयो व्रतग्रहः ।छात्रः शिष्यो विनेयोऽन्तेवासी प्राथमकल्पिकः ॥ २६ ॥
1.1.26 · p. 3
अनुष्टुप्
शैक्षस्तस्माद्भद्रमद्रे शिवं मङ्गलमस्त्रियाम् ।शुभं श्वःश्रेयसं क्षेममस्त्री भविकभावुके ॥ २७ ॥
1.1.27 · p. 3
अनुष्टुप्
सु(?)कृतं सूकृतं श्वोवसीयसं कुशलं तथा ।भव्यं काम्यं च कल्याणं शस्तं श्रेयो नपुंसके ॥ २८ ॥
1.1.28 · p. 4
अनुष्टुप्