कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Siddhaśabdārṇava

सिद्धशब्दार्णव Siddhaśabdārṇava

799 verses · text only, tagging comes next

द्वितीयः काण्डः · शस्त्राधिकारः (2/2)

धाराङ्गो रुद्रतनयो विशसनश्च धर्मतः ।प्रचारो,ऽथ त्सरुः खड्गमुष्टौ स तु पुमान,थ ॥ २३३ ॥
2.3.233 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
कोशस्त्रिषु परीवारप्रत्याकारौ समौ पुनः ।खड्गपिधानं, फलमस्त्री फरकमित्यपि ॥ २३४ ॥
2.3.234 · p. 76
अनुष्टुप्metre not read in every line
खेटोऽस्त्री चर्मावरणं स्फुरः स्यादड्डनं तथा ।संग्राहो मुष्टिरस्याति, क्षुरी शस्त्री कृपाणिका ॥ २३५ ॥
2.3.235 · p. 76
अनुष्टुप्
असिपुत्रीच्छुरी कोशशायिका पत्रधेनुका ।असिधेनुः, सा तु दीर्घा पत्रपाली निगद्यते ॥ २३६ ॥
2.3.236 · p. 76
अनुष्टुप्
हुलमातृका कुट्टन्ती स्यात् पत्रफलताप्य,थ ।दण्डोऽस्त्री लगुडो यष्टिरक्लीबः, करवालिका ॥ २३७ ॥
2.3.237 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
ईली, सृगो भिन्दिपालः, कुन्तः प्रासो,ऽथ मुद्गरः ।अक्लीबो घनो द्रुघणः, कुठारोऽक्लीबकः पुनः ॥ २३८ ॥
2.3.238 · p. 77
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 घ (wrong syllable)
स्वधितिः पर्श्वधः पर्शुः परशुश्च परश्वधः ।परिघातनः परिघः, तोमरोऽस्त्री च सर्वला ॥ २३९ ॥
2.3.239 · p. 77
अनुष्टुप्metre not read in every line
अस्त्रियां शल्यं भूयोपि पुमान् शङ्कु,स्त्रिशीर्षकम् ।शूलमस्त्री, तथा चक्रशक्तिदुस्फोटपट्टिशाः ॥ २४० ॥
2.3.240 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्यं (wrong syllable)
शतघ्नी महाशिला च भुषुण्ढी चिरकादयः ।शस्त्रजातयोऽनेकाः स्युर्ज्ञेयास्ता अन्यतः समाः ॥ २४१ ॥
2.3.241 · p. 77
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable); pāda 3, syllable 5 योऽ (wrong syllable)