अम्ला
amlāस्त्री · fem.In 5 kośas: 4 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.
चुक्रं षण् चुक्रिका चुक्रा शुक्ला च शुक्लिका स्त्रियः ।अम्लाऽम्लीका तिन्तिडी च तेंतिली तिन्तिलीति सा ॥ १२२ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
अम्ला कटुफला स्वच्छा सैवाप्यन्या निकुञ्चिका ।स्यादम्लकुञ्चिका कुञ्जवल्लयाऽथ नृपप्रियः ॥ ३३६ ॥
अनुष्टुप्
genderस्त्रीfem.
अम्लीकायां चुक्रिकाऽम्ला शुक्तिका चाम्लिकाऽम्ब्लिका ।चुक्रा चिञ्चा तिन्तिडीका तिन्तिला गुरुपुष्पिका ॥ ५६ ॥
अनुष्टुप्
genderस्त्रीfem.
तिन्तिडी तिन्तिली चिञ्चा तिन्तिडिकाम्ब्लिकाम्लिका ।चुक्रुश्चुक्ता चुक्तिकाम्ला त्वम्ब्ला शुक्ता च शुक्तिका ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 डि (wrong syllable)
genderस्त्रीfem.
स्थूलं तु कूटे [त्रिषु] पीव्नि मूर्खेथाम्लो[67a]ऽम्लवत्पुंसि रसान्तरे स्यात् ।चाङ्गेरिकायां पुनरीरिता स्त्रीशुक्लस्तु योगे धवले पुमान्स्यात् ॥ ७१ ॥
इन्द्रवज्राmetre not read in every line
meaningsचाङ्गेरिका
अम्ली चाङ्गेरिकायां स्यादम्लाऽम्लिक्यां स्त्रियामुभे ।अम्लोऽम्लवेतसे पुंसि कालः स्यात्कासमर्दके ॥ ४३७ ॥
अनुष्टुप्
meaningsअम्लिकी
अम्ला as a meaning in nānārtha verses
- शिवकोष ?भद्रानन्तारसागोपीकृष्णाहिंस्राम्ललोणिषु । सारिण्यां कट्फले क्लीबं बिम्बाम्बुदमहोत्पले ॥ ३८६ ॥ Śivakoṣa 22.2.386