कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

रान्ताः · रद्विः

अस्रस्तु वालके क्लीबं कुङ्कुमेऽभ्रं तु मुस्तके ॥ ३७० ॥
22.2.370 · p. 34
जाम्बूनदेऽभ्रपटलेऽपीन्द्रः शक्रमहीरुहे ।इन्द्रा फणिज्जकेऽप्युग्रा वचायां क्षुद्विबोधने ॥ ३७१ ॥
22.2.371 · p. 34
अनुष्टुप्
ऐन्द्री स्यादिन्द्रवारुण्यां शेफल्यां सारिवैलयोः ।क्षारः पाक्ये गुडे काचे यवजे पटुभस्मनोः ॥ ३७२ ॥
22.2.372 · p. 34
अनुष्टुप्
क्षुद्रा चाङ्गेरिकाव्याघ्र्योः क्षुरो गोक्षुर इक्षुरे ।क्रोष्ट्री विदारीलाङ्गल्योः क्षौद्रं क्षुद्रोद्भवे जले ॥ ३७३ ॥
22.2.373 · p. 34
अनुष्टुप्
खरो ना पृथुले क्लीबं देवताडाजमोदयोः ।गरा गरी च जीमूते न स्त्री तूपविषे विषे ॥ ३७४ ॥
22.2.374 · p. 34
अनुष्टुप्
गुन्द्रैरकालताभद्रमुस्ते गुन्द्रस्तु तेजने ।गौरः करञ्जे सिद्धार्थे गौरं तालेऽब्जकेसरे ॥ ३७५ ॥
22.2.375 · p. 34
अनुष्टुप्
गौरी तु रजनीपिङ्गाप्रियङ्गुतुलसीषु च ।चन्द्रः कर्पूरकाम्पिल्लजम्बूनदजलेषु च ॥ ३७६ ॥
22.2.376 · p. 34
अनुष्टुप्
चित्रो हुतभुजि स्त्री तु दन्त्यैन्द्रीशम्बरीषु च ।चुक्र्यम्बष्टाचिञ्चयोर्ना वेतसाख्येऽम्लवेतसे ॥ ३७७ ॥
22.2.377 · p. 34
अनुष्टुप्
क्लीबं सुक्ते तिन्तिडीके चोरो निश्चरशङ्खयोः ।चात्रा मिसावतिछत्रे कुस्तुम्बुरुशिलीन्ध्रयोः ॥ ३७८ ॥
22.2.378 · p. 34
अनुष्टुप्
तन्त्री तु कन्दरोहिण्यां तन्त्रं स्यादौषधोत्तमे ।तीव्रस्तीव्रोत्तमे तिक्तासुरीदूर्वाभिदि स्त्रियाम् ॥ ३७९ ॥
22.2.379 · p. 34
अनुष्टुप्
दारु स्यात्त्रिषु पीतद्रौ देवदारुणि न स्त्रियाम् ।धारा वत्सादनीक्षीरकाकोलीपृथुजीरके ॥ ३८० ॥
22.2.380 · p. 35
अनुष्टुप्
सूक्ष्मैलायां हरिद्रायां गन्धकुट्यां च योषिति ।धीरा वीराकुब्जाभिदोर्धीरं पौष्कररक्तयोः ॥ ३८१ ॥
22.2.381 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ब्जा (wrong syllable)
पुण्ड्रं प्रपौण्ड्ररीके स्यात्पुण्ड्रो व्रीहीक्षुभेदयोः ।अतिमुक्ते पुण्डरीके वरस्तिन्दुपियालयोः ॥ ३८२ ॥
22.2.382 · p. 35
अनुष्टुप्
वर्यभीरौ वरं धीरकुम्भसिन्धुगुडत्वचि ।वरा वन्ध्याचन्द्रहासापौत्रीपाठाफलत्रिके ॥ ३८३ ॥
22.2.383 · p. 35
अनुष्टुप्
वीरा कुलालीगम्भीरीक्षीरावीवारुणीषु च ।काकोलीक्षीरकाकोलीतामलक्येलवालुषु ॥ ३८४ ॥
22.2.384 · p. 35
अनुष्टुप्
रम्भाविदारिकायुग्मकाष्टोडुम्बरिकासु च ।वीरस्तु ककुभे वीरं नते शृङ्ग्यां च काञ्चिके ॥ ३८५ ॥
22.2.385 · p. 35
अनुष्टुप्
भद्रानन्तारसागोपीकृष्णाहिंस्राम्ललोणिषु ।सारिण्यां कट्फले क्लीबं बिम्बाम्बुदमहोत्पले ॥ ३८६ ॥
22.2.386 · p. 35
अनुष्टुप्
मुरा महासहायां स्याद्गन्धकुट्यामपि स्त्रियाम् ।वज्रः सिहुण्डे वज्रं तु शिवहीरकवालके ॥ ३८७ ॥
22.2.387 · p. 35
अनुष्टुप्
वज्रा गुडूच्यां व्याघ्रस्तु रक्तैरण्डकरञ्जयोः ।व्याघ्री निदिग्धिकायां च वेरं वङ्गेऽपि कुङ्कुमे ॥ ३८८ ॥
22.2.388 · p. 35
अनुष्टुप्
शुक्रोऽर्जुने च कुटजे शिग्रुः शोभाञ्जने पुमान् ।शाकमात्रे च शीघ्रा तु दन्त्यां शीघ्रं घनच्छदे ॥ ३८९ ॥
22.2.389 · p. 35
अनुष्टुप्
सेव्ये शुभ्रस्तु सुमने शुभ्रा वंश्याहिछत्रयोः ।शुभ्रं वरेऽभ्रके सारो लोहदाडिम्बयाज्ञिके ॥ ३९० ॥
22.2.390 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 हि (wrong syllable)
स्थिरा कलश्यंशुमत्योः सूर्यपर्णीद्वयेऽपि च ।धवे तु पुंसि हिंस्रा तु काकादन्यां चिरायुषि ॥ ३९१ ॥
22.2.391 · p. 36
अनुष्टुप्
बृहत्यां कृष्णसारायां पिशाच्यामाटरूषके ।
22.2.23 · p. 36