कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · लान्ताः (1/2)

॥ इति रान्ताः ॥

एकलाः ।

लो वासवे स्याल्लवणेऽथ लूः स्या-ल्लावे तथा छेदनयोश्च * * ।श्लेषे तनोर्लीर्-
6.28.1 · p. 337
उपजातिःmetre not read in every linenearly उपजातिः

द्विलाः ।

-अथ दैत्यभेदेप्रलम्बशत्रौ च बलोऽत्र काके ॥ १ ॥
6.28.1 · p. 337
उपजातिःmetre not read in every line
स्थौल्ये तु गन्धोपलसैन्ययोश्चरूपे च षण्ढे[65a]सहसि स्त्रियां न ।वाट्यालके स्त्री पलमस्त्रियां स्या-दुन्मानमांसेऽपि च सूक्ष्मकाले ॥ ४७ ॥
6.28.47 · p. 337
इन्द्रवज्राmetre not read in every line
हेतूस्थितेऽन्त्ये फलके फलं चव्युष्टौ च लाभे सुमनःफले च ।कङ्कोलबाणाग्रकधान्यकेषुफलत्रिके स्यात्फलिनीगतः स्त्री ॥ ४८ ॥
6.28.48 · p. 337
उपजातिः
ह्रीबेरके पाथसि गोकुले चजलं जडे त्वन्यगतं वदन्ति ।खलं तु धान्योच्चयभुव्यपेत-द्वयं च कल्के त्रिषु दुर्जने स्यात् ॥ ४९ ॥
6.28.49 · p. 337
उपजातिः
नीचेऽधमे चाथ गलस्तु कण्ठेभवेत्तथा सर्जरसे नृलिङ्गः ।चलोऽनिले कम्पगतोऽन्यवत्स्या-द्दलं तु पर्णे भवति स्त्रियां न ॥ ५० ॥
6.28.50 · p. 338
उपजातिः
उत्सेधशस्त्रीच्छदयोश्च खण्डेद्रव्ये च षण्ढेऽथ नलो नृपाले ।यमे कपौ पोटगले स्त्रियां तुमनःशिलायां नलिने द्वयोनम् ॥ ५१ ॥
6.28.51 · p. 338
उपजातिः
तलः पुमांस्तालतरौ चपेटेखड्गस्य मुष्टौ चरमे तु पृष्ठे ।ज्याघातसंवारणगो द्वयोस्तुशीलाधरार्थो मलमस्त्रियां च ॥ ५२ ॥
6.28.52 · p. 338
उपजातिः
किट्टे पुरीषे कृपणे तु पापेऽन्यव-च्छलस्तु भृङ्गीगणधा[65b]तृवाची ।अन्त्ये शलल्यां च खिलं तु वेधेस्यात्सारसंक्षिप्तकवाचि षण्ढे ॥ ५३ ॥
6.28.53 · p. 338
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
विशेष्यगाम्यप्रहते बिलस्तुशक्राश्वकेऽन्त्ये विवरे गुहायाम् ।व्याजे द्वयोनं स्खलिते छलं स्या-द्रोमाञ्चने पुंसि पुलोऽन्यवत्तु ॥ ५४ ॥
6.28.54 · p. 338
उपजातिः
विशेष्यवत्स्याद्विपुले कुलं तुदेशे गृहे गोत्रशरीरयोश्च ।तथा सजातीयगणेऽथ कालोमृत्यौ कृतान्ते समये च कृष्णे ॥ ५५ ॥
6.28.55 · p. 338
उपजातिः
तथा महाकालगणे स्त्रियां तुकृष्णत्रिवृद्वाचक ईरितोऽयम् ।गौर्यां च नील्यामपि मातृकायांस्यात्तालमूल्यां परिवादके च ॥ ५६ ॥
6.28.56 · p. 338
उपजातिः
स्यात् क्षारकीटे नवमेघवृन्देभालं ललाटे महसि स्त्रियां न ।स्कन्धे तरोः सालमुशन्त्यथ स्या-त्सालोऽस्त्रियां भूरुहमात्रकेऽपि ॥ ५७ ॥
6.28.57 · p. 339
इन्द्रवज्रा
शङ्कुद्रुमे स्याद्वरणेऽथ शालःसर्जद्रुमे हालनृपे च मत्स्ये ।स कीर्तितः स्त्री च गृहे गृहैक-देशे तरुस्कन्धकशाखयोश्च ॥ ५८ ॥
6.28.58 · p. 339
उपजातिः
तालो ध्वजे द्रौ नरि खड्गमुष्टौस्यान्मध्यमाङ्गुष्ठमिते तथैव ।भवेत्तथा पाणितले[66a]च गीत-कालक्रियामान उदीरितोऽयम् ॥ ५९ ॥
6.28.59 · p. 339
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 भ (wrong syllable)
क्लीबे तु कांस्यस्य भवेच्च वाद्य-भाण्डे तथा स्याद्धरितालकेऽपि ।मालो जने चोन्नतभूतलेऽन्त्येस्त्रियां तु पुष्पस्रजि कीर्तितोऽयम् ॥ ६० ॥
6.28.60 · p. 339
उपजातिः
चालं छदौ स्यादपि कम्पनेऽन्त्येजालस्तु नीपे कपटेऽथ ना न ।आनायवातायनकोद्रवेषुस्त्री घोषके चाथ भुजंगमे स्यात् ॥ ६१ ॥
6.28.61 · p. 339
इन्द्रवज्रा
क्रूरे गजे श्वापदवाचकश्चव्यालोऽथ नालं त्रिषु पद्मदण्डे ।काण्डे पुमाञ्शाककदम्बके स्त्रीपुमांस्तथा स्याज्जलनिर्गमेऽपि ॥ ६२ ॥
6.28.62 · p. 339
उपजातिः
स्थालं न ना पात्रविशेषकुण्ड्योःस्त्री पाटलायामथ पुंसि खल्लः ।निरीषके स्यात् त्रिषु वस्त्रभेदेबालः शिशौ स्यात् त्रिषु चाचिरोत्थे ॥ ६३ ॥
6.28.63 · p. 340
उपजातिः
मूर्खे पुमान्वारणवाजिपुच्छेकरेऽप्युदीच्ये गदितः स्त्रियां न ।वाली तु मेधावपि कर्णभूषा-न्तरेऽथ बाला त्रिपुटास्त्रियोः स्यात् ॥ ६४ ॥
6.28.64 · p. 340
उपजातिः
चेलं तु वस्त्रे त्रिषु गर्हिते स्या-द्भेलः प्लवे स्याच्च मुनिप्रभेदे ।त्रस्ते परस्मिन्नपि बुद्धिहीनेको[66b]लोऽङ्कपालावपि भेलके ना ॥ ६५ ॥
6.28.65 · p. 340
इन्द्रवज्राmetre not read in every line
उत्सङ्गके पोत्रिणि किं च चित्रेस्त्रियां कणाचव्यकयोः प्रदिष्टः ।फले बदर्याश्चरमेऽथ शैलोधरे शिलाजे तु रसाञ्जनेऽस्त्री ॥ ६६ ॥
6.28.66 · p. 340
उपजातिः
स्वभावसद्वृत्तगमस्त्रि शीलंशिलोपले स्याच्च मनः शिलायाम् ।द्वाराधरस्थेऽपि च दारुणि स्याद्गण्डूपदीनाम्नि शिली प्रदिष्टा ॥
6.28.23 · p. 340
उपजातिः
उञ्छे तु षण्ढेऽप्यसिते तु नीलोऽस्त्रियां परस्मिंस्त्वसितान्विते स्यात् ॥ ६७ ॥
6.28.67 · p. 340
उपजातिः
पुमान्महीभृन्निधिरत्नभेद-कपिप्रभेदेष्वथ चिह्नभेदे ।स्त्रियां च[नीली]मधुपर्णिकायांकूलं तडागस्तुपयोः प्रतीपे ॥ ६८ ॥
6.28.68 · p. 340
उपजातिः
सैन्यस्य पृष्ठेऽप्यथ तूलमस्त्रीपिचावथ ब्रह्मतरौ च खेऽन्त्ये ।मूलं च न स्त्री भभिदि प्रतिष्ठा-स्वादौ शिफायां निकटे निकुञ्जे ॥ ६९ ॥
6.28.69 · p. 341
उपजातिः
शूलं च न स्त्री मतमायुधार्त्यो-र्योगे च मृत्यावपि केतने च ।स्त्रियां तु पण्यप्रमदार्थके स्या-त्कीले तथा दुष्टवधार्थकेऽपि ॥ ७० ॥
6.28.70 · p. 341
उपजातिः
स्थूलं तु कूटे [त्रिषु] पीव्नि मूर्खेथाम्लो[67a]ऽम्लवत्पुंसि रसान्तरे स्यात् ।चाङ्गेरिकायां पुनरीरिता स्त्रीशुक्लस्तु योगे धवले पुमान्स्यात् ॥ ७१ ॥
6.28.71 · p. 341
इन्द्रवज्राmetre not read in every line
रूप्येऽन्तिमे मल्लमुशन्ति पात्रेमत्स्ये कपोले बलसंयुते च ।स योषिति स्यात्तृणशूल्यवाचीभल्लो[ऽथ] षण्ढे शरभेदवाची ॥ ७२ ॥
6.28.72 · p. 341
उपजातिः
पुंस्यच्छभल्लेऽथ नपुंसि नान्त्येभल्लातके वारुणि तु त्रिलिङ्गः ॥ ७३ ॥
6.28.73 · p. 341
इन्द्रवज्रा
ओल्लस्त्वशुष्के त्रिषु सूरणे नाक्लिन्नेक्षणे स्यात्परवच्च चुल्लः ।पिल्लस्तथा क्लिन्न इहेक्षणेऽपिचुल्ली चितोद्धानकवाद्यभित्सु ।चिल्लस्त्रिषु क्लिन्नदृशि प्रदिष्टःक्लिन्ने च नेत्रे शशघातके ना ।स्त्रियां भवेद्गौडकवास्तुकेऽसौछल्ली स्त्रियां वीरुधि वल्कले च ॥ ७५ ॥
6.28.75 · p. 341
इन्द्रवज्राtwo metres in one verse
पुष्पान्तरे हस्तपदावमोट-रोगे तु खल्ली नरि चातकेऽसौ ।वस्त्रान्तरे चर्मणि निम्नकेऽथा-लुः स्त्री तथालूश्च गलन्तिकायाम् ॥ ७६ ॥
6.28.76 · p. 342
इन्द्रवज्रा
… तथा शाकविशेषके चस्यात्पोतके भेलककन्दकेऽन्त्ये ।पीलुः पुमान्स्रंसित[67b]रौ गजे चतालास्थिखण्डे कुसुमे च काण्डे ॥ ७७ ॥
6.28.77 · p. 342
metre not recognised
भवेत्तथासौ परमाणुवाचीमालुः स्त्रियां पत्रलतास्त्रियोश्च ।ना चोरकाख्यौषधके च शालुःकषायवस्तुन्यपि तादृशः स्यात् ॥ ७८ ॥
6.28.78 · p. 342
उपजातिः
बलिः पुमान्गन्धकदैत्ययोः स्याद्द्वयोर्भवन्मन्दिरदारुभेदे ।तथोपहारे जठरैकदेशेश्लथे तथा चर्मणि विस्रसातः ॥ ७९ ॥
6.28.79 · p. 342
उपेन्द्रवज्रा
भवेत्तथा चामरदण्डकेऽर्थेदोला तु यानान्तरनीलिकार्था ।मेला मसौ मेलकवाचिका स्या-दिला तु भूवाग्बुधदारगोषु ॥ ८० ॥
6.28.80 · p. 342
उपजातिः
कीलो द्वयोर्ज्वालकफोणिघात-शङ्क्वल्पकेषु प्रथितः प्रवीणैः ।तुला पलानां शतके च भाण्डेसादृश्यमानार्थक ईरिता च ॥ ८१ ॥
6.28.81 · p. 342
उपजातिः
पीठ्यां गृहाणामपि दारुबन्धेवेलाब्धितीरेऽम्बुविकारके च ।अक्लिष्टमृत्यौ समये च सीम्निबुधस्त्रियां वाचि तथा च रागे ॥ ८२ ॥
6.28.82 · p. 342
उपजातिः
भुक्तौ प्रभूणामथ कन्यकायांझाला तथोर्मौ च झुलुक्विकायाम् ( ? ) ।अव्यक्तशब्दे मधुरे क[68a]लः स्या-ज्जीर्णे मनोज्ञे च विशेष्यलिङ्गः ॥ ८३ ॥
6.28.83 · p. 343
इन्द्रवज्राmetre not read in every line
शुक्रेऽन्तिमे स्त्रीरजसि स्त्रियां स्या-दंशे तथा मूलधनप्रवृद्धौ ।शिल्पादिके स्याच्छशिषोडशांशेव्याजे च तर्यां कलनाकलार्थः ॥ ८४ ॥
6.28.84 · p. 343
इन्द्रवज्रा
लोला प्रदिष्टा रसनाश्रियोः स्त्रीचले सतृष्णे च विशेष्यलिङ्गा ।शृङ्गारभावप्रभवक्रियायालीला विलासेऽपि च खेलकेल्योः ॥ ८५ ॥
6.28.85 · p. 343
उपजातिः
हेला विलासेऽवमतौ च हालामद्ये नृपे ना मणिके तु गोला ।सख्यां च गोदासरिति प्रदिष्टान ना कुनट्यामपि मण्डले च ॥ ८६ ॥
6.28.86 · p. 343
उपजातिः
पत्राञ्जनेऽलिस्तु युगे द्विरेफेमद्ये स्त्रियां पुंसि तु वृश्चिके स्यात् ।आलिस्तु पङ्क्तावपि सेतुसख्योःकलिः पुमान्स्यात्कलहे च युद्धे ॥ ८७ ॥
6.28.87 · p. 343
उपजातिः
युगे चतुर्थे सुभटे स्त्रियां तुबुद्धैः प्रदिष्टः कलिकागतोऽयम् ।धूलिस्तु संख्यान्तररेणुषु स्त्रीदुलिर्मुनौ ना कमठस्त्रियां स्त्री ॥ ८८ ॥
6.28.88 · p. 343
उपजातिः
धमिल्लचूडामुकुटेषु मौलि-र्द्वयोरशोके तु नृलिङ्ग उक्तः ।शालिः पु[68b]मान्स्यात्कलमे च गन्ध-मार्जारके योषिति पालिरस्रौ ॥ ८९ ॥
6.28.89 · p. 343
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 शा (wrong syllable); pāda 2, syllable 1 मा (wrong syllable)
अंशे प्रदेशे श्रवणाग्रगे चप्रस्थे च यूकाविषये च पङ्क्तौ ।सश्मश्रुकायामपि योषिति स्यात्झिल्लिः स्त्रियामातपकान्तिवर्त्योः ॥ ९० ॥
6.28.90 · p. 344
इन्द्रवज्रा
उद्वर्तनस्यापि च वाससि स्या-द्वल्ली तु दीप्ये कुसुमे लतायाम् ।पल्ली कुटीग्रामकयोः पुमांस्तुस्थलस्य दिष्टापि कुशूलके च ॥ ९१ ॥
6.28.91 · p. 344
उपजातिः
तल्लोऽम्बुधारान्तरवाचकः स्यात्स्त्रियां तरुण्यामपि कीर्तितोऽयम् ।
6.28.48 · p. 344
उपजातिः

त्रिलाः ।

मृगप्रभेदे कमलः स्त्रियां श्री-वरस्त्रियोः क्लोम्नि जले च ताम्रे ॥ ९२ ॥
6.28.92 · p. 344
उपजातिः
स्याद्भेषजेऽन्त्ये जलजे तु न स्त्रीशूद्रे तुरंगे वृषलः प्रदिष्टः ।पाषाणभेदे चपलो झषेऽपिस्यात्पारदे चोरकनाम्नि पुंसि ॥ ९३ ॥
6.28.93 · p. 344
इन्द्रवज्रा
स्त्रियां सुविद्युत्कमलाकणासुश्रियामसत्यां चरमे तु शीघ्रे ।विशेष्यवत्स्यात्तरले चलेऽथा-स्त्री प्रस्तरे स्यादुपलश्च रत्ने ॥ ९४ ॥
6.28.94 · p. 344
उपजातिः
स्त्री शर्करायामथ मांसशून्येस्यादुत्पलं वाच्यसमं न तु स्त्री ।इन्दीवरे स्याच्चरमे तु कुष्ठौ-[69a]षधेऽनलः स्याद्वसुदेववह्नयोः ॥ ९५ ॥
6.28.95 · p. 344
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 ष (wrong syllable)
अथानिलः स्याद्वसुवातवाचीखण्डे तु वल्के त्वचि रोहितादेः ।क्लीबे प्रदिष्टं शकलं च राग-वस्तुन्यथ स्याद्गरलं स्त्रियां न ॥ ९६ ॥
6.28.96 · p. 345
उपजातिः
विषे च माने तृणपूलकेऽथलोले च षिङ्गे तरलः पुमांस्तु ।हारस्य मध्यस्थमणौ तथैवस्याद्भासुरे स्त्री तु सुरायवाग्वोः ॥ ९७ ॥
6.28.97 · p. 345
उपजातिः
चूर्णे तिलानां पललं च मांसेपङ्केऽथ ना राक्षसवाचकं स्यात् ।ना पूतिकाष्ठे सरलो वदान्ये-ऽवक्रार्थको भेद्यगतः प्रदिष्टः ॥ ९८ ॥
6.28.98 · p. 345
इन्द्रवज्रा
शुनि मुनिभिदि वह्नौ पुंसि पिङ्गेऽन्यवत्स्या-त्कपिल इह तु योषिच्छिंशपागोभिदोश्च ।अनलदिगिभनार्यां रेणुकायां तथाथत्रिषु पटलमुशन्ति ह्यूर्ध्वभागे गृहाणाम् ॥ ९९ ॥
6.28.56 · p. 345
मालिनी
पिटकतिलकदृग्रुग्बर्हपर्याय ओघेपुनरिह न नरेऽथ च्छागलश्छाग आद्ये ।युगमुगसितवस्त्रे स्त्री भवेद्वृद्धदारौशकृति तु शमलं स्यादंहसि प्राहुरेतत् ॥ ४४० ॥
6.28.440 · p. 345
मालिनी
जगलः पैष्टिकमद्ये मदनतरौ मद्यपङ्के ना ।पक्षिणि पिप्पल[69b]आद्ये निरर्गले बोधिवृक्षे तु ।द्वंद्वेऽस्त्रियां तु वसनच्छेदनभेदे कणायां स्त्री ।वारिणि युग्मविहीनः पुंसि तु धवलो महोक्षे स्यात् ॥ २ ॥
6.28.2 · p. 345
उपगीतिःmetre not read in every line
सितवर्णे तद्वति तु त्रितये तद्वत्स सुन्दरेऽपि स्यात् ।योषिति तु सौरभेय्यां कुवलं त्रिषु चोत्पले बदरे ॥ ३ ॥
6.28.3 · p. 345
आर्या
पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षितेऽन्यवत् ।दन्ततालव्यमूर्धन्यमध्यं मुसलमस्त्रियाम् ॥ ४ ॥
6.28.4 · p. 346
अनुष्टुप्
अयोग्रे दण्डमात्रेऽपि तालमूल्यां तु योषिति ।गृहगोधामाषपर्ण्योर्निचुलो हिज्जलद्रुमे ॥ ५ ॥
6.28.5 · p. 346
अनुष्टुप्
निचोलकेऽथ पिचुलो झावुके हिज्जलेऽपि च ।जलकाकेऽथ विपुलो मेरुपश्चिमभूभृति ॥ ६ ॥
6.28.6 · p. 346
अनुष्टुप्
अगाधपृथ्वोः परवत्तुमुलस्तु कलिद्रुमे ।स्याद्युद्धसंकुले क्लीबे बहुलः कृष्णपक्षके ॥ ७ ॥
6.28.7 · p. 346
अनुष्टुप्
अग्नौ च स्त्री तु नील्येलागोषु स्त्री भूम्नि भान्तरे ।क्लीबेऽन्तरिक्षे परवदसितप्राज्ययोर्भवेत् ॥ ८ ॥
6.28.8 · p. 346
अनुष्टुप्
मातुलो मामके व्रीहिभेदे धत्तूरराठयोः ।परवत्कुटिलं भुग्ने स्त्रियां तु सरिदन्तरे ॥ ९ ॥
6.28.9 · p. 346
अनुष्टुप्
जटायुक्ते तु जटिलोऽन्य[70a]वन्मांस्यां तु स स्त्रियाम् ।पाताले भुवने च स्तः सुतलप्रतलाविमौ ॥ १० ॥
6.28.10 · p. 346
अनुष्टुप्metre not read in every line
क्रमादट्टालिकाबन्धे तताङ्गुलिकरेऽपि च ।पित्तलं तैजसद्रव्ये तत्तु पित्तकरेऽन्यवत् ॥ ११ ॥
6.28.11 · p. 346
अनुष्टुप्
पित्तला तोयपिप्पल्यां निस्तलं वृत्तलोलयोः ।स्यात्कुन्तलः पुंसि यवे लाङ्गले देशकेशयोः ॥ १२ ॥
6.28.12 · p. 346
अनुष्टुप्
कम्बलो नाहिराजे स्यात्कृमौ स्त्रीपुंसयोः पुनः ।प्रावार उत्तरासङ्गे सास्नायां सलिलेऽन्तिमे ॥ १३ ॥
6.28.13 · p. 346
अनुष्टुप्
शम्बलः सम्बलश्चास्त्री कूलपाथेयमत्सरे ।नवाङ्कुरे चोपरागे कपोले त्रिषु कन्दलः ॥ १४ ॥
6.28.14 · p. 346
अनुष्टुप्
स्त्रियां मृगद्रुभेदे स्यान्नागभेदे तु पिङ्गलः ।मुनौ रुद्रेऽर्कानुचरे निधिभेदेऽनले कपौ ॥ १५ ॥
6.28.15 · p. 346
अनुष्टुप्
कपिले वाच्यवत्स्त्री तु कुमुदद्विपयोषिति ।वेश्याविशेषेऽथानम्बुदेशे स्याज्जङ्गलस्त्रिषु ॥ १६ ॥
6.28.16 · p. 346
अनुष्टुप्
मांसे त्वस्त्री मङ्गलोऽस्त्री शुभे सर्वार्थरक्षणे ।स्त्री गौरीसितदूर्वार्थः पुंस्यङ्गारकनामसु ॥ १७ ॥
6.28.17 · p. 347
अनुष्टुप्
कुण्डलं वलयकर्णभूषयोःपाशके भवति नैव योषिति ।काञ्चनाचलगुडूचि[70b]काह्वयेस्यात्स्त्रियां शुनि तु मण्डलोऽप्यहौ ॥ १८ ॥
6.28.18 · p. 347
रथोद्धताmetre not read in every line
द्बादशक्षिति[प]वृन्ददेशयोःकुष्ठरोगभिदि चोपसूर्यके ।बिम्बके त्रिषु कदम्बके तथा-थार्गलस्त्रिषु महोर्मिदण्डयोः ॥ १९ ॥
6.28.19 · p. 347
रथोद्धता
अन्तरेऽपि च कपाटरोधकेनिर्मलं विमलवाचि वाच्यवत् ।देवभुक्तकुसुमेऽभ्रके तथाशुष्कमांसपणिके तु शौष्कलः ॥ २० ॥
6.28.20 · p. 347
रथोद्धता
मांसभोजिनि तथा स वाच्यवत् ।शस्कुली भवति शुष्कमांसके ।मांसमात्रविषयेऽथ पांसुलःपुंश्चले त्रिषु पुमांस्तु खिंखिरे ॥ २१ ॥
6.28.21 · p. 347
रथोद्धता
स स्त्रियां च कुलटाभुवोरथो-ऽस्पष्टवाचि परगामि संकुलम् ।व्याप्तकेऽथ तिनिशे च वेतसा-शोकयोर्भवति वञ्जुलः पुमान् ॥ २२ ॥
6.28.22 · p. 347
रथोद्धता
शृङ्गारे नरि विशदे त्रिषूज्ज्वलः स्या-दुद्दीप्ते भवति विकासिनि स्मृतश्च ।स्यात्कुञ्जे मिथुनविवर्जितं परस्मि-न्किर्मीरे जलहरिणे तु मञ्जुलो ना ॥ २३ ॥
6.28.23 · p. 347
प्रहर्षिणी
पिञ्जलं तु कुशभाजनेऽन्तिमेशोणपीतरुचि वाच्यवन्मतम् ।पुद्गलो वपुषि लिङ्गकायके-ऽथात्मनि प्रथ[71a]मगो मदेहयोः ॥ २४ ॥
6.28.24 · p. 348
रथोद्धताmetre not read in every line
जम्भदैवतभिदोश्च जम्भलःश्यालके परकवित्वहारके ।कुम्भिलो भवति तस्करे मखेचन्द्रिलः स्मररिपौ च नापिते ॥ २५ ॥
6.28.25 · p. 348
रथोद्धता
वास्तुके स्रुवतरौ तु पुंगतोग्रन्थिलोऽपरसमः स पर्वणि ।स्यात्करीरधरणीधरे पुमान्वामदाम्भिकगतस्तु वामिलः ॥ २६ ॥
6.28.26 · p. 348
रथोद्धता
रामिलो रमणकामदेवयो-र्वार्द्दलं तु जलदावृते दिने ।पुंसि सैन्यपटलेऽथ तन्दुलःपुंसि जन्तुहरधान्यसंघयोः ॥ २७ ॥
6.28.27 · p. 348
रथोद्धता
निष्कलस्तु कलया विवर्जितेनष्टबीजकनरे तु वाच्यवत् ।पाकलं भवति कुष्ठ औषधेकुञ्जरज्वरगतो नृलिङ्गकः ॥ २८ ॥
6.28.28 · p. 348
रथोद्धता
पाचलो धनहुताशवायुषुग्राहयादसि तु माचलो मतः ।बन्दितस्कररोगयोरथोश्वेतरक्तरुचि पाटलस्त्रिषु ॥ २९ ॥
6.28.29 · p. 348
रथोद्धताmetre not read in every linenearly रथोद्धता
आशुव्रीहौ ना द्वयोः पाटलिः स्या-त्काचस्थाल्यां पाटलापि स्त्रियां स्यात् ।पुष्पे त्वस्या पाटलं पाटला स्या-दव्यक्तोक्तौ लोहलो भेद्यलिङ्गः ॥ ३० ॥
6.28.30 · p. 348
शालिनी
[71b]तथा स्याच्छृङ्खलाचार्ये कोहलस्तु सुराभिदि ।मुनिभेदे तैतिलो ना गण्डके करणेऽन्तिमे ॥ ३१ ॥
6.28.31 · p. 349
अनुष्टुप्
देवलो नारदे देवधनभोक्तरि धार्मिके ।शिलान्तरे ना कृकलासकेऽपिस्याद्धेमलः काञ्चनकारके च ।स्याच्छ्यामलोऽच्छेऽप्यसिते परस्मिन्स्यात्कोमलं वारिणि वा मृदौ च ॥ ३२ ॥
6.28.32 · p. 349
अनुष्टुप्two metres in one verse
स्यात्कामलो निर्जलदेशवाची ।कम्रेऽपि भेद्ये कुसुमाकरे ना ।रम्ये च दक्षे त्रिषु पेशलः स्या-द्गोकीलो ना मुसले हलेऽपि ॥ ३३ ॥
6.28.33 · p. 349
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
गौरसर्षपकलोहचूर्णयो-र्गौरिलोऽथ बदरीफलेऽन्तिमे ।पुंस्यरिष्टतरुगश्च फेनिलःफेनभाजि तु विशेष्यलिङ्गगः ॥ ३४ ॥
6.28.34 · p. 349
रथोद्धता
शैलेयशैवालगतं तु शीवलंस्याच्छैवलं पद्मककाष्ठवाचकम् ।जलाञ्चले ना मलयोद्भवे पुनःस्याच्छीतलं शैलजवाचकं तथा ॥ ३५ ॥
6.28.35 · p. 349
upajati 12
कासीसके चासनपर्णिकायांशीतेऽन्यवत्स्यात्प्रमदे तु शत्रौ ।कल्लोल उल्लोलकवाचकश्चज्योत्स्न्यां पटोलो द्वितयेऽम्बरे ना ॥ ३६ ॥
6.28.36 · p. 349
इन्द्रवज्रा
शूरे च[72a] भृत्ये भडिलोऽथ दूतेस्याद्भण्डिलो भद्रगतस्तु षण्ढे ।स्याद्द्रोणकाके नरि कुम्भकारेकाकोलमस्त्री विष[वाच]कं [स्यात्] ।स्त्री शङ्कुला क्रीडनकन्दुके स्या-दिर्वांरुकायामपि शस्त्रभेदे ॥ ३७ ॥
6.28.37 · p. 350
इन्द्रवज्राmetre not read in every line
तमालमस्त्री वरुणद्रुमे स्या-त्तापिच्छवृक्षे तिलके कृपाणे ।विशाल उर्वीपतिवृक्षभेदेपृथौ स्त्रियां नाथ भवेद्गवाक्ष्याम् ॥ ३८ ॥
6.28.38 · p. 350
उपजातिः
स्त्री[तू]ज्जयिन्यामथ नेत्रपिण्डेमार्जारके पुंसि बिडाल उक्तः ।बिसे मृणालं त्रिषु तद्द्वयोन-मुशीरकेऽथो ककुभे कुलालः ॥ ३९ ॥
6.28.39 · p. 350
उपजातिः
स्यात्कुम्भकारेऽञ्जनके कुला[लं]कण्डोल उक्तः पिटके च निष्ट्ये ।अद्रौ सुवेलः प्रणते च शान्ते-ऽवेलोऽपलापेऽप्यथ पूगचूर्णे ॥ ४० ॥
6.28.40 · p. 350
इन्द्रवज्रा
भवेदवेलाथ कपालमस्त्रीशिरोस्थ्नि खण्डे च घटादिकानाम् ।कुष्ठान्तरे भिक्षुकभाजने नाकिट्टाल उक्तो नरि लोहगूथे ॥ ४१ ॥
6.28.41 · p. 350
उपजातिः
स्यात्ताम्रकुम्भे नृपतौ तु गोपेगोपाल उक्तोऽप्यथ नागलोके ।और्वेऽपि पातालमुशन्ति रन्ध्रे-ऽथास्त्री प्रवालो नवपल्लवेऽपि ॥ ४२ ॥
6.28.42 · p. 350
इन्द्रवज्रा
स्या[72b]द्वल्लकीदण्डकविद्रुमेऽपिरसाल उक्तः सहकार इक्षौ ।स्त्री गोस्तनीनाम्नि च मार्जितायांजिह्वासु दूर्वासु विदारिकासु ।स्यात्सिल्हकेऽन्त्येऽप्यथ सर्जवृक्षेमत्तद्विपे ना कुटिलेऽप्यरालः ॥ ४३ ॥
6.28.43 · p. 351
इन्द्रवज्राmetre not read in every line
तुङ्गे करालस्त्रिषु दन्तुरेऽपिकुठेरकेऽन्त्ये व्रणतैलके ना ।शृगाल उक्तो दितिजे च फेरौक्रोष्ट्यां तु योषिड्डमरेऽपि तद्वत् ॥ ४४ ॥
6.28.44 · p. 351
उपजातिः
स्याद्भूमिदारे युगुलच्छदेऽपिकुद्दाल आद्येऽथ जलाञ्चले स्यात् ।शादेऽपि जम्बालमुशन्ति पुंसिकीलालमम्भस्यपि शोणिते च ॥ ४५ ॥
6.28.45 · p. 351
इन्द्रवज्रा
नौकाखनित्रे नरि वङ्गलः स्या-दोजस्विनोश्च प्रधने प्रदिष्टः ।आभीलमाहुर्भयदे च कृच्छ्रेनाभीलमाहुः प्रवराङ्गनायाः ॥ ४६ ॥
6.28.46 · p. 351
इन्द्रवज्रा
सद्वङ्क्षणे नाभिकगर्भकाण्डे-ऽथोत्फुल्लमाहुः करणेऽङ्गनानाम् ।संफुल्ल उत्तालग एष भेद्येनिद्रैकशीले त्रितये शयालुः ॥ ४७ ॥
6.28.47 · p. 351
इन्द्रवज्रा
क्लीबे त्वसौ वाहसकुक्कुरार्थोवातूल उक्तो नरि वातसङ्घे ।वातासहे तु त्रिषु यज्ञकुण्डेदर्भे च चात्वालमुशन्ति पुं[73a]सि ॥ ४८ ॥
6.28.48 · p. 351
इन्द्रवज्राmetre not read in every line
रीतिविशेषे गीतौ द्रौपद्यां पुत्रिकायां च ।पाञ्चाली नीवृति पुंभूम्नि श्रद्धालुरुद्दिष्टा ॥ ४९ ॥
6.28.49 · p. 352
metre not recognised
दोहदवत्यां श्राद्धे त्रिष्वथ रात्रिंचरे व्याघ्रे ।शार्दूलः पशुभेदे पदोत्तरस्थस्त्रिषु श्रेष्ठे ॥ ५० ॥
6.28.50 · p. 352
metre not recognised
लाङ्गूलोऽस्त्री पुच्छे मेढ्रेऽथो शङ्कुभिः कीर्णे ।चरमे रन्ध्रे न स्त्री कुकूल उक्तस्तुषाग्नौ च ॥ ५१ ॥
6.28.51 · p. 352
उपगीतिः
क्षौमे दुकूलं विरले च वस्त्रेजम्बूल उक्तः क्रकचच्छदेऽपि ।जम्बूतरोः स्याद्विटपेऽथ भीमे-ऽप्युत्तालमू [र्ध्वो]त्कटयोः कराले ॥ ५२ ॥
6.28.52 · p. 352
इन्द्रवज्रा
विशेष्यवत्स्यान्नरि तु प्लवङ्गेचूडाल एतत्सहितेऽन्यवत्स्यात् ।स्त्री तूच्चटायामथ मेखलास्त्र-बन्धे च काञ्च्यां कटके गिरेश्च ॥ ५३ ॥
6.28.53 · p. 352
उपजातिः
पुंसः कटीवाससि बन्धने चस्याच्छृङ्खलासौ निगडे त्रिलिङ्ग्याम् ।स्त्रियां कुचेला किल विद्धकर्ण्यांकुवस्त्रके तु प्रथितान्यलिङ्गा ॥ ५४ ॥
6.28.54 · p. 352
उपजातिः
शैले च कीलेऽप्यचलो भुवि स्त्रीलक्ष्म्यां पुनर्विद्युति चञ्चला स्यात् ।वायौ पुमान्कम्रगतः परस्मिन्स्युरिल्वलाः स्त्री मृगभोर्ध्वभेषु ॥ ५५ ॥
6.28.55 · p. 352
उपजातिः
दैत्यान्तरे पुं[73b]सि तथैव मत्स्येमोचानदीभित्सु च पिच्छिला स्यात् ।स्यात्पोतकीनाम्नि च शिंशपायांविशेष्यलिङ्गा विजिले प्रदिष्टा ॥ ५६ ॥
6.28.56 · p. 352
उपजातिःmetre not read in every line
स्त्री सप्तला स्यान्नवमालिकायांगुञ्जाह्वये चर्मकषाह्वये च ।स्यात्काकणन्त्यां महिला च गुन्द्रा-भीर्वोः किलासिन्यपि सिध्मलः स्यात् ॥ ५७ ॥
6.28.57 · p. 353
इन्द्रवज्रा
स्त्री मत्स्यकर्णेऽप्यथ संधिला स्या-न्नान्दीसुरङ्गासदनेषु योषित् ॥ ५८ ॥
6.28.58 · p. 353
इन्द्रवज्रा
स्यात्सातलायां विमला भ्रकुट्यां (?)स्यान्निर्मले वाच्यसमानलिङ्गा ।लक्ष्म्यां स्त्रियां स्यादमलाभ्रकेऽन्त्येस्यान्निर्मले वाच्यसमं वदन्ति ॥ ५९ ॥
6.28.59 · p. 353
इन्द्रवज्रा
स्याच्छ्रीफलो बिल्वतरौ स्त्रियां तुस्यादामलक्यामपि नीलिकायाम् ।स्यात्पातली स्त्रीभिदि वागुरायांमृत्पात्रभेदेऽपि तथा प्रदिष्टा ॥ ६० ॥
6.28.60 · p. 353
इन्द्रवज्रा
षण्डाली स्यात्तैलमाने सरस्यांकामुक्यां स्याज्जाङ्गला शूकशिम्ब्याम् ।पुंसि प्रोक्ता तित्तिरौ गौरवर्णेजाङ्गुल्युक्ता कालकूटस्य शास्त्रे ॥ ६१ ॥
6.28.61 · p. 353
शालिनी
क्लीबे तु स्याद्देवदालीफलार्था-ऽथाङ्गुल्युक्ता कर्णि[74a]कायां गजस्य ।अङ्गुल्यां चाथो हले लाङ्गलं स्या-त्पुष्पे ताले गेहदारुप्रभेदे ॥ ६२ ॥
6.28.62 · p. 353
शालिनीmetre not read in every line
योषित्त्वम्भः पिप्पलीवाचकं स्या-त्ताम्बूलं स्यान्नागवल्ल्यामथान्त्ये ।पूगेऽथ स्यान्नाकुली चव्यरास्नाख्यायां तद्वत्कुक्कुटीकन्दकेऽपि ॥ ६३ ॥
6.28.63 · p. 354
शालिनी
पाण्डवभेदे बभ्रौ नकुलः स्त्री कर्कटीमांस्योः ।नेपाली नवमाल्यां मनःशिलायां च रास्नायाम् ॥ ६४ ॥
6.28.64 · p. 354
metre not recognised