कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

लान्ताः · लद्विः

इति रान्ताः

अम्ली चाङ्गेरिकायां स्यादम्लाऽम्लिक्यां स्त्रियामुभे ।अम्लोऽम्लवेतसे पुंसि कालः स्यात्कासमर्दके ॥ ४३७ ॥
23.1.437 · p. 40
अनुष्टुप्
कालं मोघात्रिवृद्दोलामञ्जिष्टाकृष्णजीरके ।गाङ्गेरुक्यां चाथ काली स्यात्कदल्यामथो कुली ॥ ४३८ ॥
23.1.438 · p. 40
अनुष्टुप्
उद्दाले कण्टकार्यां च ढण्ढणे बदरीभिदि ।कोली कोलिश्च कर्कन्ध्वां तत्फले तु नपुंसकम् ॥ ४३९ ॥
23.1.439 · p. 40
अनुष्टुप्
कङ्कोलके च कोला तु पिप्पलीचव्ययोः स्त्रियाम् ।चलस्तुरुष्के चाम्पेये जलं वालकनीरयोः ॥ ४४० ॥
23.1.440 · p. 40
अनुष्टुप्
जाली तु घोषके जालो नीपे तालस्तले द्वयोः ।तामलक्यां तु ताली स्यात्तालं तु नटमण्डने ॥ ४४१ ॥
23.1.441 · p. 40
अनुष्टुप्
तूलो न स्त्री पिचौ तूलं क्लीबं स्याद्ब्रह्मदारुणि ।तैलं कल्के तिलस्नेहे नलः पोटगले नलम् ॥ ४४२ ॥
23.1.442 · p. 40
अनुष्टुप्
नलिनेऽथ नली नट्यां कुनट्यामपि योषिति ।नालं नाला पद्मदण्डे नाली शाककलम्बके ॥ ४४३ ॥
23.1.443 · p. 40
अनुष्टुप्
फलं जातीफले पूगे मदने च फलत्रिके ।कङ्कोले च फली गन्धफल्यां चम्पककोरके ॥ ४४४ ॥
23.1.444 · p. 40
अनुष्टुप्
फलः कृष्णे बलं गन्धरसे वाट्यालके बला ।बल्लस्तु शिम्बिधान्यस्य भेदे स्त्री दीप्यधीरयोः ॥ ४४५ ॥
23.1.445 · p. 40
अनुष्टुप्
बालोऽस्त्रियामाचमने यूथीबालैलयोः स्त्रियाम् ।भल्ली भल्लातके भल्लोऽरलौ शालोक्षिपीलुके ॥ ४४६ ॥
23.1.446 · p. 40
अनुष्टुप्
सर्जे चारेऽपि शालुस्तु कषायद्रव्यचोरयोः ।शिला मनःशिलायां च शिलाजतुनि गैरिके ॥ ४४७ ॥
23.1.447 · p. 41
अनुष्टुप्
शैलं तार्क्ष्ये च शैलेये सालो वरुणसर्जयोः ।
23.1.12 · p. 41