कुमुदाकर
kumudākaraIn 7 kośas: 0 synonym verses, 7 as a meaning of another word.
कुमुदाकर as a meaning in nānārtha verses
- कोषकल्पतरु दिवाभीतकुम्भिलकुमुदाकरयोर्घूके कथितो दिवाभीतः । पाशुपतो बकपुष्पे पशुपतिदैवे विशेष्यघ्नः ॥ ५७ ॥ Koṣakalpataru 6.17.57
- नानार्थार्णवसंक्षेप दिवाभीतदिवाभीत उलूके द्वे पुमांस्तु कुमुदाकरे । त्रिस्तु चोरे व्यवहितेऽप्यथ दिव्येलको द्वयोः ॥ २७३ ॥ Nānārthārṇavasaṃkṣepa 6.273
- परमानन्दीयनाममाला दिवाभीतदिवाभीतश्च घूके स्यात्कुमुदाकरचौरयोः । भवेद्देवमणिर्वाजिगलावर्तेऽपि शंकरे ॥ २४९ ॥ Paramānandīyanāmamālā 5.16.249
- शब्दरत्नावली दिवाभीतदिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे । दिवाकीर्तिः पुमानेव नापितान्तावसायिनोः ॥ द्वीपवती भूमिनदयोः पुंसि सिन्धौ नदेऽपि च । स्याद्धूमकेतुर्ज्वलेने तथा चोत्पातशेषके ॥ नन्द्यावर्त्तश्च नगरे गृहभेदे च पुंस्ययम् । नदीकान्तः सिन्धुवारे हिज्जले च सरित्पतौ ॥ Śabdaratnāvalī 7.16.163
- शब्दरत्नाकर दिवाभीततारकारिर्गुहे भानौ तेजोनिधिरिनेऽनले । दिवाभीत उलूके स्यात्तस्करे कुमुदाकरे ॥ २२१० ॥ Śabdaratnākara 4.1.2210
- त्रिकाण्डशेष दिवाभीतदुर्गतिर्नरके नैःस्व्ये दुर्जातं व्यसनेपि च । दिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे ॥ १५९ ॥ Trikāṇḍaśeṣa 3.3.159
- वैजयन्ती दिवाभीतदिवाभीतो दिवाकीर्ती पुनश्चण्डालनापितौ । दर्दुरीकोऽनले वाद्ये पार्थाग्नीन्द्रा धनञ्जयाः ॥ २४ ॥ Vaijayantī 8.1.24