कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

शेषकाण्डः · पुंलिङ्गाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां त्र्यक्षरकाण्डे नानालिङ्गाध्यायः

त्र्यक्षरकाण्डस्समाप्तः

शेषकाण्डे पुंलिङ्गाध्यायः

अकारादिक्रमेणादाविहोक्त्वा चतुरक्षरान् ।अध्यायान्तेषु संकीर्णाः कृताः पञ्चाक्षरादयः ॥ १ ॥
8.1.1 · p. 265
अनुष्टुप्
अनुबन्धो दोषभावे प्रकृत्यादेर्विनश्वरे ।मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ २ ॥
8.1.2 · p. 265
अनुष्टुप्
अपहारः पुनश्चोरे द्युतयुद्धादिविश्रमे ।निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि ॥ ३ ॥
8.1.3 · p. 265
अनुष्टुप्
अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके ।अवष्टंभः समालंभे स्तब्धिकांचनयोरपि ॥ ४ ॥
8.1.4 · p. 265
अनुष्टुप्
पिशाचादिग्रहे तीर्थेऽप्यवतारोऽवतारणे ।अवरोहोऽवतरणं शाखाप्याग्राद्गतांघ्रितः ॥ ५ ॥
8.1.5 · p. 265
अनुष्टुप्
अधिवासो निवासे स्यात् गन्धधूपादिसंस्कृतौ ।अपवर्गः क्रियासाद्ध्ययफलाप्तौ त्यागमोक्षयोः ॥ ६ ॥
8.1.6 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 यफ (syllable split)
अपभ्रंशोऽपशब्दे स्यात् भाषाभेदप्रपातयोः ।अपदेशस्तु लक्षे स्यान्निमित्तव्याजयोरपि ॥ ७ ॥
8.1.7 · p. 265
अनुष्टुप्
अनुभावः प्रभावे स्यान्निश्चये भावसूचके ।पश्चात्तापे त्वनुशयो दीर्घद्वेषानुबन्धयोः ॥ ८ ॥
8.1.8 · p. 265
अनुष्टुप्
अनुषंगस्तु कारुण्ये प्रकृतस्यानुवर्तने ।अभिमानस्तु विज्ञाने प्रणये दर्पहिंसयोः ॥ ९ ॥
8.1.9 · p. 265
अनुष्टुप्
अभिषंगस्त्वभिभवे संग आक्रोशनेऽपि च ।अभिहारोऽभियोगे च चौर्यसन्नाहयोरपि ॥ १० ॥
8.1.10 · p. 265
अनुष्टुप्
स्नाने मद्यस्य सन्धानेऽभिषवः सवनेऽपि च ।अभिग्रहोऽभियोगे च समन्ताद्ग्रहणेपि च ॥ ११ ॥
8.1.11 · p. 265
अनुष्टुप्
संयुगे स्यादभिमरः सबलादपि साध्वसे ।कुले त्वभिजनो जन्मभूमौ चाथामरे झषे ॥ १२ ॥
8.1.12 · p. 266
अनुष्टुप्
अनिमेषोऽप्यनिमिषोऽप्यथ चण्डालशिष्ययोः ।स्यादन्तेवास्यथर्वज्ञे त्वथर्वाणिः पुरोहिते ॥ १३ ॥
8.1.13 · p. 266
अनुष्टुप्
नृपरक्षिष्वनीकस्थो हस्तिशिक्षाविचक्षणे ।अपवादौ तु निन्दाज्ञे स्तुतिस्नेहावपह्नवौ ॥ १४ ॥
8.1.14 · p. 266
अनुष्टुप्
वह्निवातावपांगर्भौ गुह्यगूधाववस्करौ ।कूर्मेशेऽब्धावकूपारोऽवलेपो लेपगर्वयोः ॥ १५ ॥
8.1.15 · p. 266
अनुष्टुप्
अशिरस्कौ बाहुरुण्डाववलोर्णोऽस्फुटापि वाक् ।आशोचनी तु वह्नीन्दू आत्मयोनी स्मरानिलौ ॥ १६ ॥
8.1.16 · p. 266
अनुष्टुप्
ब्रह्माप्यथोपचर्यायामुपचार उपायने ।उपनाहो वैरबन्धे वीणायाश्च निबन्धने ॥ १७ ॥
8.1.17 · p. 266
अनुष्टुप्
उपक्रमश्चिकित्सायामुपधारंभयोरपि ।उपग्रहस्तु बन्दौ स्याद्ग्रहणेऽप्यनुकूलने ॥ १८ ॥
8.1.18 · p. 266
अनुष्टुप्
उपतापौ रुजातापौ द्वारपालेऽप्युदास्थितः ।स्नानाचान्त्योरुपस्पर्शो हरावुच्चैः श्रवा हये ॥ १९ ॥
8.1.19 · p. 266
अनुष्टुप्
दात्यौहाली कलक्वाणौ खड्गिखड्गौ करालिकौ ।कलहंसो राजहंसे कादंबे श्रेष्ठभूभुजि ॥ २० ॥
8.1.20 · p. 266
अनुष्टुप्
कुरुविन्दो हिङ्गुलेऽपि मुस्तेऽप्यथ गुहाशयः ।ऋक्षे सिंहे च कूर्मे च ग्रहराजोऽर्कचन्द्रयोः ॥ २१ ॥
8.1.21 · p. 266
अनुष्टुप्
घनाघनो मत्तगजे वासवे वार्षुकांबुदे ।चक्रपादौ रथगजौ चित्त्रभानू इनानलौ ॥ २२ ॥
8.1.22 · p. 266
अनुष्टुप्
देशे जने जनपदश्चन्द्रेऽर्केऽग्नौ तमोनुदः ।तमोपहोऽप्यथोलूके तस्करे कुमुदाकरे ॥ २३ ॥
8.1.23 · p. 266
अनुष्टुप्
दिवाभीतो दिवाकीर्ती पुनश्चण्डालनापितौ ।दर्दुरीकोऽनले वाद्ये पार्थाग्नीन्द्रा धनञ्जयाः ॥ २४ ॥
8.1.24 · p. 267
अनुष्टुप्
अग्न्युत्पातौ धूमकेतू धन्वन्तरिरिनाब्जयोः ।पर्परीकौ वह्निभक्ष्यौ शौर्योद्योगौ पराक्रमौ ॥ २५ ॥
8.1.25 · p. 267
अनुष्टुप्
अग्निरुद्रौ पशुपती नाशावज्ञे पराभवौ ।रक्षः सन्तौ पुण्यजनौ नीचमूर्खौ पृथग्जनौ ॥ २६ ॥
8.1.26 · p. 267
अनुष्टुप्
द्वारद्वार्स्थौ प्रतीहारौ स्तनांभोदौ पयोधरौ ।काशे नडे पोटगलः पवमानोऽग्निवातयोः ॥ २७ ॥
8.1.27 · p. 267
अनुष्टुप्
परिमर्देऽपि परिमलः पितामहौ ब्रह्मपितृतातौ ।परिवारः प्रावारेऽपि नृपार्हार्थेऽपि परिबर्हः ॥ २८ ॥
8.1.28 · p. 267
उपगीतिः
परिवर्तो जगन्नाशे निमयेऽब्दे परिभ्रमे ।पर्युप्तौ च परीवाप आलवाले परिच्छदे ॥ २९ ॥
8.1.29 · p. 267
अनुष्टुप्
पत्नीस्वीकारशपथमूल्येष्वपि परिग्रहः ।परिक्षेपो हस्तिपादपार्श्वे संपरिवेष्टने ॥ ३० ॥
8.1.30 · p. 267
अनुष्टुप्
प्रतियत्नस्तु संस्कार उपग्रहणलिप्सयोः ।स्थाने गोष्ठ्यां सत्रशाले प्रत्याहारे प्रतिश्रयः ॥ ३१ ॥
8.1.31 · p. 267
अनुष्टुप्
प्लवंगमः कपौ भेके प्लवंगप्लवगाविव ।मौक्तिकेऽस्त्रे पारशवो विप्राच्छूद्रासुतेऽयसि ॥ ३२ ॥
8.1.32 · p. 267
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
विवेके स्यात् परिकरः पर्यस्तिपरिवारयोः ।प्रगाढगात्रिकाबन्धे समूहारंभयोरपि ॥ ३३ ॥
8.1.33 · p. 267
अनुष्टुप्
प्रतिग्रहः क्रियाकारे चमूपृष्ठे पतद्ग्रहे ।दानद्रव्ये स्वीकृतौ च त्वष्टर्यर्के प्रजापतिः ॥ ३४ ॥
8.1.34 · p. 267
अनुष्टुप्
दक्षादिष्वग्निजामात्रो राज्ञि ब्रह्मणि धातरि ।ब्रह्मपुत्रस्तु रुद्रेऽपि बाहुलेयो गुहे वृषे ॥ ३५ ॥
8.1.35 · p. 267
अनुष्टुप्
धूम्याटेऽलौ भृंगराजो महाराजौ नृपार्थपौ ।महालयो महागेहे विहारे परमात्मनि ॥ ३६ ॥
8.1.36 · p. 268
अनुष्टुप्
महाकालस्तु किंपाके हरे बाणासुरेऽपि च ।रजसानू घर्ममेघौ रौहिणेयौ हलीन्दुजौ ॥ ३७ ॥
8.1.37 · p. 268
अनुष्टुप्
लक्ष्मीपुत्रोऽश्व आढ्ये च राज्ञि लक्ष्मीपतिर्हरौ ।लोकपालो नृपेन्द्राद्योर्हये वातप्रमीर्मृगे ॥ ३८ ॥
8.1.38 · p. 268
अनुष्टुप्
वाडबेयोऽश्विनोर्विप्रे वासुदेवो हये हरौ ।विश्वगोप्ता हरौ शक्रे चन्द्रेऽर्केऽग्नौ विभावसुः ॥ ३९ ॥
8.1.39 · p. 268
अनुष्टुप्
वृषसानुः पुंसि मृत्यौ विष्णौ रुद्रे वृषाकपिः ।वानप्रस्थौ मधुष्ठीलपलाशावथ संकरे ॥ ४० ॥
8.1.40 · p. 268
अनुष्टुप्
व्यसने च व्यतिकरो विश्वकर्माब्जजो रविः ।त्वष्टा च विप्रलापस्तु विप्रलंभोपमर्दयोः ॥ ४१ ॥
8.1.41 · p. 268
अनुष्टुप्
वारवाणिर्ज्यौतिषिके धर्माध्यक्षेऽप्यथो वटे ।वनस्पतिर्वृक्षमात्रेऽप्यग्नीन्द्वर्का विरोचनाः ॥ ४२ ॥
8.1.42 · p. 268
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र्ज्यौ (wrong syllable)
व्यवहारो वाक्प्रयोगे संबन्धे द्यूतदण्डयोः ।शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ ४३ ॥
8.1.43 · p. 268
अनुष्टुप्
वर्धमानः शरावे स्यादेरण्डे भूषणेऽपि च ।शंकुकर्णौ गर्दभोष्ट्रावलिबाणौ शिलीमुखौ ॥ ४४ ॥
8.1.44 · p. 268
अनुष्टुप्
श्रीवत्सांकौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ ।सहसानुर्मयूरेऽहौ संप्रयोगो रतेऽन्वये ॥ ४५ ॥
8.1.45 · p. 268
अनुष्टुप्
स्तनयित्नुर्गर्जितेऽभ्रे विरोधे तु समुच्छ्रयः ।उन्नतावप्यथ क्रोष्टौ शुनि सालावृको वृके ॥ ४६ ॥
8.1.46 · p. 268
अनुष्टुप्
समाहारस्तु संक्षेप एकत्र करणेऽपि च ।समाह्वयस्तु पक्ष्याद्यैर्द्यूते नामनि संयुगे ॥ ४७ ॥
8.1.47 · p. 268
अनुष्टुप्
सांपरायस्तु संग्राम आपदागामिकालयोः ।स्थूलोच्चयस्त्वसाकल्ये गजानां मध्यमे गते ॥ ४८ ॥
8.1.48 · p. 269
अनुष्टुप्
सोमयोनिः सुरे विप्रे हरिरोमाब्जजेन्द्रयोः ।हस्तिमल्लो गणपतौ महेन्द्रस्य च कुञ्जरे ॥ ४९ ॥
8.1.49 · p. 269
अनुष्टुप्

इति चतुरक्षराः

वर्णमात्रेऽभिनिष्ठानो हरीशावपराजितौ ।आशुशुक्षणिरर्केऽग्नौ यज्वन्यप्यासुतीवलः ॥ ५० ॥
8.1.50 · p. 269
अनुष्टुप्
शौण्डिके चाप्यथानन्ते कुबेरे चैककुण्डलः ।आम्रे चामरपुष्पः स्यात् काशकेतकयोरपि ॥ ५१ ॥
8.1.51 · p. 269
अनुष्टुप्
ज्योतिषांपतिरर्के च चन्द्रे चाप्यथ चुंबने ।ओष्ठे च दशनोच्छिष्ट उच्छ्वासेऽप्यथ नीपके ॥ ५२ ॥
8.1.52 · p. 269
अनुष्टुप्
धूलीकदंबो वरुणफलेऽथो नागवारिकः ।गणस्थे हस्तिपाले च यमेऽपि पृथिवीपतिः ॥ ५३ ॥
8.1.53 · p. 269
अनुष्टुप्
प्राचीनबर्हिरिन्द्राग्न्यो रुद्रेन्द्रौ मेघवाहनौ ।मातुलपुत्रस्तून्मत्तफले मातुलसुतेऽपि स्यात् ॥ ५४ ॥
8.1.54 · p. 269
अनुष्टुप्metre not read in every line
कुटजेऽपि च यवफलको वडबामुख और्ववह्नौ च ।विकंकते गोक्षुरे च कोल्याञ्च स्वादुकण्टकः ॥ ५५ ॥
8.1.55 · p. 269
metre not recognised
निंबेऽपि हिंगुनिर्यासो हिंगुवृक्षरसेऽपि च ।हिरण्यबाहुः शोणाख्ये नदे विषमलोचने ॥ ५६ ॥
8.1.56 · p. 269
अनुष्टुप्

इति पञ्चाक्षराः

निदाघ ऊष्मणि ग्रीष्मे स्वेदे घर्मस्तु तेषु च ।आतपे च दिने चाथ वरुणे यादसांपतिः ॥ ५७ ॥
8.1.57 · p. 269
अनुष्टुप्
यादस्पतिश्च तावब्धावप्यथो यक्षगुह्यकौ ।धनदेऽप्यथ वृक्षेऽद्रौ शिखर्यगनगागमाः ॥ ५८ ॥
8.1.58 · p. 270
अनुष्टुप्
भ्रमरेष्टालिप्रियाद्या आम्रे जंबृकनीपयोः ।वतंसोत्तंसावतंसाः कर्णपूरेऽपि शेखरे ॥ ५९ ॥
8.1.59 · p. 270
अनुष्टुप्
अंशौ च केतुसूक्ष्माग्रा अप्यद्रौ शृंगिभैरवौ ।ःc{इति विषमाक्षराः}
8.1.60 · p. 270
अनुष्टुप्metre not read in every lineimpossible sign sequence: ःc{इति Latin letters: c
आकाशे दिवसे च द्युर्विः पक्षिपरमात्मनोः ॥ ६० ॥
8.1.60 · p. 270
अनुष्टुप्metre not read in every line
पुमांसौ पुरुषात्मानौ मासौ मासनिशाकरौ ।
8.1.62 · p. 270