All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · दकारादयः
अथ दकारादयो यथा ।
दंष्ट्राभिलाषयोर्दाढा दोग्धा बल्लववत्सयोः ।द्रोणः काकान्तरे भूध्रकृपीपत्योर्द्रुणः शरे ॥ २३५ ॥
5.16.235 · p. 192
अनुष्टुप्
भृङ्गे कीटे द्रुणं चापे कच्छपान्तरखड्गयोः ।द्रोणी बेडान्तरे भूध्रसंधावथ दिवं जले ॥ २३६ ॥
5.16.236 · p. 192
अनुष्टुप्
इन्द्रिये वासराकाशनाकेष्वथ दया कृपा ।दायो दाने पितुर्वित्ते यौतकान्वययोरपि ॥ २३७ ॥
5.16.237 · p. 192
अनुष्टुप्
दण्डो माने प्रकाण्डे चोपायभेदेऽर्कसेवके ।सैन्ये दर्पेऽथ दण्डी स्याद् द्वाःस्थे भूपे यमेऽपि च ॥ २३८ ॥
5.16.238 · p. 192
अनुष्टुप्
दानं हस्तिमदे शुद्धौ रक्षणे च विसर्जने ।दरो गर्ते भये देवः सुरराजजिगीषुषु ॥ २३९ ॥
5.16.239 · p. 192
अनुष्टुप्
मेघे [25] मूर्खे द्विजो विप्रे दन्तनीडजयोरपि ।द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥
5.16.240 · p. 192
अनुष्टुप्
द्रविणं द्युम्नवद्द्रव्ये सङ्घौषधपराक्रमे ।द्वितीया गेहिनीतिथ्योर्दारदः पारदे विषे ॥ २४१ ॥
5.16.241 · p. 193
अनुष्टुप्
देवनं तु विहारे स्याज्जिगीषाव्यवहारयोः ।द्वापरो युगभेदेऽथ संशये दीपितं त्वथ ॥ २४२ ॥
5.16.242 · p. 193
अनुष्टुप्
दग्धभासितयोश्चाथ दायादो ज्ञातिपुत्रयोः ।दुकूलं पट्टकूले स्याद्दले भूर्जस्य सम्मतम् ॥ २४३ ॥
5.16.243 · p. 193
अनुष्टुप्
दिवौकाश्चातके देवे दीपकस्तु खगान्तरे ।वृत्तालंकारभेदेऽपि दीपे दीप्तिकरे पुनः ॥ २४४ ॥
5.16.244 · p. 193
अनुष्टुप्
दुर्मुखो मुखरे हस्तिभेदे वानरवाजिनोः ।दर्दुरः पर्वते भेके दुर्वर्णं स्वर्णरूप्ययोः ॥ २४५ ॥
5.16.245 · p. 193
अनुष्टुप्
दासेरः करभे दासीपुत्रे वह्नौ च दहनः ।भल्लाते चित्रके दुष्टचेष्टितेऽपि निबध्यते ॥ २४६ ॥
5.16.246 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 द (wrong syllable)
दुरोदरः पणे द्यूते पाशके द्यूतकारके ।दन्दशूको भुजंगे स्याद्राक्षसेऽपि मतः सताम् ॥ २४७ ॥
5.16.247 · p. 193
अनुष्टुप्
देवसेनामरेशस्य पुत्री सेनापि कथ्यते ।दिवाकीर्तिस्तु चण्डाले नापिते शिबरान्तरे ॥ २४८ ॥
5.16.248 · p. 193
अनुष्टुप्
दिवाभीतश्च घूके स्यात्कुमुदाकरचौरयोः ।भवेद्देवमणिर्वाजिगलावर्तेऽपि शंकरे ॥ २४९ ॥
5.16.249 · p. 193
अनुष्टुप्