कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · चतुरक्षरतान्ताः ।

च[तुरक्षरता]न्ताः ।

ऋद्धेऽवसानेऽवगते गतौ चसंप्रोच्यतेऽत्रावसितं प्रवीणैः ।सिते च पीते नरि तद्युते तुत्रये विशुद्धे प्रवरेऽवदातः ॥ ४६ ॥
6.17.46 · p. 225
उपजातिः
निर्वादे त्ववगीतं मुहुश्च[298a] दृष्टे विगर्हिते परवत् ।अन्तर्गतं पुनरुक्तं विस्मृतमध्याप्तयोस्त्रय्याम् ॥ ४७ ॥
6.17.47 · p. 225
आर्याmetre not read in every line
अङ्गारितं दग्धपलाशकल्यु-द्गत्यो रथापावृतमात्मतन्त्रे ।छन्नेऽभिनीतस्त्रिषु संस्कृते स्या-न्न्यायेऽपि कोपिन्यथ साहसेऽपि ॥ ४८ ॥
6.17.48 · p. 225
इन्द्रवज्रा
अत्याहितं स्यादतिसाध्वसेऽथचोपाहितोऽग्न्युत्पतने तथैव ।आरोपितेऽथ क्रतुहिंसितेऽजउपाकृतस्तद्वदुपद्रुतेऽपि ॥ ४९ ॥
6.17.49 · p. 225
उपजातिः
उदास्थितः स्यात्प्रणिधौ चरेऽपिदौवारिकेऽध्यक्षनरेऽपि शस्तः ।न्याय्ये कुलीनेऽप्यभिजात आप्तेस्थितौ द्युवृक्षे त्वपि पारिजातः ॥ ५० ॥
6.17.50 · p. 225
उपजातिः
मन्दारके निम्बतरौ समृद्धेसमाहिते चोपचितश्च दिग्धे ।भवेत्समुद्गीर्णवियातवाचीसमुद्धतोऽथोल्लिखितः प्रदिष्टः ॥ ५१ ॥
6.17.51 · p. 225
उपजातिः
तनूकृतोत्कीर्णगतोऽथ लाक्षा-रक्ते तते पल्लवितं प्रसूतौ ।लघूकृते निस्त्वचि वर्जिते चविशेष्यगं निस्तुषितं वदन्ति ॥ ५२ ॥
6.17.52 · p. 225
उपजातिः
परिगतमुक्तं ज्ञाते प्रयातसंवेष्टितार्थे च ।लब्धे न्यस्ते ख्याते समाहिते च प्रणिहितं तद्वत् ॥ ५३ ॥
6.17.53 · p. 226
metre not recognised
प्र[298b]तिहतमुक्तं द्विष्टे संरुद्धे स्यात्प्रतिस्खलिते ।रटिते रतस्य शब्दे पिकशब्दे कुहरितं प्रोक्तम् ॥ ५४ ॥
6.17.54 · p. 226
उपगीतिः
बद्धे चोपन्यस्ते ग्राहित उद्ग्राहितं प्राहुः ।कलधौतः कलशब्दे नपुंसके हेम्नि रूप्ये च ॥ ५५ ॥
6.17.55 · p. 226
metre not recognised
नरि नारङ्गे सुरमातङ्गेचैरावत ऐन्द्रे त्वतिदीर्घे ।चापे चरमे लकुचे त्वस्त्रीविद्युद्भेदे विद्युति च स्त्री ॥ ५६ ॥
6.17.56 · p. 226
metre not recognised
कुम्भिलकुमुदाकरयोर्घूके कथितो दिवाभीतः ।पाशुपतो बकपुष्पे पशुपतिदैवे विशेष्यघ्नः ॥ ५७ ॥
6.17.57 · p. 226
उपगीतिः
निष्कासितो धिक्कृत ऊहिते चस्यान्निर्गतेऽथो विनिपात उक्तः ।दैवादिजन्यव्यसने त्वपाने( ? )घाते तथास्त्रे परिघात उक्तः ॥ ५८ ॥
6.17.58 · p. 226
इन्द्रवज्रा
योगविशेषोत्पातापमानवाची व्यतीपातः ।युद्धे वधे नरि समाघात इहोक्तोऽथ विज्ञाने ॥ ५९ ॥
6.17.59 · p. 226
metre not recognised
नियतान्यसमाहितयोः समाहितः कीर्तितः सद्भिः ।नन्द्यावर्तस्तगरे मन्दिरभेदे नृपादीनाम् ॥ ६० ॥
6.17.60 · p. 226
उपगीतिः
परिवर्तः कमठेशे परिवृत्तौ स्यात्पलायने वर्षे ।अभियु[299a]क्तः पररुद्धे तत्पर उक्तोऽतिमुक्तस्तु ॥ ६१ ॥
6.17.61 · p. 226
आर्या
वासन्त्यामपि तिनिशे निष्कलके चोपरक्तस्तु ।व्यसनातुरे च राहौ राहुगृहीते तथार्कादौ ॥ ६२ ॥
6.17.62 · p. 226
metre not recognised
स्यात्सूर्यभक्तो नरि बन्धुजीवेपार्थौषधौ स्त्री परवत्परत्र ।स्याद्दन्तिदन्ते नरि नागदन्तोगृहादितो निर्गतकाष्ठके च ॥ ६३ ॥
6.17.63 · p. 227
उपजातिः
स्त्री द्रोण पुष्प्यामपि मल्लिकायांविद्याधरे दन्तिनि पुष्पदन्तः ॥ ६३ ॥
6.17.63 · p. 227
इन्द्रवज्रा
सिन्धौ च सिन्दुवारे हिज्जल उक्तो नदीकान्तः ।स्त्री जम्बुकाकजङ्घावल्लीमात्रेषु निर्दिष्टः ॥ ६४ ॥
6.17.64 · p. 227
metre not recognised
अश्मप्रभेदे नरि चन्द्रकान्तो-ऽन्त्ये कैरवेऽथो नरि वैजयन्तः ।गुहे जयन्तेऽरणिवृक्ष धूकानाकेशकन्यासु भवेत्स्त्रियां सः ॥ ६५ ॥
6.17.65 · p. 227
उपजातिः
पुरस्कृतं शत्रुगृहीत ऊरी-कृतेऽर्चितेऽग्रे च कृतेऽन्यवत्स्यात् ।स्यान्निन्दितत्यक्तविचूर्णितेषुत्रयेऽप्यवध्वस्तमथानले स्यात् ।उत्पातके च ग्रहभेदके चना धूमकेतुः कथितः प्रवीणैः ॥ ६६ ॥
6.17.66 · p. 227
उपेन्द्रवज्राtwo metres in one verse
स्याच्चित्रगुप्तोऽपि यमे तदीय-कायस्थकेऽथो नरि पञ्चगुप्तः ।कूर्मेऽन्तिमे नास्तिक[299b]दर्शनेऽधि-क्षिप्तस्तु निर्भर्त्सितकुण्ठितार्थः ॥ ६७ ॥
6.17.67 · p. 227
इन्द्रवज्राmetre not read in every line
प्रत्याख्याते प्रेषिते च परिक्षिप्तश्च कुण्ठिते ।पुंस्यायुष्मान्योगभेदे वाच्यवच्चिरजीविनि ॥ ६८ ॥
6.17.68 · p. 227
अनुष्टुप्
बुधे रवौ विवस्वान्भगवान्पूज्ये च रुद्रे च ।स्याद्द्वीपवान्नदेऽब्धौ द्वीपवती त्वापगापृथ्व्योः ॥ ६९ ॥
6.17.69 · p. 227
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 द्रे (wrong syllable); pāda 4, syllable 7 पृ (wrong syllable)
तार्क्ष्ये खगे गरुत्मान्संख्यावान्पण्डिते वनिने ( ? ) ।स्यादंशुमान्दिनकरे शालीपर्ण्यां त्वंशुमत्युक्ता ॥ ७० ॥
6.17.70 · p. 227
metre not recognised
अर्थपतिर्धननाथे तथेश्वरे गृहपतिर्गृहिणि ।सत्रिणि चाग्न्याधाने प्रजापतिरुक्तो नृपे द्रुहिणे ॥ ७१ ॥
6.17.71 · p. 228
उपगीतिःmetre not read in every line
सेनापतिः सैन्यपतौ गुहे चलवङ्गपूगद्रुमयोस्तु विष्णौ ।लक्ष्मीपतिः स्यादथ वृक्षमात्रेवनस्पतिः पुष्पफलद्रुमे च ॥ ७२ ॥
6.17.72 · p. 228
उपजातिः
सदागतिः स्यात्पवने सदीशेखगे हिमारातिरिहानलेऽर्के ।पदाप्तिवार्तागुरुताप्रबोध-प्रागल्भ्यकेषु प्रतिपत्तिरुक्ता ॥ ७३ ॥
6.17.73 · p. 228
उपजातिः
चण्डालघूकनापितपर्यायः स्याद्दिवाकीर्तिः ।शतधृतिरिन्द्रे च विधौ यागे त्विन्दौ सुधासूतिः ॥ ७४ ॥
6.17.74 · p. 228
metre not recognised
अपचिति[300a]रर्चा हान्योर्निष्कारे स्याद्व्यये च स्त्री ।अनुमतिरुक्तानुज्ञा क्षीणकलेन्दुश्च पूर्णिमा गदिता ॥ ७५ ॥
6.17.75 · p. 228
उद्गीतिः
प्रतिकृतिरुक्ता प्रतिमा पूजा किं च प्रतीकारः ।अस्वाध्याये क्षेपे निराकृतिः स्यादनाकृतौ तद्वत् ॥ ७६ ॥
6.17.76 · p. 228
metre not recognised
उपगमे च जने स्यादुपपत्तिर्योजने कथिता ।उपसत्तिः सेवायां प्रतिपत्तौ सङ्गमात्रे च ॥ ७७ ॥
6.17.77 · p. 228
उपगीतिःmetre not read in every line
अपवादे तु जनानामभिशस्तिः प्रार्थनायां च ।गन्धवती मद्यभुवोर्योजनगन्धानगर्योश्च ॥ ७८ ॥
6.17.78 · p. 228
metre not recognised
पारावतः कलरवे शैले कपितिन्दुके तद्वत् ।स्त्री गोपगीतिर्लवलीफलयोरथ काचमक्षीर्याम् ॥ ७९ ॥
6.17.79 · p. 228
उपगीतिःmetre not read in every line
श्वेतवचायां कुष्टे हैमवती स्याद्धरीतक्याम् ।भोगवती भुजगानां नगरे नद्यन्तरे च भवेत् ॥ ८० ॥
6.17.80 · p. 228
उपगीतिः
चर्मण्वती तु कदलीसरिद्भिदोरथ कुमुद्वती प्रोक्ता ।कुमुदिन्यां कुशपत्न्यां शोभनदन्त्यां तु शुभदन्ती ॥ ८१ ॥
6.17.81 · p. 228
आर्या
स्यात्पुष्पदन्तकरिणो भार्यायामथ सरस्वती वाचि ।वाग्देव्यां च सुरभ्यां नदीविशेषेऽङ्गनारत्ने ॥ ८२ ॥
6.17.82 · p. 229
आर्या
[300b]नद्यां पुंसि तु रसिके नदभेदे नद्यधीशे च ।कुट्टिन्यां लक्षायामुद्दिष्टा रङ्गमाता च ॥ ८३ ॥
6.17.83 · p. 229
उपगीतिः
दिशि रविगन्तव्यायां प्रधूपिता क्लेशिते परवत् ।प्रव्रजिता तापस्यां मुण्डीर्यां मांसिकायां च ॥ ८४ ॥
6.17.84 · p. 229
उपगीतिः
ऋष्यप्रोक्ता तु शतावर्यां स्याच्छूकशिम्ब्यां च ।स्यान्माषपर्णिकायां तथा पटोल्यां कृष्णवृन्ता च ॥ ८५ ॥
6.17.85 · p. 229
metre not recognised
स्पृक्कायां कार्पास्यां दुरालभायां समुद्रान्ता ।
6.17.42 · p. 229
उपगीतिः

पञ्चताः ।

अवलोकितस्तु विबुधे प्रेक्षित उक्तो विशेष्याभः ॥ ८६ ॥
6.17.86 · p. 229
उपगीतिः
उपधूपित उद्दिष्टः सपीपमरणे प्रधूपिते तद्वत् ।अपराजितस्तु विष्णौ हरे स्त्रियां त्वौषधीभेदे ॥ ८७ ॥
6.17.87 · p. 229
आर्या
निर्जित उक्ता परवत्काल्यां श्वेताजयन्ती स्त्री ।मदनद्विषि गजवदने वदन्ति विज्ञा गणाधिपतिम् ॥ ८८ ॥
6.17.88 · p. 229
उपगीतिः
अथ यादसां पतिः स्याद्वरुणे रत्नाकरे तद्वत् ।पृथिवीपतिरवनीशे वृषभाह्वे चौषधे पुंसि ॥ ८९ ॥
6.17.89 · p. 229
उपगीतिः
मूर्धाभिषिक्तः पृथिवीपतौ स्या-त्क्षत्रे प्रधानेऽथ वसन्तदूतः ।चूते पिके पञ्चम[2a]रागके चस्त्री पाटलायामतिमुक्तके च ॥ ९० ॥
6.17.90 · p. 229
इन्द्रवज्राmetre not read in every line

षट्‌ताः ।

अर्धपारावतस्तूक्तश्चित्रकण्ठे च तित्तिरौ ।समुद्रनवनीतं स्यात्सुधायां च सुधाकरे ॥ ९१ ॥
6.17.91 · p. 229
अनुष्टुप्