कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कैरात

kairātaपुं · masc.

In 4 kośas: 5 synonym verses, 1 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.374 · p. 61
नातिपीतं तु कैरातं कवरं चन्दनं च् तत् ।गन्धकाष्ठं शैलगन्धं किराताभिधवल्लभम् ॥ ३७४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.158 · p. 266
कैरातोऽनार्यतिक्तः स्यात्तिक्तको रामसेनकः ।अकाण्डतिक्तो हैमः स्यादथ नेपालनिम्बकः ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.60 · p. 148
कैडर्यश्च महानिम्बः शाकसारोऽपि रम्यकः ।पञ्चनिम्बं तु निम्बस्य पञ्चाङ्गं समुदीरितम् ॥किराततिक्तो भूनिम्बो नार्यतिक्तश्च तिक्तकः ।रामसेनः किरातश्च नेपालोत्थस्तु हैमकः ॥कैरातः काण्डतिक्तश्च नाडीतिक्तोऽर्धतिक्तकः ।मदना वामनो राठो गाल-गालव-पिण्डिनः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 152
जोगं कालानुसार्यं च वनच[34a]न्दनमस्त्रियाम् ।नातिशीततमं श्वेतं कैरातं च शिलोद्भवम् ॥बर्बरोत्थं श्वेतवर्णं निर्गन्धबर्बराह्वयम् ।रक्तचन्दनमस्त्री स्याद्रक्तसारं च लोहितम् ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.229 · p. 126
किराततिक्ते कैरातो रामसेनः किरातकः ।अनार्यतिक्तको हैमो भूनिम्बः काण्डतिक्तकः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.591 · p. 98
किरातसम्बन्धिनि तु कैरातं त्रिरथ द्वयोः ।कोकिलः पक्षिभेदे स्यान्ना तु तूलेऽथ कोटिका ॥ ५९१ ॥
अनुष्टुप्