लोहित
lohitaक्ली · neut.In 22 kośas: 57 synonym verses, 8 as a nānārtha head word, 16 as a meaning of another word.
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
कापोतस्तु कपोताभः पीतस्तु सितरञ्जनः ।हारिद्रः पीतलो गौरः पीतनीलः पुनर्हरित् ॥ १३९४ ॥पालाशो हरितस्तालकाभो रक्तस्तु रोहितः ।माञ्जिष्ठो लोहितः शोणः श्वेतरक्तस्तु पाटलः ॥ १३९५ ॥
अनुष्टुप्
genderविadj.
genderपुंmasc.
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।
अनुष्टुप्
genderक्लीneut.
क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
आर्या
genderक्लीneut.
अरुणः शोणो रक्तो माञ्जिष्ठः पाटलस्तथा ताम्रः ।लोहित इत्येकार्थाः कविभिः शब्दाः प्रयुज्यन्ते ॥ ७३३ ॥
metre not recognised
genderविadj.
पाण्डरः पाण्डुरः पाण्डुर्हरितो हरिदुच्यते ।रोहितो लोहितोऽपि स्यात् कपिलः कबिलस्तथा ॥ ४३ ॥
अनुष्टुप्
genderविadj.
मंगलोऽसृक् भूमिसुतो लोहितो भूमिनन्दनः ।क्षोणिजो मेदिनीसूनुर्भूमिजो धरणीसुतः ॥ ६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भू (wrong syllable)
genderपुंmasc.
स्यादस्रं रुधिरं शोणं वर्मजं लोहलोहिते ।कीलालं क्षतजं विस्रमसृक् चर्मसमुद्भवम् ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
वर्वरोत्थं लोहितं तु सुरार्हं नन्दनोद्भवम् ।हरिगन्धं महागन्धमिन्द्रपर्यायचन्दनम् ॥ ३७७ ॥
अनुष्टुप्
genderक्लीneut.
रथेष्ठा च रथस्था च सरयुः सरयूरपि ।अमोघातनये ब्रह्मपुत्रो लोहित्यलोहितौ ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
सहस्रदंष्ट्रः पाठीनोऽप्यवदालक इत्यपि ।महामत्स्यो रूप्यवर्णो दीर्घः स्यादथ लोहितः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
रक्तमत्स्यो लोहितः स्याद्रोहिः सालो गडो गलः ।छालोऽथ नडजे मत्स्ये चिलिचीमश्चिलीचिमः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ।मञ्जिष्ठो बालसन्ध्याभोऽव्यक्तरागोऽरुणोऽपि च ॥ १६५ ॥
अनुष्टुप्
genderविadj.
हस्तोपवीतपलितवृन्तानां दैवतस्य च ।लोहितव्रतबुद्धानां वसन्तध्वान्तयोरपि ॥ १५९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
आषाढीयो मङ्गलो लोहिताङ्गोभौमो वक्रोऽङ्गारकः स्यान्नवार्च्चिः ।आरो[21b]ऽषाढः पिप्पलादस्तुतश्चक्रूराक्षः स्याल्लोहितः खोल्मुकश्च ॥ ५० ॥
शालिनीmetre not read in every line
genderपुंmasc.
लोहितो रोहितो रक्तो माञ्जिष्ठोऽसौ तु पाटलः ।श्वेतसंवलितो रक्तः शोणः कोकनदोपमः ॥ ३२ ॥
अनुष्टुप्
genderविadj.
जोगं कालानुसार्यं च वनच[34a]न्दनमस्त्रियाम् ।नातिशीततमं श्वेतं कैरातं च शिलोद्भवम् ॥बर्बरोत्थं श्वेतवर्णं निर्गन्धबर्बराह्वयम् ।रक्तचन्दनमस्त्री स्याद्रक्तसारं च लोहितम् ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)
genderक्लीneut.
रोहिणो रोचनः प्लीहशत्रुर्दाडिमपुष्पकः ।लोहितो रोपणः कूटशाल्मलिः पारिजातकः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
रुधिरे रक्त - कीलाल - तेजोज - रसजानि च ।आत्मजं देहजं तिग्ममस्रं लोहितमस्त्रियाम् ॥ ३१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
व्रीहिमान्व्रीहिको व्रीही शालिलः शालिकस्तथा ।शाली च शालियुक्तेऽथ चरव्यश्चरवे हुतः ॥स राजभोजनो राज्ञा भुज्यते योऽन्यलिङ्गकः ।शालयः कलमाद्याः स्युः कलमो ना कलामकः ॥लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
ऐरावतं पारत-लोहिते चशुद्धान्त-वृत्ते धृत-दैवते च ।द्यूतं वियूथं च वरूथ-गूथेप्रस्थं तथा प्रोथ-सतीर्थ-यूथः ॥ ४८ ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
ताम्रसारं रक्तसारं लोहितं हरिचन्दनम् ।कुचन्दने तु पत्राङ्गं पतङ्गं पट्टरञ्जनम् ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
शालौ तु कलमाद्याः स्युः कलमे तु कलामकः ।लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः ॥ ३८७ ॥
अनुष्टुप्
genderपुंmasc.
लोहितं रक्तमाताम्रं पाटलं विशदारुणम् ।पीतं गौरं हरिद्राभं पालाशं हरितं हरित् ॥ १४९ ॥
अनुष्टुप्
genderविadj.
मर्म कोषं च कलहं परिवादं छलं नयेत् ।शोणितं लोहितं रक्तं रुधिरं क्षतजासृजम् ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
षष्टिको गर्भपाकी च पाटलस्त्वाशुरुच्यते ।कलामकस्तु कलमो रक्तशालिस्तु लोहिते ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
आनीलो नीलवर्णोऽर्वा त्रियूहः कपिलो हयः ।पीतस्तु हरियो वाजी कियाहो लोहितो हयः ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
मत्स्यराजो लोहितः स्याज्जलौतुस्तूद्र उच्यते ।यादांसि जलजीवाः स्युः सामान्येनाप्यनेकशः ॥ २४५ ॥
अनुष्टुप्
genderपुंmasc.
हारिद्रः पीतलः पीतो गौरः स्यात्सितरञ्जनः ।हरितस्तालकाभश्च पालाशोऽप्यथ लोहिते ॥ २८९ ॥
अनुष्टुप्
genderविadj.
आग्नेयं लोहितं विस्रं वाशिष्ठं प्राणदं समम् ।आसुरं क्षतजं चास्रमसृग्मांसकरं हि तत् ॥ २७८ ॥
अनुष्टुप्
genderक्लीneut.
निवातप्रयुते वृत्तं लोहितं क्ष्वेडितं शतम् ।शुद्धान्तपलितौ प्रस्थं द्वियूथं प्रोथमेव च ॥ १४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
वाल्मीकं कठिनं शाम्बं लोहितं ऋजु मङ्गलम् ।चाक्षुषं भासुरं मोक्षं तेजोमयमरिंदमम् ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
पद्मरागे लोहितकं कुरुविन्दं च लोहितम् ।मुक्ताफले मौक्तिकं स्यान्मुक्ता मुक्तोऽपि दृश्यते ॥ ५३९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
genderक्लीneut.
पाटीरं मलयोद्भूतं चन्दनं शिशिरद्रवम् ।माहिषं रक्तपाटीरं लोहितं रक्तचन्दनम् ॥ १८४ ॥
अनुष्टुप्
genderक्लीneut.
नीलः श्यामः शितः कृष्णः पीतो गौरोऽतिपिङ्गलः ।अरुणो लोहितो रक्तः कृष्णलोहितधूम्रकौ ॥ ३२६ ॥
अनुष्टुप्
genderविadj.
स्याल्लवणः सर्वरसः क्षारस्तिक्तं तु तीक्ष्णवत् ।रक्तः शोणोऽरुणस्ताम्रो लोहितः पाटलोऽपि च ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ल्ल (wrong syllable)
genderविadj.
आग्नेयं रुधिरं रक्तं रसतेजश्च लोहितम् ॥ १००० ॥
अनुष्टुप्
genderक्लीneut.
पुनः ख्यातो महाशालिः सुगन्धिकोऽपि कथ्यते ।लोहितो रक्तशालिश्च नामतः प्रथितं भुवि ॥ २१०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्धि (wrong syllable)
genderपुंmasc.
रोहितो लोहितो रक्तो माञ्जिष्ठः शोण इत्यपि ।पाटलः श्वेतरक्तश्च श्वेतरक्तस्य नाम वै ॥ २५३४ ॥
अनुष्टुप्
genderविadj.
हरिद्वर्णे तु पालाशः श्यामश्च हरितो हरित् ।रक्तोत्पलनिभः शोणो रक्तो लोहित-रोहितौ ॥
अनुष्टुप्
genderपुंmasc.
रोहितो मत्स्यराजः स्याद् भालाङ्को लोहितस्तथा ।स्यान्मद्गुरो मद्गुरकः शालः शालजगर्जको ॥
अनुष्टुप्
genderपुंmasc.
अमोघानन्दनब्रह्मपुत्रलौहित्यलोहिताः ।कुमारो घर्घरः सिन्धुभैरवाद्यास्तथा परे ॥
अनुष्टुप्
genderपुंmasc.
रुधिरासृक् पलङ्कारमस्रं क्षतजरोहितम् ।लोहितं शोनितञ्चेति रक्तं रङ्गकमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
दीपकं लोहितञ्चाग्रसौरभं चापि चन्दनम् ।लाक्षा राक्षा जतु क्लीबे जतुकं यावयावकौ ॥
अनुष्टुप्
genderक्लीneut.
पद्मरागः शोणरत्नं लोहितं कुरुविन्दकम् ।मुक्ता मुक्ताफलं शुक्तिवीजं हारी च मौक्तिकम् ॥
अनुष्टुप्
genderक्लीneut.
पीतनीले तु पालाशः पलाशो हरितो हरिः ।लोहितो रोहितो रक्ते, पीतरक्ते तु पिङ्गलः ॥ १७ ॥
अनुष्टुप्
genderविadj.
कालश्यामश्यामलकृष्णासितनीलमेचकास्तु समाः ।रक्तो रोहितलोहितताम्रारुणशोणपाटलाश्च समाः ॥ ८८८ ॥
गीतिः
genderविadj.
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
गीतिः
genderक्लीneut.
बालकः कृष्णशालिः स्यात् प्रवरः शालिषष्टिकः ।कलमसुगन्धिकहायनपारावतगौरलोहितपतंगाः ॥ १४१५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
तीक्ष्णा च लोहितः शूरो दक्षपाणि(र्श्व)श्च पार्थिवः ।पद्मेशो नान्तिमः फादिः प-कारोऽपि प्रकीर्त्तितः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
तीक्ष्णा द्विरण्डः पद्मेशो नान्तिमः शूर-लोहितौ ।दक्षपार्श्वगतः फादिः प्रचण्डश्च प-कारकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
सौवर्चलं द्रवस्तु स्याज्जारणं लोहितोऽस्त्रियाम् ।दशेत्थं लवणानि स्युरथोपलवणास्त्रयः ॥ १२६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वदालस्त्वहिकश्चित्रः पाठीनो मृदुकण्टकः ।फलकी स्याच्चित्रफली लोहितस्त्वावतारिकः ॥ ४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्चि (wrong syllable)
genderपुंmasc.
रुधिरं लोहितं रक्तमस्रं क्षतजमासुरम् ।रोक्यं शोध्यं मांसकरं रसतेजो रसोद्भवम् ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
काले कृष्णासितश्यामनीलश्यामलमेचकाः ।रोहिते लोहितो रक्तो हारिद्रे पीतपीतले ॥ ११ ॥
अनुष्टुप्
genderविadj.
हरिणझषविभेदभेदरोहि-द्रुषु नरि कुङ्कुमरक्तशक्रचापे ।मिथुनयुगिह रोहितं नदे तुक्षितितनये नरि लोहितोऽप्यथास्त्री ॥ १ ॥
पुष्पिताग्रा
meaningsक्षितितनय
असृजि च घुसृणे च तैलपर्ण्यांकुमलयजे परवत्स वर्णभेदे ।सुरमुनिभिदि पादपे च शैलेशकझषभिद्यपि पर्वतो मतो ना ॥ २ ॥
पुष्पिताग्रा
doubtful
लोटना तु स्त्रियां सानुसारवाचि नपि स्वदः ।विलोटने लोहितं तु रुधिरे क्ली द्वयोः पुनः ॥ १५७८ ॥
अनुष्टुप्
meaningsरुधिर
आवतारिकसंज्ञे स्यान्मत्स्यभेदे पुमान् पुनः ।रक्तशालौ रक्तवर्णेऽप्यथ स्यात् तद्वति त्रिषु ॥ १५७९ ॥
अनुष्टुप्
doubtful
क्लीबन्तु रक्तगोशीर्षे कुङ्कुमे चैव चन्दने ।वर्द्धितं न द्वयोश्छिन्ने प्रसृते पूरितेऽपि च ॥
अनुष्टुप्
doubtful
लोहित as a meaning in nānārtha verses
- धरणिकोश रागरागः क्लेशादिषु प्रोक्तो मात्सर्यलोहितादिषु । अनुरक्तौ नृपे रागो रागो गान्धारिकादिषु ॥ Dharaṇikośa 3.3.6
- धरणिकोश शोणशोणः कोकनदच्छवौ निगदितः शोणः समुद्रान्तरं शोणो लोहितघोटकोऽपि च तयोर्भेदे च शोणः स्मृतः । वाणः स्यादसुरान्तरे कविवरे वाणी च वाग्देवता वाणौ केवलकाण्डयोश्च कथितौ वाणा स्मृता झिण्टिका ॥ Dharaṇikośa 14.2.1
- धरणिकोश रक्तरक्तं क्षतजकाश्मीरलोहितेषु प्रयुज्यते । नील्यादिरञ्जिते शुद्धे रक्तं रक्तोऽनुरागिणि ॥ Dharaṇikośa 15.3.5
- नानार्थार्णवसंक्षेप रक्तमहीरुहप्रभेदे स्यात् तथा वर्णे च लोहिते । त्रि तु तद्वद्रागवतोरनुरक्तेऽपि यत् पुनः ॥ १०८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1083
- नानार्थार्णवसंक्षेप अरुणलोहितेऽन्यस्तु कपिले त्रि त्वत्र कथिता गुणाः । अव्यक्तरागादयो ये तेषामन्यतमेन यत् ॥ २८ ॥ Nānārthārṇavasaṃkṣepa 4.28
- नानार्थार्णवसंक्षेप लेहनलेहनस्तु शुनि द्वे स्याच्चौर्यग्रासिनि तु त्रिषु । सौवर्चलद्रवे त्वस्त्री (लेहितो ? लोहिते) जारणाह्वये ॥ १५७३ ॥ Nānārthārṇavasaṃkṣepa 4.1573
- नानार्थार्णवसंक्षेप लोहितचन्दनकुङ्कुमे तु विजानीयात् क्लीबे लोहितचन्दनम् । अस्त्री तु लोहिते विद्याच्चन्दनेऽथ स्त्रियां भवेत् ॥ २० ॥ Nānārthārṇavasaṃkṣepa 8.20
- शिवकोष रक्तकरक्तकं शुल्वबाल्हीकप्राचीनामललोहिते । रक्तको रागिजपयोर्गुञ्जाराजिकयोः स्त्रियाम् ॥ ४५ ॥ Śivakoṣa 1.3.45
- शब्दरत्नावली रागरागोऽनुरागे क्लेशादौ गान्धारादौ महीपतौ । मात्सर्यादौ लोहितादौ स्याच्चन्द्रमसि भाष्करे ॥ Śabdaratnāvalī 7.3.22
- शब्दरत्नावली शोणश्रेणी स्त्रीपुंसयोः पङ्क्तौ समानशिल्पिसंहतौ । शोणोऽग्रौ लोहिताश्वे च श्योनाके लोहिते पुमान् ॥ Śabdaratnāvalī 7.15.20
- शब्दरत्नावली रक्तरक्तस्त्रिषु लोहितानुरक्तनील्यादिरञ्जिते । क्लीबं कुङ्कमताभ्रासृक् प्राचीनामलकेषु च ॥ Śabdaratnāvalī 7.16.44
- शब्दरत्नावली कषायऔचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके । कषायः पुंसि निर्यासे रसभेदे विलेपने ॥ अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु । कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥ क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् । क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥ गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके । चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥ Śabdaratnāvalī 7.26.39
- तन्त्राभिधान पन-कारो मेषसंज्ञः स्याद्दीर्घी सौरिश्च कीर्त्तितः । प-कारो लोहितः पार्श्वं शूरश्च परमेश्वरि! ॥ २२ ॥ Tantrābhidhāna 1.22
- तन्त्राभिधान पपः पू(शू)रप्रियता तीक्ष्णा लोहितः पञ्चमो रमा । गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता ॥ १२१ ॥ Tantrābhidhāna 2.38.121
- तन्त्राभिधान पयाम्यपार्श्वो दक्षकुक्षिर्विश्वार्त्तिश्चैव लोहितः । पार्थिवः पद्मनाभश्च पद्मेशः पा-र्णकः स्मृतः ॥ ३८ ॥ Tantrābhidhāna 6.38
- वैजयन्ती अरुणविषारुणारुणं ताम्रमरुणः सूर्यसारथौ । अव्यक्तरागे शशिजे सन्ध्याभ्रे लोहिते रवौ ॥ ६ ॥ Vaijayantī 7.5.6