कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

किरात

kirātaपुं · masc.

In 18 kośas: 21 synonym verses, 5 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.934 · p. 37
पुलिन्दा नाहला निष्ट्याः शबरा वरुटा भटाः ।माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.20
भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.599 · p. 67
किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः ।माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.611 · p. 69
गडुलः कथ्यते कुब्जः खर्वशाखस्तु वामनः ।पृश्निः स्वल्पशरीरः स्यात्किरातः स च कथ्यते ॥ ६११ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.36 · p. 206
पुलिका नाहला निष्ठ्याः शवरा वरुटा भटाः ।माला भिल्लाः किराताश्च ते सर्वे भिन्नजातयः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.60 · p. 148
कैडर्यश्च महानिम्बः शाकसारोऽपि रम्यकः ।पञ्चनिम्बं तु निम्बस्य पञ्चाङ्गं समुदीरितम् ॥किराततिक्तो भूनिम्बो नार्यतिक्तश्च तिक्तकः ।रामसेनः किरातश्च नेपालोत्थस्तु हैमकः ॥कैरातः काण्डतिक्तश्च नाडीतिक्तोऽर्धतिक्तकः ।मदना वामनो राठो गाल-गालव-पिण्डिनः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.12 · p. 153
कुचन्दनं रञ्जनं च हरिचन्दनमस्त्रियाम् ।ज्योतिष्टोमं किरातं च ज्योतिरक्तारुणद्रुमौ ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.47 · p. 299
पुलिन्दा नाहला निष्ट्याः शबरा वरुडा भुराः ।मेदा भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 14 · p. 7
पुलिन्दः शवरो दस्युर्निषादो व्याधलुब्धकौ ।धानुष्कोऽथ किरातश्च सोऽरण्यानीचरः स्मृतः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.58 · p. 59
किराते चाथ भूनिम्बो रामसेनक[33]तिक्तकौ ।कटुकी रोहिणी तिक्ता चक्राङ्गी कटुरोहिणी ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.591 · p. 102
किराताश्च पुलिन्दाश्च शबरा म्लेच्छजातयः ।किराते शबरो व्याधः पुलिन्दो मृगयुस्तथा ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.77 · p. 6
शूद्रोऽन्त्यवर्णोऽङ्घ्रिभवः श्यामः सेवनजीवनः ।भिल्लः किरातः शबरो निषादो वेणुकल्मषः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.69 · p. 41
इतरः प्राकृतो नीचः पामरश्च पृथग्जनः ।पुलिन्दः शम्बरो भिल्लः किरातश्च वनेचरः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.266 · p. 94
अल्पतनुश्च पृश्निः स्यात् किरातो लधुदेहवान् ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable); pāda 3, syllable 7 न्यु (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1584 · p. 254
मालाः भिल्लाः पुलिन्दाश्च किराताः वकटाः भटाः ।शबराः नाहलाः निष्ट्याश्चेत्युक्ता म्लेच्छजातयः ॥ १५८४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.30 · p. 155
शवराश्च किराताश्च पुलिन्दाः म्लेच्छजातयः ।त एव पत्रशवरा दरदाः परदाश्च ते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.216 · p. 236
किरातो हैमे कुष्ठे तु वर्ग्यद्वादशसंयुते ।वानीरं वानीरजं च व्याप्यमाप्यं च तद्भिदि ॥ २१६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मे (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.379 · p. 51
कुन्तियुगंधरशिबयस्त्रैपुरतोक्षारकुन्तलारट्टाः ।मेखलकशूरसेना आभीरकरूशमौखरकिराताः ॥ ३७९ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1561 · p. 188
मातंगश्वपचावन्तेवासिचाण्डालपुष्यलाः ।भिल्लाः किराताः शबराः पुलिन्दाश्च निषादकाः ॥ १५६१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.46 · p. 75
अन्ध्री तु शबरान्निष्ट्यं भिल्लं सा निष्ठ्यपूर्विका ।किरातं पर्णशबरी शबरान्निष्ट्यपूर्विका ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.5 · p. 201
पितुर्विभक्तः संसृष्टी भ्रात्रार्थेनैकतां गतः ।पृश्निः किरातोऽल्पतनुर्दुर्बलस्तु कृशस्तनुः ॥ ५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.11 · p. 219
संघात उक्तोऽथ हरेऽद्रिभेदेस्याद्रैवतोऽथाल्पतनौ किरातः ।स्यान्नार्यति[ति ? ]क्तेऽन्त्यजजातिभेदेमन्दाकिनीकुट्टनिकागतः स्त्री ॥ ११ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.476 · p. 88
इदं धनञ्जयेनोक्तं किरातस्त्वभिधेयवत् ।स्वल्पकायेऽथ रभसो भूनिम्बे पुंस्यधीतवान् ॥ ४७६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.477 · p. 88
स्त्रियां चामरवाहिन्यां मर्त्यजात्यन्तरे द्वयोः ।शबरात् पर्णशबरी निष्ट्यपूर्वासविष्ट यम् ॥ ४७७ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.97 · p. 219
क्षारितस्त्रिष्वभिशस्ते स्यात् क्षारे स्राविसे पुमान् ।कापोतं स्यात् कपोतौधाञ्जनयोरुचके पुमान् ।किरातो म्लेच्छभेदे स्याद् भूनिम्बाल्पशरीरयोः ॥
अनुष्टुप्metre not read in every line
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.153 · p. 143
ऐरावतो नागरङ्गेऽप्यथ कान्तिर्द्युतीच्छयोः ।किरातौ म्लेच्छभूनिम्बौ कान्तस्तु प्रियरम्ययोः ॥ १५३ ॥
अनुष्टुप्

किरात as a meaning in nānārtha verses