कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (5/18)

क्लीबलिङ्गं तु विज्ञेयं क्रिमिजं गन्धवस्तुनि ।अगुर्वाख्ये क्रिमेस्तु स्याज्जाते त्रि क्रिमिरस्तु ना ॥ ४८१ ॥
4.481 · p. 88
अनुष्टुप्
सितलोहितसम्मिश्रवर्णे तद्वति तु त्रिषु ।ज्ञेया तु क्रिमिरा स्त्रीत्वे मृगभेदे बिलेशये ॥ ४८२ ॥
4.482 · p. 88
अनुष्टुप्
क्रिमिघ्नो ना विडङ्गाख्यभेषजे त्रि तु हन्तरि ।अमनुष्ये क्रिमेः स्त्री तु किन्नरी पिङ्गलाह्वये ॥ ४८३ ॥
4.483 · p. 88
अनुष्टुप्
पक्षिभेदे तथा वीणाभेदे चण्डालवल्लकी ।इति ख्याते किंशुकस्तु पलाशाख्यमहीरहे ॥ ४८४ ॥
4.484 · p. 88
अनुष्टुप्
इङ्गुदाह्वयवृक्षे च तयोस्तु प्रसवे नपि ।क्षिपण्युस्तु पुमान् वायावायुधेऽर्थवसन्तयोः ॥ ४८५ ॥
4.485 · p. 88
अनुष्टुप्
स्त्री विद्युति किरीटी तु नार्जुने त्रिः समौलिके ।कीनाशोऽग्नौ यमे पीतहरिते मिश्रवर्णके ॥ ४८६ ॥
4.486 · p. 89
अनुष्टुप्
पीतप्रधाने पुंसि स्याद् राक्षसे तु द्वयोस्त्रि तु ।कदर्यानार्यभृतककृतघ्नेषु कृषीवले ॥ ४८७ ॥
4.487 · p. 89
अनुष्टुप्
पूर्वोक्तवर्णवद्द्रव्येऽप्याममासांशकेऽप्यथ ।क्ली करञ्जफलस्यैकबीजे मधुरभेषजे ॥ ४८८ ॥
4.488 · p. 89
अनुष्टुप्
क्लीतकं क्लीतकी तु स्त्री नीलिसंज्ञौषधौ स्मृता ।कीचको ना वेणुभेदे यो ध्वनत्यनिलोद्धुतः ॥ ४८९ ॥
4.489 · p. 89
अनुष्टुप्
स्याले विराटराजस्य महाभारतविश्रुते ।क्ली तु कीचकवृक्षस्य प्रसवे क्षीरिकः पुनः ॥ ४९० ॥
4.490 · p. 89
अनुष्टुप्
राजिलाह्वयसर्पे द्वे क्षीरिका तु स्त्रियामियम् ।दुग्धिकासंज्ञकस्तम्बे फलाध्यक्षाख्यपादपे ॥ ४९१ ॥
4.491 · p. 89
अनुष्टुप्
क्षीराशस्तु द्वयोर्हंसे क्षीरस्य त्वांशके त्रिषु ।कीकसं त्वस्थनि क्लीबं क्रिमिषु त्वणुषु द्वयोः ॥ ४९२ ॥
4.492 · p. 89
अनुष्टुप्
कीकटस्तु द्वयोरश्वे मेद्यवत् तु मितम्पचे ।नीवृद्भेदे त्वनार्याणां निवासे पुंसि भूम्नि च ॥ ४९३ ॥
4.493 · p. 89
अनुष्टुप्
कुतपः सूर्यवह्न्योर्ना वृषभेऽप्यतिथावपि ।भागिनेये द्वे तु विप्रे पुन्नपुंसकयोः पुनः ॥ ४९४ ॥
4.494 · p. 89
अनुष्टुप्
दर्पेऽप्यह्नोऽष्टमे भागे तिले छागजकम्बले ।वाद्यवादकसामग्र्यां नाट्यस्येत्याह यादवः ॥ ४९५ ॥
4.495 · p. 89
अनुष्टुप्
वाद्यविन्यास इत्याह शाश्वतः सज्जनः पुनः ।सायमास्तरणे प्राह परे त्वास्तरणे विदुः ॥ ४९६ ॥
4.496 · p. 89
अनुष्टुप्
देहल्यां चाथ कुशलं निपुणे त्रिः क्षमेऽपि च ।क्षेमे मङ्गलयुक्ते च दीक्षितेऽप्यजयोऽथ नप् ॥ ४९७ ॥
4.497 · p. 90
अनुष्टुप्
पर्याप्तौ मङ्गले पूर्णे स्यात् कुसुम्भं तु कुङ्कुमे ।क्ली महारजतेऽप्यस्य पुनः स्तम्बे स्त्रियामियम् ॥ ४९८ ॥
4.498 · p. 90
अनुष्टुप्
कुसुम्भी पुंसि तु प्राह वरधान्यान्तरे परः ।कमण्डलौ च कुसुमस्त्वस्त्री स्त्रीपुष्पपुष्पयोः ॥ ४९९ ॥
4.499 · p. 90
अनुष्टुप्
नेत्ररोगविशेषे च फले च रभसोऽपठीत् ।कुणपस्तु क्रिमौ द्वे स्यात् कुत्सिते भेद्यलिङ्गकः ॥ ५०० ॥
4.500 · p. 90
अनुष्टुप्
हंसारिकायां त्वाचष्टे रभसः कुणपी स्त्रियाम् ।कुणपोऽस्त्री शवे क्ली तु पूयेऽथो कुक्कुटो द्वयोः ॥ ५०१ ॥
4.501 · p. 90
अनुष्टुप्
कृकवाकौ च भासे च मर्त्यजात्यन्तरेऽपि च ।शूद्रायां मागधाज्जाते निषादीवैश्ययोः सुते ॥ ५०२ ॥
4.502 · p. 90
अनुष्टुप्
शूद्राज्जाते निषाद्यां च सुनिषण्णाह्वये पुनः ।शाके पुंसि द्वयोस्तु स्यात् कुक्कुरः शुनि नप् पुनः ॥ ५०३ ॥
4.503 · p. 90
अनुष्टुप्
स्थौणेयसंज्ञके गन्धद्रव्ये द्वे तु कुरङ्गवाक् ।स्यान्महाहरिणे चापि वानरेऽप्यथ सा स्त्रियाम् ॥ ५०४ ॥
4.504 · p. 90
अनुष्टुप्
कुरङ्गी भोजपुत्र्यां स्यात् पुन्नपुंसकयोः पुनः ।कुडुङ्गः स्यान्निकुञ्जे चच्छदिष्यप्यथ सा त्रयी ॥ ५०५ ॥
4.505 · p. 90
अनुष्टुप्
बदर्यां कुवली क्ली तु तत्फलेऽप्युत्पलेऽप्यथ ।कुवेलमुत्पले क्लीबं त्रिस्तु कुत्सितवेलके ॥ ५०६ ॥
4.506 · p. 90
अनुष्टुप्
कुम्भीकः पुंसि पुन्नागवृक्षे तत्प्रसवे तु नप् ।कुमुदस्य फलेऽप्युक्तमायुर्वेदविचक्षणैः ॥ ५०७ ॥
4.507 · p. 90
अनुष्टुप्
कुरीरस्तु पुमान् मालाविशषे कम्बलेऽपि च ।क्लीबं तु मैथुने पद्मे जाले च मुनिभाषितम् ॥ ५०८ ॥
4.508 · p. 91
अनुष्टुप्
रभसस्त्वाह कुटजो मुनौ पुंसि द्रुमान्तरे ।क्लीबलिङ्गं तु वृक्षस्य तस्य पुष्पे फलेऽपि च ॥ ५०९ ॥
4.509 · p. 91
अनुष्टुप्
कुररस्तु द्वयोरुत्क्रोशाख्यपक्षिणि सा पुनः ।कुररी स्त्री भवेन्मेष्यां कुमुदं तु नपुंसकम् ॥ ५१० ॥
4.510 · p. 91
अनुष्टुप्
पुंस्यप्यन्ये कैरव स्याद् रक्ताब्जेऽप्यथ ना स्मृतः ।स्याद्दिग्गजविशेषे च कपिभेदे च विश्रुते ॥ ५११ ॥
4.511 · p. 91
अनुष्टुप्
रामायणकथायां स्त्री पुनः कट्फलसंज्ञके ।पादपे कुमुदा ब्रूते पुनर्गम्भारिकाह्वये ॥ ५१२ ॥
4.512 · p. 91
अनुष्टुप्
पादपे रभसोऽथ द्वे कुमुखः सूकरे त्रि तु ।कुत्सितास्ये कुमारस्तु स्कन्दे ना वरुणद्रुमे ॥ ५१३ ॥
4.513 · p. 91
अनुष्टुप्
अश्वानुचारके चापि युवराजे मृतावपि ।कुत्सितायां द्वयोस्तु स्याद् बाले स्त्रीपुंसयोः पुनः ॥ ५१४ ॥
4.514 · p. 91
अनुष्टुप्
जम्बुद्वीपे कुमारी तु कन्यायां स्यात् स्त्रियामसौ ।मृगजात्यन्तरे चापि हिमाभे नवमालिका ॥ ५१५ ॥
4.515 · p. 91
अनुष्टुप्
इति प्रसिद्धवल्ल्यां च तरणीसंज्ञगुल्मके ।कुस्तुम्बुर्यां मृडान्यां च तथा जनपदान्तरे ॥ ५१६ ॥
4.516 · p. 91
अनुष्टुप्
तद्राजेऽप्यथ यस्यास्ति दुर्मारस्तत्र भेद्यवत् ।कुचेलस्तु त्रिषु ज्ञेयः कुवाससि नपि त्वदः ॥ ५१७ ॥
4.517 · p. 91
अनुष्टुप्
कुत्सिते वाससि स्नी तु कुचेला स्याल्लतान्तरे ।आविद्धकर्णिपाठादिसंज्ञाभिः शास्त्रविश्रुते ॥ ५१८ ॥
4.518 · p. 91
अनुष्टुप्
कुल्माषः कुरुविन्दाख्यमणौ व्रीह्यन्तरे च ना ।यवभेदे यावकाख्ये परे तु यवपिष्टके ॥ ५१९ ॥
4.519 · p. 91
अनुष्टुप्
सूपभक्ते परेऽन्ये तु विदले क्ली तु काञ्चिके ।कुल्माषः पक्कमुद्गादिपिण्डे ना शबलाह्वये ॥ ५२० ॥
4.520 · p. 92
अनुष्टुप्
वर्णे च त्रि तु वर्णेन शबलाख्येन संयुते ।नागराजविशेषे तु कुहरः स्यान्नृलिङ्गकः ॥ ५२१ ॥
4.521 · p. 92
अनुष्टुप्
क्लीबलिङ्गं तु विज्ञेयं गह्वरे विवरेऽपि च ।कुलिशस्त्वस्त्रियां वज्रे मत्स्यभेदे तु स द्वयोः ॥ ५२२ ॥
4.522 · p. 92
अनुष्टुप्
कुलालो द्वे कुम्भकार कुलाली तु स्त्रियामियम् ।चक्षुष्यासंज्ञभैषज्ये कुलायस्तु नृलिङ्गकः ॥ ५२३ ॥
4.523 · p. 92
अनुष्टुप्
पक्षिनीडे गृहे च स्यादेकाहक्रतुभेदके ।कुलस्य त्वायके त्रि स्यात् कुणालस्तु पुमानयम् ॥ ५२४ ॥
4.524 · p. 92
अनुष्टुप्
कृतमाले क्ली तु पुरप्रभेदेऽथ कुकूलवाक् ।स्यात् क्लीबं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ ५२५ ॥
4.525 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्ली (wrong syllable)
कुहनस्तु त्रिरीर्ष्यालौ मायाविनि च ना पुनः ।वल्मीके चेन्द्रजाले तु वैजयन्त्यामभाषत ॥ ५२६ ॥
4.526 · p. 92
अनुष्टुप्
नप्स्त्री तु दम्भचर्यायां दम्भशीलत्व एव च ।कुहना क्ली तु मायायां मूषिके तु द्वयोर्भवेत् ॥ ५२७ ॥
4.527 · p. 92
अनुष्टुप्
कुलकस्तु पुमान् काकतिन्दुकाख्यमहीरुहे ।वृक्षे कुरवकाख्ये च क्लीबं तु स्याल्लतान्तरे ॥ ५२८ ॥
4.528 · p. 92
अनुष्टुप्
पटोलसंज्ञे काव्यालङ्कारभेदे च तत् त्रि तु ।संयुक्ते कुतली तु स्त्री शाकभेदे नृनप् पुनः ॥ ५२९ ॥
4.529 · p. 92
अनुष्टुप्
कुतलो भूतलेऽथ स्युः कुन्तलाः पुंसि भूम्नि च ।मध्यदेशस्थिते नीवृद्भेदे जनपदान्तरे ॥ ५३० ॥
4.530 · p. 92
अनुष्टुप्
दक्षिणापथदेशस्थे अथ स्यात् कुन्तलः पुमान् ।तस्य राजनि तस्यापि स्युरपत्येषु भूम्नि च ॥ ५३१ ॥
4.531 · p. 92
अनुष्टुप्
बहुष्वथ स्त्र्यपत्ये तु कुन्तली स्त्री पुमान् पुनः ।केशेऽथ रभसः प्राह कालेऽपि बहुशब्दवित् ॥ ५३२ ॥
4.532 · p. 93
अनुष्टुप्
अथ स्यात् कुटली गात्रकृत्यृषौ पुंसि नप् पुनः ।विद्यादाभरणेऽथ त्रिः कुटिलं कुञ्चिते भवेत् ॥ ५३३ ॥
4.533 · p. 93
अनुष्टुप्
तगरे तु क्ली तगरपादिकायां स्त्रियामिति ।रभसेनोदिताथास्त्री कुड्मलो मुकुलेऽथ नप् ॥ ५३४ ॥
4.534 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्ली (wrong syllable)
विद्यादासनभेदेऽस्य लक्षणं च प्रचक्षते ।वैजयन्त्यां यथा प्रोक्तमासीनस्यासनेष्वदः ॥ ५३५ ॥
4.535 · p. 93
अनुष्टुप्
नागदन्तकमूर्ध्वज्ञोर्जानुस्थौ प्रसृतौ भुजौ ।सूचीमुखमिदं पाणितलौ चेत् सहतौ मिथः ॥ ५३६ ॥
4.536 · p. 93
अनुष्टुप्
अर्धसूची तु तौ द्वौ चेत् प्रादेशान्तरितौ मुखात् ।कुड्मलं मुकुलीभूतौ तौ चेदूर्ध्वमुखौ स्थितौ ॥ ५३७ ॥
4.537 · p. 93
अनुष्टुप्
इत्येव योगशास्त्राणि समीक्ष्य कृतिनोदितम् ।कुमुलं कुसुमे क्लीबं हिरण्ये च द्वयोः पुनः ॥ ५३८ ॥
4.538 · p. 93
अनुष्टुप्
शिशौ त्रिषु पुनः कान्ते कुरुलस्तु पुमानयम् ।अलके स्त्री तु कुरुली लक्षवेधे धनुष्मताम् ॥ ५३९ ॥
4.539 · p. 93
अनुष्टुप्
कुरुमस्तु द्वयोः कारौ भाजने तु पुमानयम् ।अथ क्ली कुषितं पाते निष्कृष्टे त्वभिधेयवत् ॥ ५४० ॥
4.540 · p. 93
अनुष्टुप्
कुत्सितं स्यात् पर्युषिते त्रिष्वृणे तु नपुंसकम् ।कुसीदं त्वृणवृद्धौ क्ली कश्चित् तु विवृणोति तत् ॥ ५४१ ॥
4.541 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
ऋणवृद्द्ध्या जीविकायां भेद्यवत् त्वलसे तथा ।वृद्धिजीविनि पुंयोगात् पुनर्वृत्तिः स्त्रियां यदा ॥ ५४२ ॥
4.542 · p. 93
अनुष्टुप्
तदा स्त्रियां कुसीदायी कुटीरस्तु पुमानयम् ।क्षुद्रागारे कर्कटे तु द्वे कुम्भीरस्त्वयं द्वयोः ॥ ५४३ ॥
4.543 · p. 94
अनुष्टुप्
नक्रे चोरे पुन(स्त्री?स्त्रि) स्यात् कुम्मीलस्तु पुमानयम् ।स्यालाख्यमत्स्ये त्रिषु तु श्लोकच्छायादिहारिणि ॥ ५४४ ॥
4.544 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चोरे च कुन्दुमस्तु स्यात् पुमान् पुञ्जे द्वयोः पुनः ।मार्जारे कुहिनी तु स्त्री शम्भल्यां कुट्टना पुनः ॥ ५४५ ॥
4.545 · p. 94
अनुष्टुप्
छेदने कुत्सने चापि न ना स्यात् कुनटी पुनः ।स्त्रियां मनःशिलायां स्यात् कुत्सिते तु नटे द्वयोः ॥ ५४६ ॥
4.546 · p. 94
अनुष्टुप्
कुशिकस्तु क्रोष्टरि द्वे स्यादुलूकेऽप्यथो नपि ।क्षुद्रकं फाणिताभिख्ये विकारे स्याद्गुडस्य हि ॥ ५४७ ॥
4.547 · p. 94
अनुष्टुप्
तथैव कुप्यलवणसंज्ञे स्याल्लवणान्तरे ।द्वे तु क्षत्रियभेदे स्यात् क्षुरप्रस्तु पुमानयम् ॥ ५४८ ॥
4.548 · p. 94
अनुष्टुप्
अर्धचन्द्राख्यशस्त्रे स्यात् कश्चित् त्वश्वान्तरेऽभ्यधात् ।कुञ्चिका त्वङ्कुटाभिख्य कपाटोघाटयन्त्रके ॥ ५४९ ॥
4.549 · p. 94
अनुष्टुप्
तूलीसूचिकयोश्चाह रभसो भीरुभीषणे ।साधने कुञ्चितरि तु त्रिरथो कुञ्जरा स्त्रियाम् ॥ ५५० ॥
4.550 · p. 94
अनुष्टुप्
पाटलायां च धातक्यां द्वे तु हस्तिन्यथ स्त्रियाम् ।काञ्चनद्रौ गुलूच्यां च कुण्डली क्ली तु पाशके ॥ ५५१ ॥
4.551 · p. 94
अनुष्टुप्
अस्त्री तु कर्णवेष्टे स्यात् त्रिलिङ्ग्यां च परोऽवदत् ।कुद्दालस्तु पुमान् गोदारणाख्ये खानसाधने ॥ ५५२ ॥
4.552 · p. 94
अनुष्टुप्
कीबं तु वैजयन्त्याह कोविदारद्रुमे तु ना ।क्लीबं तु प्रसवे तस्य कुटेरस्त्वभिधेयवत् ॥ ५५३ ॥
4.553 · p. 95
अनुष्टुप्
अपेतसारे स्तम्बे तु ना कठिञ्जरसंज्ञके ।कुरण्डो द्वे झषे ना तु वृद्धिसंज्ञे रुजान्तरे ॥ ५५४ ॥
4.554 · p. 95
अनुष्टुप्
मुष्कवृद्ध्यात्मके स्तम्बप्रभेदे त्वाह यादवः ।किङ्किराताह्वयेऽग्नौ तु कुफाकुर्ना द्वयोः पुनः ॥ ५५५ ॥
4.555 · p. 95
अनुष्टुप्
मर्कटे ना तु कुतनुर्धनदे त्रि तु कुत्सिता ।ननुर्यस्य भवेत् तत्र कुटरस्तु द्रुमान्तरे ॥ ५५६ ॥
4.556 · p. 95
अनुष्टुप्
वर्धकौ च द्वयोस्तु स्याच्छकुनौ भेद्यवत् पुनः ।कुमुद्वान् कुमुदप्रायदेशे स्त्री तु कुमुद्वती ॥ ५५७ ॥
4.557 · p. 95
अनुष्टुप्
कुमुदस्य भवेत् स्तम्बे कुण्डली तु द्वयोरयम् ।मयूरे चित्रलमृगे तथैव स्याद्भुजङ्गमे ॥ ५५८ ॥
4.558 · p. 95
अनुष्टुप्
पुमांस्तु वरुणे प्रोक्तस्त्रि तु कुण्डलवत्यसौ ।कृषीवले कुडुम्बी द्वे कुडुम्बवति तु त्रिषु ॥ ५५९ ॥
4.559 · p. 95
अनुष्टुप्
कूश्माण्डस्तु पुमान् विघ्नराजस्य प्रियभृत्यके ।गणभेदे शालिजातिभेदे स्त्रीपुंसयोः पुनः ॥ ५६० ॥
4.560 · p. 95
अनुष्टुप्
फलवल्लीविशेषे स्यात् कूश्माण्डी क्ली तु तत्फले ।'अवतेऽहेड' इत्यादिष्वृग्विशेषेषु नप्स्त्रियोः ॥ ५६१ ॥
4.561 · p. 95
अनुष्टुप्
कूबरस्त्वस्त्रियां गन्त्रीसमाख्ये स्याद्रथान्तरे ।युगन्धराख्ये तु रथावयवे स्यान्नृलिङ्गकः ॥ ५६२ ॥
4.562 · p. 95
अनुष्टुप्
वीणावशशलाकायां कणिका स्त्री त्रिषु त्वसौ ।ज्ञेया कृणयितर्याहुः पुनः कृन्तत्र इत्यदः ॥ ५६३ ॥
4.563 · p. 95
अनुष्टुप्
अन्तरिक्षे लाङ्गलाग्रे लाङ्गले चापरे विदुः ।सुवर्णस्याभिघातार्थसाधने मशके पुनः ॥ ५६४ ॥
4.564 · p. 95
अनुष्टुप्
कृन्तत्रो द्वे कृत्रिमस्तु वृकधूपाह्वये पुमान् ।तुरुष्काख्ये च निर्यासे लवणे च विडाह्वये ॥ ५६५ ॥
4.565 · p. 96
अनुष्टुप्
क्ली तु कांस्याह्वये लोहभेदे स्याद्भेद्यवत् पुनः ।ज्ञेयः स्यात् कृतिनिर्वृत्ते कृसरस्तु पुमान् द्रुमे ॥ ५६६ ॥
4.566 · p. 96
अनुष्टुप्
इङ्गुदाख्ये मिश्रवर्णभेदे च त्रिस्तु तद्वति ।कशेरुसंज्ञे तु जलस्तम्बभेदे नपुंसकम् ॥ ५६७ ॥
4.567 · p. 96
अनुष्टुप्
तिलतण्डुलमाषैस्तु कृतायां कृसरा त्रयी ।य्वागुल्यां स्यात् कृतज्ञस्तु शुनि द्वे भेद्यवत् पुनः ॥ ५६८ ॥
4.568 · p. 96
अनुष्टुप्
उपकारं विजानाति यस्तत्राथ कृपाणवाक् ।खड्गे ना छुरिकायां तु स्त्री कृपाण्यथ यादवः ॥ ५६९ ॥
4.569 · p. 96
अनुष्टुप्
आह सौनिकशस्त्रे ताः कर्तनीसंज्ञकेऽथ ना ।कृन्तरः स्याद्वृक्षभेदे मक्षिकाकार्य एव च ॥ ५७० ॥
4.570 · p. 96
अनुष्टुप्
आलोचने तु त्रिर्ना तु कृदरः खदिरे सिते ।केचित्तु हिंस्रे त्रिष्वाहुः कृषकस्तु पुमानयम् ॥ ५७१ ॥
4.571 · p. 96
अनुष्टुप्
कूटसंज्ञे लागलाङ्गे भेद्यवत् तु कृषीवले ।कृषिकस्तृणजातौ ना लाङ्गले तु नपुंसकम् ॥ ५७२ ॥
4.572 · p. 96
अनुष्टुप्
केसरस्त्वस्त्रियां पुष्पकिञ्जल्केऽप्यश्वसिंहयोः ।सटे स्यान्मातुलुङ्गाख्यफलस्यान्तर्द्रवास्पदे ॥ ५७३ ॥
4.573 · p. 96
अनुष्टुप्
सूक्ष्मकोशे पुमांन्तु स्याद् बकुले नागकेसरे ।पुन्नागे वेङ्कटाख्ये च पर्वते केसरा पुनः ॥ ५७४ ॥
4.574 · p. 96
अनुष्टुप्
कार्पास्यां स्यात् स्त्रियां क्ली तु प्रसवेऽत्रोक्तभूरुहाम् ।हिङ्गुन्यपि पठत्येतद् रभसः शब्दवित्तमः ॥ ५७५ ॥
4.575 · p. 96
अनुष्टुप्
केरलास्तु नृभूम्नि स्युर्दक्षिणापथवर्तिनि ।नीवृद्भेदेऽथ तद्देशसम्भूतेषु नृषु द्वयोः ॥ ५७६ ॥
4.576 · p. 97
अनुष्टुप्
तद्राजे तु पुमाञ्ज्ञेयः केरलः स्त्री तु केरली ।तद्राजन्यस्त्र्यपत्ये स्यात् तथा स्याद्भेषजान्तरे ॥ ५७७ ॥
4.577 · p. 97
अनुष्टुप्
केशवस्तु पुमान् विष्णौ पुन्नागे त्रि तु कशिनि ।केवलस्तु निरेकाकिकृत्स्नयोरवधारिते ॥ ५७८ ॥
4.578 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 क (wrong syllable)
ज्ञाने तु पूर्णे क्लीबं स्यात् केचिदन्येऽवधारणे ।निर्णीते त्वपरेऽथ स्यात् क्षेत्रज्ञो निपुणे त्रिषु ॥ ५७९ ॥
4.579 · p. 97
अनुष्टुप्
क्षेत्रस्य विज्ञातरि च ना त्वात्मन्यथ सा स्त्रियाम् ।क्षेत्रिया क्षुद्रधान्ये स्याद् गवीथुरिनि विश्रुते ॥ ५८० ॥
4.580 · p. 97
अनुष्टुप्
त्रिस्तु स्याद्दुष्प्रतीकारव्याध्यादौ धान्यवप्रजे ।निराकार्यतृणे पारदारिके यत् पुनर्विषम् ॥ ५८१ ॥
4.581 · p. 97
अनुष्टुप्
देहान्तरे सङ्क्रमय्य चिकित्स्य तत्र ना पुनः ।क्षेत्रिकः स्यात् तुरुष्काख्यनिर्यासे क्षेत्रिणि त्रिषु ॥ ५८२ ॥
4.582 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्स्य (wrong syllable)
क्षेपणं तु नपि क्षिप्ते पुन्नपुंसकयोः पुनः ।पादाङ्गुष्ठाङ्गुलीमध्ये नौदण्डे क्षेपणी स्त्रियाम् ॥ ५८३ ॥
4.583 · p. 97
अनुष्टुप्
क्लेशकस्तु यमे नाथः क्लेष्टरि क्लेशितर्यपि ।तथा क्लेशयितर्येनं भेद्यलिङ्गं प्रचक्षते ॥ ५८४ ॥
4.584 · p. 97
अनुष्टुप्
केदारस्त्वस्त्रियां क्षेत्रे शालिक्षेत्रे तु केचन ।पुण्यस्थानविशेषे च रभसस्त्वालवालके ॥ ५८५ ॥
4.585 · p. 97
अनुष्टुप्
केसरी तु पुमान् सिंहे मातुलुङ्गे तुरङ्गमे ।पुन्नागे चाप्ययोः भेद्यलिङ्गः केसरवत्यसौ ॥ ५८६ ॥
4.586 · p. 97
अनुष्टुप्
कैडर्यस्तु पुमान्निम्बे कट्फलाख्ये च पादपे ।मदनाख्यद्रुमेऽथैषां त्रयाणां प्रसवे नपि ॥ ५८७ ॥
4.587 · p. 98
अनुष्टुप्
कैटभस्त्वसुरे पुंसि कस्मिंश्चित् स्त्री तु कैटभी ।दुर्गादेव्यां कैशिकं तु क्ली केशनिकुरुम्बके ॥ ५८८ ॥
4.588 · p. 98
अनुष्टुप्
कैशिकी तु स्त्रियां वृत्तिविशेषे नृत्तकारिणाम् ।कैतवं तु च्छले क्लीबं घृते चाथ निबोधत ॥ ५८९ ॥
4.589 · p. 98
अनुष्टुप्
भेद्यलिङ्गं तु कितवसम्बन्धिनि मनीषिणः ।कैराती तु स्त्रियामूर्ध्वाधोगतौ क्षिप्तपत्त्रिणः ॥ ५९० ॥
4.590 · p. 98
अनुष्टुप्
किरातसम्बन्धिनि तु कैरातं त्रिरथ द्वयोः ।कोकिलः पक्षिभेदे स्यान्ना तु तूलेऽथ कोटिका ॥ ५९१ ॥
4.591 · p. 98
अनुष्टुप्
स्त्री मण्डूके श्वेतमुखे कृष्णे त्रि कुटितर्यसौ ।क्रोधनो द्वे शुनि त्रिस्तु क्रोधशीले नपि क्रुधि ॥ ५९२ ॥
4.592 · p. 98
अनुष्टुप्
कोहली तु स्त्रियां ज्ञेया कूश्माण्डाख्यलतान्तरे ।भृशं मुखरकन्यायां कूश्माण्डप्रसवे तु नप् ॥ ५९३ ॥
4.593 · p. 98
अनुष्टुप्
आवेशभाजि तु गृहसारमेये द्वयोस्तथा ।मर्त्यजात्यन्तरेऽम्बष्ठ्यां वैश्याज्जातेऽथ कोमलम् ॥ ५९४ ॥
4.594 · p. 98
अनुष्टुप्
क्लीबं जले पुमान् स्वर्गे मृदुनि त्वेष भेद्यवत् ।कोणिका तु स्त्रियां नीडे कोणितर्येष भेद्यवत् ॥ ५९५ ॥
4.595 · p. 98
अनुष्टुप्
कोरकस्त्वस्त्रियां पुष्पकलिकायां त्रिषु त्वयम् ।शब्दकारिण्यथ क्लीबं कोलकं मरिचे तथा ॥ ५९६ ॥
4.596 · p. 98
अनुष्टुप्
कक्कोले च स्त्रियां तु स्यात् कोलिका मूषिकाकृतौ ।द्रुतद्रुमारोहशीले प्राणिभेदे द्वयोः पुनः ॥ ५९७ ॥
4.597 · p. 98
अनुष्टुप्
निर्विषाहिप्रभेदेऽथ कोदृङ्गः स्याद्द्वयोरयम् ।मृगे जन्तुधराभिख्ये क्षुद्रे पुंसि तु वेश्मनः ॥ ५९८ ॥
4.598 · p. 99
अनुष्टुप्
इन्द्रकोशाख्यावयवे कोशिका तु स्त्रियामियम् ।दीपाधारे मल्लिकाख्ये गिरिभेदे तु कोशकः ॥ ५९९ ॥
4.599 · p. 99
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ख्या (wrong syllable)
पुमानथ स्युः पुंभूम्नि कोसला नीवृदन्तरे ।मध्यदेशस्थिते सर्ववचने त्वृषिभेदके ॥ ६०० ॥
4.600 · p. 99
अनुष्टुप्