क्षुद्ररोग
kṣudrarogaIn 2 kośas: 0 synonym verses, 7 as a meaning of another word.
क्षुद्ररोग as a meaning in nānārtha verses
- धरणिकोश नीलिका[8] वालुका सिकता प्रोक्ता वालुकं चैलवालुकम् । नीलिका क्षुद्ररोगः स्यान्नीली शेफालिकापि च ॥ Dharaṇikośa 1.2.45
- धरणिकोश गर्दभीगर्दभी क्षुद्ररोगे स्याद्गर्दभः कैरवे खरे । ककुभोऽर्जुनवृक्षेऽपि वीणाङ्गरागभेदयोः । करभो मणिबन्धादिकनिष्ठान्ते तथोष्ट्रके ॥ Dharaṇikośa 23.2.7
- धरणिकोश कदरअपरं तु परार्थं स्यात्पश्चाद्गात्रे च दन्तिनाम् । कदरः क्षुद्ररोगे स्यात्कदरः खदिरे सिते ॥ Dharaṇikośa 26.2.31
- शब्दरत्नावली नीलिकानीलिका स्यात् क्षुद्ररोगनिलीशेफालिकासु च । प्रसेकः स्यात् च्युतौ सेके पराको व्रतखड्गयोः ॥ Śabdaratnāvalī 7.1.96
- शब्दरत्नावली विवृताविवृता क्षुद्ररोगे स्याद् वाच्यलिङ्गन्तु विस्तृते । विनेता देष्टृनृपयोर्विधाता कामवेधसोः ॥ Śabdaratnāvalī 7.16.137
- शब्दरत्नावली कच्छपीकच्छपीवल्लकीभेदक्षुद्ररोगडुलीष्वपि । कलापो भूषणे तूणे काञ्च्यां बर्हे च संहतौ ॥ कशिपु क्लीबमेकोक्त्या मिलिते चान्नवाससी । पृथक्कृतेऽन्ने वस्त्रे च कशिपुः पुंसि दृश्यते ॥ Śabdaratnāvalī 7.21.16
- शब्दरत्नावली गर्दभीगर्दभं शुक्लकुमुदे खरगन्धभिदोः पुमान् । गर्दभी क्षुद्ररोगे च स्त्रियां जन्तुविशेषके ॥ दुर्लभस्त्रिषु दुष्प्रापे कर्चुरादिप्रशस्तयोः । दुन्दुभिर्वरुणे दैत्ये स्त्र्यक्षे बिन्दुत्रिके द्वयोः ॥ भेर्याञ्च वाद्यभेदे स्याद्रक्षोभेदे तु पुंस्ययम् । निकुम्भो दन्तिकौषध्यां कुम्भकर्णसुतेऽपि च ॥ Śabdaratnāvalī 7.24.12