कच्छपी
kacchapīस्त्री · fem.In 13 kośas: 14 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.
genderस्त्रीfem.
कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः ।पञ्चाङ्गगुप्तदौलेयौ जीवथः कच्छपी दुली ॥ १३५३ ॥
अनुष्टुप्
genderस्त्रीfem.
शिवस्य वीणा कोलम्बी सरस्वत्यास्तु कच्छपी ।महती नारदस्येशगणानां तु प्रभावती ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
सरस्वत्याः कच्छपी सा महती नारदस्य च ।प्रभावती गणानां स्यात्तुम्बरोस्तु कलावती ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
कमको(ठो?)ऽस्त्री कच्छपः स्याद्धालाङ्गो नरि जीवयः (?) ।दुलिर्दुली कच्छपी च कर्कटी माघमा भवेत् ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
तस्याङ्गना तु गीर्देवी शीर्षद्वारनिवासिनी ।विशदा नीलचिकुरा वीणा तस्यास्तु कच्छपी ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
भारत्याः कच्छपी वीणानालम्बी शंकरस्य च ।प्रभावती गणानां स्यात्तुम्बरोश्च कलावती ॥ २०० ॥
अनुष्टुप्
genderस्त्रीfem.
वल्लकी चाथ तन्त्रीभिः सप्तभिः परिवादिनी ।अनालम्बी शिवस्य स्यात् सरस्वत्याश्च कच्छपी ॥ ४१७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां तु कच्छपी ज्ञेया कमठी च डुली दुली ॥ २४५७ ॥
अनुष्टुप्
genderस्त्रीfem.
क्रुञ्ची च कच्छपी वीणा वीणा तुम्बुरुनारदी ।सारस्वती केलिकला रामवीणा बलाञ्चिता ॥
अनुष्टुप्
genderस्त्रीfem.
तन्तुनागश्च नागोऽपि, कर्कटे तु कुलीरवत् ।कुटीरश्च चन्द्राश्रयराशावऽपि च कच्छपी ॥ ३७० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हस्तिकोदुम्बरी चाथ वीणावादस्तु वैणिकः ।महती नारदमुनेर्वीणा वाण्यास्तु कच्छपी ॥ ९३८ ॥
अनुष्टुप्
genderस्त्रीfem.
विश्ववसोस्तु बृहती तुम्बुरोस्तु कलावती ।महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥ १८१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderस्त्रीfem.
विश्वावसोस्तु बृहती तुंबुरोस्तु कलावती ।महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वे कूर्मे निधिभेदे तु पुंसि स्यात् स्त्री तु कच्छपी ।वीणायां स्यात् सरस्वत्या ऋषिभदे तु कश्यपः ॥ ३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
meaningsवीणा
कच्छपीवल्लकीभेदक्षुद्ररोगडुलीष्वपि ।कलापो भूषणे तूणे काञ्च्यां बर्हे च संहतौ ॥कशिपु क्लीबमेकोक्त्या मिलिते चान्नवाससी ।पृथक्कृतेऽन्ने वस्त्रे च कशिपुः पुंसि दृश्यते ॥
अनुष्टुप्
कच्छपी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप द्रुणीदुर्गा द्रुणी तु कच्छप्यां स्त्री मौर्व्यां तु द्रुणाथ नप् । द्रुणं धनुषि दुःखं तु क्ली व्यथायामथ त्रिषु ॥ ६०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.608
- त्रिकाण्डशेष द्रुणीदुर्वर्णं रजकेऽपि स्याद्गुणोलिः कच्छपी द्रुणी । द्युमणौ तरणिः पुंसि कुमारीनौकयोः स्त्रियाम् ॥ १२९ ॥ Trikāṇḍaśeṣa 3.3.129