कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नीलिका

nīlikāस्त्री · fem.

In 14 kośas: 14 synonym verses, 5 as a nānārtha head word, 26 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1167 · p. 45
उत्पलानां तु शालूकं नील्यां शैवालशेवले ।शेवालं शैवलं शेपालं जलाच्छूकनीलिके ॥ ११६७ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.70
शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.683 · p. 78
कुमुद्वती कुमुदिनी बुधैः कैरविणी स्मृता ।शेवालं शैवलं प्रोक्तं जलशूकं च नीलिका ॥ ६८३ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.244 · p. 88
सुगन्धा ग्रैष्मिका ताना मालिका नवमालिका ।शेफालिकायां निर्गुण्डी नीलिका निवहा च सा ॥ २४४ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.63 · p. 13
नीलिकायां तसरिधिर्निष्ठुरं दारुकण्टकम् ।गुरुज्येष्ठं सिह्मलं च पञ्चलोहान्यलोहके ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.512 · p. 306
सिन्दुकच्छपिका भूतकेशी द्रोणी च नीलिका ।निर्गुण्डिरपि निर्गुण्डी द्रोणी ना सिन्दुवारितः ॥ ५१२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.85 · p. 157
निर्गुण्डी द्राणिका चाथ नीलिका नीलमञ्जरी ।शेफालिका च सुवहा निर्गुण्डी वनजा च सा ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.66 · p. 312
नीलिका स्याज्जतुमणिर्भवेत्कोठस्तु मण्डलम् ।वालरोगोऽत्ययः क्षीरालसकं च नपुंसके ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.186 · p. 104
शेफालिकायां सुवहा निर्गुण्डी नीलिका च सा ।सुरसा रक्तवृन्ता च श्वित्रघ्नी पुष्पवर्षिणी ॥ १८६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.138 · p. 67
शेफालिका तु शेफालिर्नीलिका मसिकाऽपि च ।सुवहा रजनीहासा निर्गुण्डी निशिपुष्पिका ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.176 · p. 70
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.494 · p. 65
मातुलुङ्गी च सैवाम्ला पूतिपुष्पी वृकाल्मिका ।तीक्ष्णगन्धेन्द्रसुरससिन्दुवारास्तु नीलिका ॥ ४९४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.542 · p. 70
ऋश्यप्रोक्ताजडाध्यण्डा मर्कटी प्रावृषायणी ।शेफालिका तु निर्गुण्डी नीलिका सुवहा च सा ॥ ५४२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.186 · p. 60
सुगन्धा ग्रैष्मिकाताना मालिका नवमालिका ।शेफालिका तु निर्गुण्डी नीलिका निवहात्र तु ॥ १८६ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.45 · p. 11
[8] वालुका सिकता प्रोक्ता वालुकं चैलवालुकम् ।नीलिका क्षुद्ररोगः स्यान्नीली शेफालिकापि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.14 · p. 151
कारिका विवृतियातनानटी-कारुकर्मसु च वर्णका पटे ।लेखिनीभिदि च नीलिका पुनःसिन्धुवारगदनीलिनीष्वपि ॥ १४ ॥
रथोद्धता
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1044 · p. 138
नीलिका तु स्त्रियां नीलीसंज्ञायामोषधौ स्मृता ।स्याच्च सिंहमलाभिख्यलोहभेदेऽथ भेद्यवत् ॥ १०४४ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.32 · p. 4
नलिका नाडिका शाके निर्मध्यायां च नीलिका ।जलनीली युग्मफलाशेफालीनीलिनीषु च ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यु (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.96 · p. 182
नीलिका स्यात् क्षुद्ररोगनिलीशेफालिकासु च ।प्रसेकः स्यात् च्युतौ सेके पराको व्रतखड्गयोः ॥
अनुष्टुप्

नीलिका as a meaning in nānārtha verses

  • धरणिकोश ग्रामीणाप्रवेणी च कुथावेण्योः करेणू हस्तिनीगजौ । ब्राह्मणी ब्रह्मयष्टिश्च ग्रामीणा नीलिकापि च ॥ Dharaṇikośa 14.1.9
  • धरणिकोश रजनीरजनी नीलिका रात्रि… । धमनी च शिरा प्रोक्ता तथा हट्टविलासिनी ॥ Dharaṇikośa 19.2.21
  • धरणिकोश श्रीफलीश्रीफलो वृक्षभेदे स्याच्छ्रीफली नीलिका स्मृता । मातुलः स्यापितृश्याले धूस्तूरे मातुलो मतः ॥ Dharaṇikośa 27.2.38
  • कोषकल्पतरु स्यमिकाधूर्ताद्रिद्रुप्रभेदेषु शरभे च नृलिङ्गका । स्यमिका स्यान्नीलिकायां नाकुपादपयोर्नरि ॥ २३ ॥ Koṣakalpataru 6.1.23
  • कोषकल्पतरु दुर्गाखड्गस्तु बुद्धासिषु खड्गिशृङ्गे स्याद्गण्डकेऽथ त्रिषु दुर्गमे स्यात् । दुर्गः शिवानीलिकयोः स्त्रियां स्या- च्चापेऽपि शार्ङ्गं समुदीरयन्ति ॥ ६ ॥ Koṣakalpataru 6.3.6
  • कोषकल्पतरु ग्रामीणस्यान्नीलिकायां स्त्रीलिङ्गे ग्रामीणा ***** । ग्रामीण उक्तः शुनि वायसे च ग्रामोद्भवे तु त्रिषु पक्षिणी तु । स्याच्छाकिनी पक्षिवधूषु पौर्ण- मासीभवद्भाविदिनस्थरात्र्योः ॥ ४९ ॥ Koṣakalpataru 6.15.49
  • कोषकल्पतरु दोलाभवेत्तथा चामरदण्डकेऽर्थे दोला तु यानान्तरनीलिकार्था । मेला मसौ मेलकवाचिका स्या- दिला तु भूवाग्बुधदारगोषु ॥ ८० ॥ Koṣakalpataru 6.28.80
  • कोषकल्पतरु श्रीफलस्याच्छ्रीफलो बिल्वतरौ स्त्रियां तु स्यादामलक्यामपि नीलिकायाम् । स्यात्पातली स्त्रीभिदि वागुरायां मृत्पात्रभेदेऽपि तथा प्रदिष्टा ॥ ६० ॥ Koṣakalpataru 6.28.60
  • कोषकल्पतरु पिङ्गाशास्त्री नीलिकायां चरमे सुहेम्नि पलाश उक्तो रजनीचरेऽपि । शट्यां त्रिपर्णे हरितेऽन्तिमे तु पर्णे निवेशः शिबिरे विवाहे ॥ २० ॥ Koṣakalpataru 6.30.20
  • कोषकल्पतरु पुक्कसवाते तथात्मन्यतसः स्त्रियां तु क्षुमाभिधायामवसोऽर्कराज्ञोः । अम्भोनिधौ स्यान्नभसोऽब्दकाले क्लीबेऽन्तरिक्षेऽप्यथ पुक्कसः स्यात् । चण्डालके च श्वपचे स्त्रियां तु स्यान्नीलिकायामपि कालिकायाम् । वनीयके स्याल्लभसो धनेऽन्त्ये- ऽर्वदोरके स्त्री पनसो[88b]द्रुभेदे ॥ ८७ ॥ Koṣakalpataru 6.31.87
  • नानार्थार्णवसंक्षेप ज्येष्ठत्रपुह्रीबेरयोस्तु क्ली स्याल्लोहे नीलिकाह्वये । अपि द्वयोस्तु हंसेऽथ ज्येष्ठा स्त्री शम्भुशक्तिषु ॥ ४८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.489
  • नानार्थार्णवसंक्षेप अत्यूहाअत्यूहो गजमेढ्रे ना नि त्वत्यर्थोहकादिषु । अत्यूहा नीलिकायां स्त्री नीलकण्ठखगे द्वयोः ॥ १३८ ॥ Nānārthārṇavasaṃkṣepa 4.138
  • नानार्थार्णवसंक्षेप ग्रामीणाग्रामीणा नीलिकानाम्न्यामोषधौ स्त्र्यथ भेद्यवत् । ग्राम्ये स्त्रियां तु गायत्री खदिराख्यद्रुमे स्त्रियाम् ॥ ६७२ ॥ Nānārthārṇavasaṃkṣepa 4.672
  • नानार्थार्णवसंक्षेप सरटीयमकस्य प्रभेदे च सरटस्तु द्वयोरयम् । कृकलासे स्त्रियां तु स्यात् सरटी नीलिकाह्वये ॥ १९०३ ॥ Nānārthārṇavasaṃkṣepa 4.1903
  • नानार्थार्णवसंक्षेप सिंहमलअत्रापि पूर्ववत् साद्यमथो सिंहमलं नपि । नीलिकासंज्ञलोहे स्यात् समासादीनि पूर्ववत् ॥ ६७२ ॥ Nānārthārṇavasaṃkṣepa 6.672
  • शिवकोष नटीत्रुटिरेलाकट्फलयोर्नटस्तु नटमण्डने । नडेऽशोके नटं वन्ये नलीनीलिकयोर्नटी ॥ १२० ॥ Śivakoṣa 8.1.120
  • शिवकोष क्लीतनाक्लीतना सिंहपुच्छ्यां च नीलिकायां च गृञ्जनः । पलाण्डुभेदे लसुने मधुशिग्रौ च पीनसि ॥ २५० ॥ Śivakoṣa 16.1.250
  • शिवकोष वाणिनीपूतना तु शिवामांस्योः फलिनी हलिनी स्त्रियोः । वाणिनी रजनीदार्वीमञ्जिष्टानीलिकासु च ॥ २५९ ॥ Śivakoṣa 16.1.259
  • शिवकोष श्रीफलीशैलजे च पुमान्हेमपुष्पे मरिचपत्रके । श्रीफली नीलिकाधात्र्योर्ना बिल्वे चिक्कणे द्वयोः ॥ ४७६ ॥ Śivakoṣa 23.2.476
  • शब्दरत्नावली स्यमीकसम्पाकः तर्कके धृष्टे त्रिषु ना चतुरङ्गुले । स्यमीका नीलिकायाञ्च पुमान् वल्मीकवृक्षयोः ॥ Śabdaratnāvalī 7.1.148
  • शब्दरत्नावली नलिनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली श्यामनीलिकायां त्रियामायां यमुनायाञ्चवागुजौ । प्रियङ्गौ त्रिवृतौषध्यामप्रसूताङ्गनासु च ॥ Śabdaratnāvalī 7.25.24
  • शब्दरत्नावली कालाकालः कृष्णे च समयमहाकालयमेषु च । काला तु कृष्णात्रिवृतामञ्जिष्ठानीलिकासु च ॥ Śabdaratnāvalī 7.28.6
  • शब्दरत्नावली श्रीफलशाल्मली तरुभेदे स्याद् द्वीपभेदे च पुंस्ययम् । श्रीफलः पुंसि बिल्वे स्याद्धात्रीनीलिकयोः स्त्रियाम् ॥ शीतलं चन्दने शैत्ये शैलजे ना द्रुमान्तरे । शीवलं शैवले क्लीबं शैलेयेऽपि निगद्यते ॥ Śabdaratnāvalī 7.28.97
  • शब्दरत्नावली पिङ्गाशिन्पिङ्गाशी नीलिकायां स्त्री पुंसि स्याज्जात्यकाञ्चने । पल्लीपतौ मत्स्यभेदे सर्पे च राक्षसान्तरे ॥ Śabdaratnāvalī 7.30.21
  • शब्दरत्नावली प्रत्यूहप्रत्यूहा नीलिकायां ना कालकण्ठे विहङ्गमे । आग्रहो ग्रहणे शक्तौ क्रमणेऽनुग्रहेऽपि च ॥ Śabdaratnāvalī 7.33.16