All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
रान्ताः · रार्धश्लोकः
॥ रार्धश्लोकः ॥
अरमङ्गे रथाङ्गस्य शीघ्रं स्याच्छीघ्रगोऽप्यरम् ।करो राजप्रदो यः स्याद्रश्मौ हस्ते घनोपले ॥
26.2.1 · p. 165
अनुष्टुप्
परोऽभ्यासे रिपौ श्रेष्ठे दूरेऽथ केवले परम् ।धरा भूभिर्धराः शैलाः कर्पासतूलको धरः ॥
26.2.2 · p. 165
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable); pāda 4, syllable 3 स (wrong syllable)
तरिः स्यान्नावि भाण्डे च दीपादिस्थितिहेतुके ।स्थिरा भूः सालपर्णी च स्थिरौ कठिननिश्चलौ ॥
26.2.3 · p. 165
अनुष्टुप्
चरो द्यूतप्रभेदे स्याश्चरश्चारश्चरः क्रिया ।गरं विषे गरो व्याधौ गरा गिरणमुच्यते ॥
26.2.4 · p. 166
अनुष्टुप्
क्षुरश्छेदनवस्तु स्यात्कोकिलाक्षे च गोक्षुरे ।खुरोऽप्यर्गवादीनां खट्वादीनां च पादुका ॥
26.2.5 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वारि स्याद्वालके तोये वारिस्तु गजबन्धिनी ।कारा बन्धे तदागारे कारो निश्चयहिंसयोः ॥
26.2.6 · p. 166
अनुष्टुप्
भारः स्वर्णपलानां तु द्विसहस्रे च वीवधे ।[79] सारो मज्ज्नि बले व्याधौ सारं न्याय्ये जले धने ॥
26.2.7 · p. 166
अनुष्टुप्
चारः पियालवृक्षे स्याच्चारोऽपसर्पबन्धयोः ।क्षारः स्याल्लवणद्रव्ये चूर्णादौ काचभस्मनोः ॥
26.2.8 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
मारौ मरणकन्दर्पौ मारी चण्ड्यां जनक्षये ।भीरुः स्त्री कातरो भीरुर्भीरुश्चापि ? शतावरी ॥
26.2.9 · p. 166
अनुष्टुप्
पारी घण्टा तथा पारं पर्यन्ते च परे तटे ।गौरोऽरुणे सिते पीते गौरी कन्या शिवापि च ॥
26.2.10 · p. 167
अनुष्टुप्
पौराः पुरभवा लोकाः पौरं कत्तृणमुच्यते ।कीरा जनपदाः केऽपि कीराः शुकाख्यपक्षिणः ॥
26.2.11 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शु (wrong syllable)
चीरं च व्रतिनां वस्त्रं चीरमापीडरेखयोः ।क्रूरं भयंकरं ज्ञेयं क्रूरौ कठिननिर्दयौ ॥
26.2.12 · p. 167
अनुष्टुप्
चन्द्रो हेम्नि च कर्पूरे चन्द्रः सोमे तथा विधौ ।गुन्द्रः शरे तु गुन्द्रा तु प्रियङ्गौ मुस्तकेऽपि च ॥
26.2.13 · p. 167
अनुष्टुप्
इन्द्रः शक्रे च योगे च कुटजादित्यरात्रिषु ।वक्रः शनैश्चरो ज्ञेयो वक्रमनृजुदुष्टयोः ॥
26.2.14 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 क्र (wrong syllable)
ओड्रा जनपदाः केचिदोड्रं च कुसुमान्तरम् ।कद्रुर्माता तु नागानां कद्रुः कनकपिङ्गले ॥
26.2.15 · p. 167
अनुष्टुप्
रौद्रो यमे आतपे च रौद्रं नाट्ये रसान्तरम् ।क्षेत्रं वपुषि केदारे सिद्धस्थानकलत्रयोः ॥
26.2.16 · p. 167
अनुष्टुप्
पोत्रं मुखाग्रमुद्दिष्टं सूकरस्य च हलस्य च ।सत्रं यज्ञे सदादाने छादनारण्ययोरपि ॥
26.2.17 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणोः ।चैत्रं मृतकचैत्यं स्याच्चैत्रो मासान्तरेऽपि च ॥
26.2.18 · p. 168
अनुष्टुप्
वक्त्रं मुखे काव्यसन्धिभेदेऽनुष्टुभि च स्मृतम् ।यात्रा तु यापनोपाये गतौ देवार्चनोत्सवे ॥
26.2.19 · p. 168
अनुष्टुप्
छत्रा मधुरिका छत्रं धन्याके चातपत्रके ।वृत्राः पर्वतमेघेन्द्रा वृत्रा ध्वान्तारिदानवाः ॥
26.2.20 · p. 168
अनुष्टुप्
[80] मन्त्रोऽतिगुप्तवादे स्याद्वेददेवविशेषयोः ।धात्री मातोपमाता च वसुधामलकी स्मृता ॥
26.2.21 · p. 168
अनुष्टुप्
वज्रं स्यात्कुलिशे हीरे ग्रहयोगे च काञ्जिके ।उग्रः शूद्रासुतः क्षत्रादुग्रावुत्कर्षमानिनौ ॥
26.2.22 · p. 168
अनुष्टुप्
उष्ट्रः पशुविशेषः स्यादुष्ट्रो बाह्यरथेऽपि यः ।बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ ॥
26.2.23 · p. 169
अनुष्टुप्
वप्रः पितरि केदारे वप्रः प्राकाररोधसोः ।अमरौ देवास्थिसंहारावमरे दूर्वागुडूचिके ॥
26.2.24 · p. 169
अनुष्टुप्metre not read in every line
निकरो निवहे सारे कपर्दानां विनिचये ।सुषिरं विवरे वाद्ये संबन्धे सुषिरा नदी ॥
26.2.25 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
रुधिरः स्यान्महीपुत्रे रुधिरं कुङ्कुमासृजोः ।मकरो जलचरे राशौ निधिभेदे च कीर्तितः ॥
26.2.26 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिशिरं शीतलं विद्यात्सुषीमऋतुभेदयोः ।विवरच्छिद्ररन्ध्रादीनाहुर्दूषणगर्तयोः ॥
26.2.27 · p. 169
अनुष्टुप्
प्रदरो योषितां रोगः प्रदरः शरभङ्गयोः ।अधरावोष्ठहीनौ तु अनूर्ध्वमधरं विदुः ॥
26.2.28 · p. 169
अनुष्टुप्
चिकुरो द्रुमभेदे स्याच्चिकुरौ केशचञ्चलौ ।प्रखरोऽश्वादिसंनाहे प्रखरः स्याद्भृशं खरः ॥
26.2.29 · p. 170
अनुष्टुप्
खपुरं क्रमुकं प्राहुर्लसकं चोर्ध्वसंप्लवम् ।विदुरो ज्ञानयुक्ते स्यान्मन्त्री दुर्योधनस्य च ॥
26.2.30 · p. 170
अनुष्टुप्
अपरं तु परार्थं स्यात्पश्चाद्गात्रे च दन्तिनाम् ।कदरः क्षुद्ररोगे स्यात्कदरः खदिरे सिते ॥
26.2.31 · p. 170
अनुष्टुप्
चमरं चामरे प्रोक्तं चमर्यौ मञ्जरीमृगौ ।वसिरं सामुद्रलवणं वसिरः करिपिप्पली ॥
26.2.32 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
[81] ईश्वरो विभवे चार्थप्रभौ संभाविते नरे ।विष्टरः कुशमुष्टौ स्यात्पीठपादप्रभेदयोः ॥
26.2.34 · p. 170
अनुष्टुप्
माठरो विप्रभेदे स्याद्व्यासे भास्करपार्श्वगे ।कुञ्जरो द्विरदे केशे कुञ्जरी धातकी मता ॥
26.2.35 · p. 170
अनुष्टुप्
शाङ्करोऽनुडुहि ज्ञेय उक्तं छन्दसि शाङ्करम् ।बन्धुरं सुन्दरे नम्रे बन्धुरं स्याच्चोन्नतानतम् ॥
26.2.36 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तूवरौ नृमृगौ कालेऽजातश्मश्रुशृङ्गकौ ।अम्बरं वाससि व्योम्नि कर्पासेऽथ सुगन्धिके ॥
26.2.37 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गह्वरं विवरे दम्भे गह्वरं विजनं ? विदुः ।जर्जरं तु विशीर्णे स्याज्जर्जरो वासवध्वजः ॥
26.2.38 · p. 171
अनुष्टुप्
घर्घरः पेचके प्रोक्तश्चलद्वारि नदान्तरे ।झर्झरः स्यात्कलियुगे वाद्यभाण्डे च झर्झरः ॥
26.2.39 · p. 171
अनुष्टुप्
पङ्खरः कठिने वास इड्डिपर्णी च मार्जरी ? ।कर्बूरं हेम्नि किर्मीरे कर्बूरस्तु निशाचरः ॥
26.2.40 · p. 171
अनुष्टुप्
अध्वरः सावधाने स्याद्वसुभेदे क्रतौ स्मृतः ।आकरौ श्रेष्ठनिकरावुत्पत्तिस्थानमाकरः ॥
26.2.41 · p. 171
अनुष्टुप्
दर्दुरो वाद्यभाण्डे स्यान्मण्डुके पर्वतान्तरे ।गोपुरं द्वारि पूर्द्वारि कैवर्तीमुस्तकेऽपि च ॥
26.2.42 · p. 172
अनुष्टुप्
कुक्कुरं ग्रन्थिपर्णे स्यात्कुक्कुरः श्वा च कीर्तितः ।दन्तुरं विषमं विद्याद्दन्तुरं चोर्ध्वदन्तके ? ॥
26.2.43 · p. 172
अनुष्टुप्
अङ्कुरः स्यात्पटीकाल ? अङ्कुरोऽभिनवोद्भिदि ।चर्चरः कुटिले प्रोक्तो गीतिभदे च चर्चरी ॥
26.2.44 · p. 172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
गर्गरं मत्स्यभेदे स्याद्गर्गरी दधिमन्थनी ।पिज्जरं हरिताले च पीतेऽप्यश्वान्तरेऽपि च ॥
26.2.45 · p. 172
अनुष्टुप्
उर्वरा सर्वसस्या स्यादुर्वरा भूमिमात्रकम् ।शर्करा कर्परांशेऽपि सितारोगविशेषयोः ॥
26.2.46 · p. 172
अनुष्टुप्
मन्दुरा वाजि[82]शालायां शयनार्थे च वस्तुनि ।वर्वरा कुसुमे शाके वर्वराः प्राकृता जनाः ॥
26.2.47 · p. 172
अनुष्टुप्
शर्वरी तु हरिद्रा स्याच्छर्वरी वनिता निशा ।शर्करी लेखनी ज्ञेया शर्करी छन्दसो भिदि ॥
26.2.48 · p. 173
अनुष्टुप्
मर्मरा दारु हरिद्रा वस्त्रभेदे च मर्मरः ।एकाग्रमेकतानाख्यमेकाग्रं स्यादनाकुलम् ॥
26.2.49 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
खण्डाभ्रं स्यादभ्रलेशे कामिनीदशनक्षतौ ।सावित्रः कथितो रुद्रः सावित्री देवतान्तरम् ॥
26.2.50 · p. 173
अनुष्टुप्
जलेन्द्रो जम्भलो ज्ञेयो जलेन्द्रो वरुणः स्मृतः ।नरेन्द्रो भूपतिः ख्यातो नरेन्द्रश्चाहितुण्डिकः ॥
26.2.51 · p. 173
अनुष्टुप्
किंशारुः सस्यशूकं स्यात्किंशारुर्विशिखो मतः ।उदारो दातृमहतोरुदारं दक्षिणं विदुः ॥
26.2.53 · p. 173
अनुष्टुप्
भृङ्गारः कनकालुः स्याद्भृङ्गारी झिल्लिका मता ।गान्धारोऽपि च सिन्दूरो ग्रामरागविशेषयोः ॥
26.2.54 · p. 174
अनुष्टुप्
निकारः स्यात्परिभवे धान्यस्योत्किरणेऽपि च ।पिण्डारो महिषीपाले पिण्डारश्च द्रुमान्तरे ॥
26.2.56 · p. 174
अनुष्टुप्
आहारो भोजने हारे तथैवाहरणेऽपि च ।आसारः स्यात्प्रसरणे वेगाद्धर्षे सुहृद्बले ॥
26.2.57 · p. 174
अनुष्टुप्
विहारो भ्रमणं क्रीडा विहारः सुगतालयः ।संस्कारोऽनुभवाज्जातः संकल्पप्रतियत्नयोः ॥
26.2.58 · p. 174
अनुष्टुप्
कान्तारः कानने इ[83]क्षौ कान्तारो दुर्गवर्त्मनि ।मन्दारः सुरवृक्षे स्यात्पारिभद्रार्कपर्णयोः ॥
26.2.59 · p. 174
अनुष्टुप्
केदारः क्षेत्रकोष्ठीषु ? केदारौ शिवपर्वतौ ।खर्जुरं रूप्यके विद्याद्वृश्चिकद्रुमभेदयोः ॥
26.2.60 · p. 175
अनुष्टुप्
मालूरं पिचु बिल्वं च क्रीडाबद्धे तथा गुणैः ।मसूरः स्यादपामार्गः खराश्वायां च केकिनि ॥
26.2.61 · p. 175
अनुष्टुप्
मसूरश्च मसूरी च व्रीहौ पापरुजि क्रमात् ।करीरस्तरुभेदः स्यात्कलशे वैणवाङ्कुरे ॥
26.2.62 · p. 175
अनुष्टुप्
काश्मीरं पौष्करं मूलं काश्मीरं कुङ्कुमादिकम् ।सौवीरं काञ्चिके देशे उद्योते चाञ्जनाश्रुणि ? ॥
26.2.63 · p. 175
अनुष्टुप्
अवीरा निष्पतिसुता चावीराः सत्त्ववर्जिताः ।औशीरं चामरे दण्डे चौशीरं शयनासने ॥
26.2.64 · p. 175
अनुष्टुप्
किर्मीरः कर्बुरो ज्ञेयः किर्मीरो राक्षसान्तरम् ।अभिमरो वधे युद्धे सहायसाध्वसेऽपि च ॥
26.2.65 · p. 175
अनुष्टुप्metre not read in every line
व्यतिकरो दुःखहेतौ व्यसनव्यतिषङ्गयोः ।दशपुरं वदन्त्यार्या मुस्तपत्तनभेदयोः ॥
26.2.66 · p. 176
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable); pāda 3, syllable 3 पु (wrong syllable)
आडम्बरः समारम्मे गजगर्जिततूर्ययोः ।दुरोदरं पणे द्यूते द्यूतकारो दुरोदरः ॥
26.2.67 · p. 176
अनुष्टुप्
अरुष्करः स्याद्वणकृद्भल्लातकमरुष्करम् ।अश्वतरो नागराजे गोपुत्रे चापि गर्दमे ॥
26.2.68 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
द्वैमातुरौ समाख्यातौ जरासंधविनायकौ ।प्रतिसरः प्रदेशे स्याद्वार्ताहारसहाययोः ॥
26.2.69 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
चराचरं जगदिदं गगने गतिमत्यपि ।अनुत्तरः स्थिरेऽनूर्ध्वे श्रेष्ठेऽवाच्योऽप्यनुत्तरः ॥
26.2.70 · p. 176
अनुष्टुप्
पयोधरः कोषकारे स्त्रीस्तने वारिदेऽपि च ।दिगम्बराः सामाख्याता नग्नक्षपणशंकराः ॥
26.2.71 · p. 176
अनुष्टुप्
औडुम्बरः श्राद्धदेवे गदमेदे च [84] कीर्तितः ।नीलाम्बरौ समाख्यातौ रौहिणेयशनैश्चरौ ॥
26.2.72 · p. 177
अनुष्टुप्
कालञ्जरो देशभेदे चण्डी कालञ्जरा स्मृता ।इन्दीवरं कुवलयमिन्दीवरी शतावरी ॥
26.2.73 · p. 177
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 व (wrong syllable)
निषद्वरस्तु जम्बालो निशा निषद्वरी मता ।निशाचराः समाख्याता भूतराक्षसपेचकाः ॥
26.2.74 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
पारावारः समुद्रे स्यात्पारावारं तटद्वयम् ।शिशुमारो जलोद्भूतजन्तौ तारामयाच्युते ॥
26.2.75 · p. 177
अनुष्टुप्
परिवारः परिजने खड्गकोषेऽपि जङ्गमे ।अभिहारोऽभियोगे च चौर्ये च खड्गकोषके ॥
26.2.76 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
सूत्रधारः शिल्पिमेदे पात्रे वै नाटकस्य च ।घनसारस्तु कर्पूरे वृक्षभेदे जलेऽपि च ॥
26.2.78 · p. 178
अनुष्टुप्