कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

भान्ताः · भार्धश्लोकः

॥ भार्धश्लोकः ॥

गर्भ भ्रूणे विजानीयाज्जठरार्भकयोरपि ।जम्भो दन्ते च जम्बीरे जम्भो भक्षणदैत्ययोः ॥
23.2.1 · p. 138
अनुष्टुप्
नाभी प्राण्यङ्गराजन्यौ चक्रान्तचक्रवर्तिनौ ।सभा सभ्याः सभा गोष्ठी सभा द्यूतं सभा गृहम् ॥
23.2.2 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
विष्कम्भं स्यात्परिष्टम्भे योगे च चन्द्रसूर्ययोः ।विष्टम्भः प्रतिबन्धे स्याद्विस्तारे च प्रकीर्तितः ॥
23.2.3 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
आरम्भं युद्धमिच्छन्ति चारम्भः समुपक्रमः ।विश्रम्भशब्दमिच्छन्ति विश्वासे प्रणये वधे ॥
23.2.4 · p. 139
अनुष्टुप्
कुसुम्भं कुसुम्भहेम्नोः कुसुम्भस्तु कमण्डलौ ।वैदर्भो राजभेदे स्याद्वैदर्भं वाचि वक्रिमा ॥
23.2.5 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कु (wrong syllable)
दुन्दुभिर्दिति[67]जे भेर्यामक्षबिन्दुत्रिकद्वये ।वर्षाभूर्दर्दुरे ख्यातो वर्षाभूश्च पुनर्नवा ॥
23.2.6 · p. 139
अनुष्टुप्
गर्दभी क्षुद्ररोगे स्याद्गर्दभः कैरवे खरे ।ककुभोऽर्जुनवृक्षेऽपि वीणाङ्गरागभेदयोः ।करभो मणिबन्धादिकनिष्ठान्ते तथोष्ट्रके ॥
23.2.7 · p. 139
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)