All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
कान्ताः · कार्धश्लोकः
॥ कार्धश्लोकः ॥
अथ कान्ताः प्रकथ्यन्ते श्लोकस्यार्धेन संप्रति ।कं वारि[4]णि सुखे शीर्षे कोऽर्कब्रह्मात्मवायुषु ॥
1.2.1 · p. 4
अनुष्टुप्
कं केशे कं च नारीणां करणे च तयोर्गणे ।शुल्कं घट्टे विवाहार्थे जामातुर्गृह्यते च यत् ॥
1.2.2 · p. 5
अनुष्टुप्
कल्कः पापाशये दम्भे कल्कं किल्बिषकिट्टयोः ।शङ्कुः संख्यान्तरे कामे शम्भौ यादोऽस्त्रभेदयोः ॥
1.2.3 · p. 5
अनुष्टुप्
वङ्कः पर्याणभागे स्यान्नदीपात्रे च भङ्गुरे ।टङ्को नीलकपित्थे स्यान्माने पाषाणदारणे ॥
1.2.4 · p. 5
अनुष्टुप्
कङ्को युधिष्ठिरे पक्षिभेदे ब्राह्मणलिङ्गिनि ।कोकश्चक्राह्वये ज्येष्ठ्यां पशुवृक्षविशेषयोः ॥
1.2.5 · p. 5
अनुष्टुप्
छेको विदग्धश्छेकाः स्युर्गृहासक्तमृगाण्डजाः ।अर्कः स्यात्स्फटिके सूर्ये अर्कपर्णे च वासवे ॥
1.2.6 · p. 5
अनुष्टुप्
त्रिकं त्रये त्रिका कूपवक्त्रे पृष्ठाधरे त्रिकम् ।शुको व्याससुते कीरे शुकं स्याद्ग्रन्थिपर्णके ॥
1.2.7 · p. 5
अनुष्टुप्
बकः कह्वे च यक्षेशे पुष्परक्षोविशेषयोः ।राकागतरजाः कन्या पूर्णेन्दुपूर्णिमापि च ॥
1.2.8 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्दु (wrong syllable)
पर्यङ्को मञ्चपल्यङ्कखट्वापर्यस्तिकासु च ।आतङ्को रोगसंतापशङ्कार्थः सद्भिरिष्यते ॥
1.2.9 · p. 6
अनुष्टुप्
त्रिशङ्कुस्तु विताने स्याद्राजभेदः पतङ्गराट् ।करङ्को मस्तके शस्यनारिकेलफलास्थिनि ॥
1.2.10 · p. 6
अनुष्टुप्
शम्बुकः करिकुम्भान्ते दैत्यशुक्तिविशेषयोः ।पिण्याको हिङ्गुवाह्लीके तिलकल्के च सिह्लके ॥
1.2.11 · p. 6
अनुष्टुप्
वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः ।आलोकौ दर्शनद्योता[5]वालोको बन्दिभाषणम् ॥
1.2.12 · p. 6
अनुष्टुप्
निर्मोको मोचने प्रोक्तो निर्मोकः फणिकञ्चुकः ।सम्पाका मरुण्डजना सम्पाकाश्चाल्पलम्पटाः ॥
1.2.13 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
इक्ष्वाकुः कटुतुम्बी स्यादिक्ष्वाकुश्च नृपान्तरे ।उदर्क उत्तरः काल उदर्कः फलमुत्तरम् ॥
1.2.14 · p. 6
अनुष्टुप्
पुलाको भक्तसिक्थे स्यात्संक्षेपे तुच्छधान्यके ।व्यलीकमप्रियाकार्यवैलक्ष्यपीडनेषु च ॥
1.2.16 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष्य (wrong syllable)
तुरुष्कं सिह्लकं प्रोक्तं तुरुष्का म्लेच्छजातयः ।अलर्को योगितः श्वा स्याच्छ्वेतार्कपर्णपादपः ॥
1.2.18 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्क (wrong syllable)
नन्दको हर्षकः प्रोक्तो हरिखड्गे च नन्दकः ।मोचको मुष्कके शिग्रौ मोचकः कदलीदलम् ॥
1.2.19 · p. 7
अनुष्टुप्
स्वस्तिको मङ्गलद्रव्ये मृगपिष्टविशेषयोः ।चारकोऽपि [च] संसारे गव्याश्वादिकसेविनि ॥
1.2.21 · p. 7
अनुष्टुप्
दीपको दीपकारी स्यात्काव्यालंकार एव च ।रूपकं नाटके रूप्ये काव्यालंकरणेऽपि च ॥
1.2.22 · p. 7
अनुष्टुप्
वृश्चिकः शूककीटे स्याद्राशिभेदे [6] द्रुणेऽपि च ।कञ्चुकश्चापि कञ्चुल्यां निर्मोके कवचेऽपि च ॥
1.2.23 · p. 8
अनुष्टुप्
वर्णकश्चन्दने ख्यातश्चारणे च विलेपने ।दर्शकः स्यात्प्रतीहारे दर्शयितरि च त्रिषु ॥
1.2.24 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्श (wrong syllable)
चित्रकं तिलके व्याघ्रे वृक्षभेदे च चित्रकः ।कीरको वृक्षभेदे स्यात्क्षपणे प्रापणेऽपि च ॥
1.2.25 · p. 8
अनुष्टुप्
द्रावका हृदयग्राहिपाषाणद्रवकारकाः ।वाह्लीकस्तुरगे देशे वाह्लीके हिङ्गुकुङ्कुमे ।जातकः कथितो जातः कारण्डी चापि जातकः ॥
1.2.26 · p. 8
अनुष्टुप्
पक्षकः पार्श्वमात्रे स्यात्पक्षद्वारे च पक्षकः ।कूपको वृक्षभेदे स्यात्कूपभेदे च कूपकः ॥
1.2.27 · p. 8
अनुष्टुप्
कोरकः कलिकायां स्यात्कक्कोलं कोरकं स्मृतम् ।शस्यकः स्यान्मणौ खड्गे नारिकेलस्य चान्तरे ॥
1.2.28 · p. 8
अनुष्टुप्
रक्तको बन्धुजीवे स्याद्रक्तवस्त्रानुरागिणोः ।चीरको धिक्क्रियालेखे चीरिका च पतङ्गिका ॥
1.2.30 · p. 9
अनुष्टुप्
पावकोऽग्नौ च सद्वृत्ते [वह्निमन्थे] च चित्रके ।गृह्यकाः स्युर्गृहासक्तमृगादयोऽप्यधीनकाः ॥
1.2.31 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
पेचको द्विरदपुच्छसमीपे काकशाश्वतविरोधिखगे च ।गण्डकौ पशुवरचतुष्कौ गण्डकी च सरिदन्तरमुक्ता ॥
1.2.32 · p. 9
स्वागताmetre not read in every linenearly स्वागता
कार्मुकः कर्मशक्ते स्यात्कांर्मुकं धनुषि स्मृतम् ।ग्रन्थिकं पिप्पलीमूले सहदेवकरीरयोः ॥
1.2.33 · p. 9
अनुष्टुप्
वार्द्धकं [7] वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि ।अंशुकं सूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥
1.2.34 · p. 9
अनुष्टुप्
धैनुकं करणे स्त्रीणां धेनुसङ्घे च धैनुकम् ।शङ्खकं वलये कम्बौ शिरोरोगे च शङ्खकः ॥
1.2.35 · p. 9
अनुष्टुप्
पुष्पकं तु कुबेरस्य विमाने च रसाञ्जने ।आढकं परिमाणे स्यादाढकी तुवरी स्मृता ॥
1.2.36 · p. 10
अनुष्टुप्
बन्धकं स्याद्विनिमये बन्धकी या च पुंश्चली ।कटुकं स्यात्त्रिकटुकं कटुका कटुरोहिणी ॥
1.2.37 · p. 10
अनुष्टुप्
शिशुकः शिशुमारे स्यादुलूपी बालकश्च यः ।प्रियकः पीतशालालिमृगनीपप्रियङ्गुषु ॥
1.2.39 · p. 10
अनुष्टुप्
पुलकः क्रिमिभेदे स्याद्रोमाञ्चे प्रस्तरान्तरे ।मधुको बन्दि [भेदे च] मधुका मधुयष्टिका ॥
1.2.40 · p. 10
अनुष्टुप्
कुलिकः स्यात्कुलश्रेष्ठः कुलिकोऽगविशेषकः ।क्रमुकः पट्टिकाख्यः स्याद्गुवाकब्रह्मदारुणोः ॥
1.2.42 · p. 10
अनुष्टुप्
गोधूमचूर्णे कणिकः कणिका गणिकारिका ।गणिका चाग्निमन्थे स्याद्यूथीवेश्याकरेणुषु ॥
1.2.43 · p. 11
अनुष्टुप्
वालिका वालुकायां स्याद्बालायां कर्णभूषणे ।रेणुका जामदग्न्यस्य माता हरेणुरप्यसौ ॥
1.2.44 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
[8] वालुका सिकता प्रोक्ता वालुकं चैलवालुकम् ।नीलिका क्षुद्ररोगः स्यान्नीली शेफालिकापि च ॥
1.2.45 · p. 11
अनुष्टुप्
कूर्चिका क्षीरविकृतिरालेख्यायां च कूर्चिका ।तूलिका तूलशय्या स्यादालेख्यायां च तूलिका ॥
1.2.46 · p. 11
अनुष्टुप्
शल्लकी वृक्षमेदे स्यात्पशुभेदे च शल्लकी ।वैदेहको वाणिजिके वैश्यापुत्रे च शूद्रजे ॥
1.2.47 · p. 11
अनुष्टुप्
निर्ग्रन्थकं विजानीयात्क्षपणेऽप्यपरिच्छदे ।एडमूकं विजानीयाच्छठं वाक्श्रुतिवर्जितम् ॥
1.2.48 · p. 11
अनुष्टुप्
कलविङ्कः कलिङ्गः स्याद्ग्रामाख्यचटकेऽपि च ।सुप्रतीकः शोभनाङ्गः सुप्रतीकश्च दिग्गजः ॥
1.2.49 · p. 12
अनुष्टुप्
जैवातृकः स्मृतश्चन्द्र आयुष्मानपि कीर्तितः ।गोकण्टको गोक्षुरकं स्थपुटे च गवां खुरे ॥
1.2.51 · p. 12
अनुष्टुप्
गोमेदकः पीतमणौ काकोले पत्रकेऽपि च ।माणवको हारभेदे स्मृतः कापुरुषेऽपि च ॥
1.2.52 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
कौक्कुटिको दाम्भिकः स्याद्यश्चादूरेरितेक्षणः ।भ्रमरकाः स्युर्भ्रमरललाटवृत्तकुन्तलाः ॥
1.2.53 · p. 12
metre not recognised
विशेषकः स्यात्तिलके विशेषयति योऽपि च ।कपर्दको वराटः स्याज्जटाजूटे शिवस्य च ॥
1.2.54 · p. 12
अनुष्टुप्
वाणिजिकस्तथोर्वाग्निर्वणिग्वाणिजिकः स्मृतः ।[9] आक्षेपको वातव्याधौ निन्दाहिंसाकरेऽपिच ॥
1.2.55 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 जि (wrong syllable)
मण्डलकं कुष्ठभेदे बिम्बेऽपि कुक्कुरे विदुः ।विदूषको नटबटुर्यश्च दूषणकारकः ।पिण्डीतको मदनाख्ये पादपे तगरेऽपि च ॥
1.2.56 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
लालाटिकः स्यात्प्रभुभालदर्शि-न्याश्लेषभेदे करणाक्षमे च ।वरण्डकः कुञ्जरवेदिकायांसंवर्तुले यौवनकण्टके च ॥
1.2.57 · p. 13
उपजातिः
वलाहकौ वारिदपर्वतौ स्मृतौवलाहकश्चासुरनागभेदयोः ।सौगन्धिकं कत्तृणबाणयोः स्मृतंकह्लारके गन्धकसंज्ञकाश्मनि ॥
1.2.58 · p. 13
upajati 12
शृङ्गाटकः स्याच्छैवालविशेषे [च] चतुष्पथे ।आकालिकं क्षणध्वंसि यस्य चाकालसंभवः ॥
1.2.59 · p. 13
अनुष्टुप्
पिप्पलकं स्तनवृन्ते तथा सीवनसूत्रके ।प्रचलाकं बर्हिचन्द्रे सर्प शराहतेऽपि च ॥
1.2.60 · p. 14
metre not recognised
कोषातकी स्मृता घोषे ज्योत्स्निकायामपीष्यते ।शृगालिका स्मृता क्रोष्ट्री त्रासादपि पलायने ॥
1.2.61 · p. 14
अनुष्टुप्
संतानिका क्षीरशरे तथा मर्कटवासके ।कनीनिकाङ्गुलिः क्षुद्रा तारकाक्ष्णः कनीनिका ॥
1.2.62 · p. 14
अनुष्टुप्
स्यादुपकारिका राज्ञो गेहे या चोपचारिका ।स्याद्धेमपुष्पिका यूथी चम्पको हेमपुष्पकः ॥
1.2.63 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
सिन्दूरतिलको हस्ती सिन्दूरतिलकाः स्त्रियः ।मातुलपुत्रको धूर्तफ[10]ले मातुलकात्मजे ॥
1.2.64 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
मदनशलाका शारिर्वर्तिर्मदनदीपनी ।वसन्तदूतिका प्रोक्ता पाटला कोकिलापि च ॥
1.2.65 · p. 14
अनुष्टुप्metre not read in every line