All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · भान्ताः
इति बान्तवर्गः ॥
भः पुंसि भार्गवभ्रान्त्योर्भा दीप्तौ भीर्भये स्त्रियाम् ॥
7.24.1 · p. 251
भूर्भूमौ स्थानमात्रे च भमृक्षगृहनामसु ।
7.24.2 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कुम्भो ना कुम्भिमूर्द्धांशे राशौ च राक्षसान्तरे ॥
7.24.3 · p. 251
अनुष्टुप्metre not read in every line
वारस्त्री कामुके मत्ते घटे क्लीबन्तु गुग्गुलौ ।कुम्भी स्त्रियामुखापृश्नी पाटला कट्फलेषु च ॥
7.24.4 · p. 251
अनुष्टुप्
गर्भः कुक्षौ शिशौ सन्धौ भ्रूणे पनसकन्टके ।जम्भो दन्तशठे दन्ते दैत्यभेदे च भक्षणे ॥
7.24.5 · p. 251
अनुष्टुप्
जृम्भस्त्रिषु विकाशे च जृम्भरणे स्फारितेऽपि च ।डिम्भः स्याद्वालिशे मध्ये क्षत्रिये शावकेऽपि च ॥
7.24.6 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 म्भर (syllable split)
दम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि ।दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ ।द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु ।रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् ।शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् ।सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः ।
7.24.7 · p. 251
अनुष्टुप्
दम्भ=कैतवकल्कसाटोपअहङ्कृतिदृन्भू=वज्रचक्रअहिमुख्यभूतिनाभि=चक्रमध्यक्षत्रियमुख्यभूपतिप्राण्यङ्गमध्यकस्तूरिकामदनिभ=व्याजप्रकाशसदृशरम्भ=कपिवंशकदलीअप्सरस्विभु=वृद्धप्रभुराजन्ब्रह्मन्शङ्करशम्भु=महेश्वरसिद्धसुगतपरमेष्ठिन्शुभ=क्षेमयोगकान्तिइच्छासभा=द्यूतमन्दिरगोष्ठीसामाजिकस्वभू=विष्णुविधिस्तम्भ=स्थूणाजडत्व
आरम्भः पुंसि दर्पे च त्वरायामुद्यमे वधे ॥आत्मभूः कामदेवे स्याद्विधौ विष्णौ भवेत्पुमान् ॥
7.24.8 · p. 252
अनुष्टुप्
ऋषभः स्वरभेदे स्यादष्टवर्गोषधान्तरे ।कर्णरन्ध्रे च कुम्भीरपुच्छे धर्मे वृषेऽपि च ॥पुमानुत्तरभाक्श्रेष्ठे नराकारस्त्रियां स्त्रियाम् ।विधवायां शिरालायां पूकशिम्ब्यामृषभ्यपि ॥
7.24.9 · p. 252
अनुष्टुप्
ककुभोऽर्जुनवृक्षे ना वीणाङ्गरागभेदयोः ।कटभी तरुभेदे स्याद् ज्योतिष्मत्यामपि स्त्रियाम् ॥करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते ।कुसुम्भं हेम्नि च महारजने नाकमण्डलौ ॥
7.24.11 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
गर्दभं शुक्लकुमुदे खरगन्धभिदोः पुमान् ।गर्दभी क्षुद्ररोगे च स्त्रियां जन्तुविशेषके ॥दुर्लभस्त्रिषु दुष्प्रापे कर्चुरादिप्रशस्तयोः ।दुन्दुभिर्वरुणे दैत्ये स्त्र्यक्षे बिन्दुत्रिके द्वयोः ॥भेर्याञ्च वाद्यभेदे स्याद्रक्षोभेदे तु पुंस्ययम् ।निकुम्भो दन्तिकौषध्यां कुम्भकर्णसुतेऽपि च ॥
7.24.12 · p. 252
अनुष्टुप्
वल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु ।वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः ।योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥विस्रम्भः प्रणये केलिकोपविश्वासयोरपि ।विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि ।शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च ।सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥वसन्ते चम्पके जातीफलगन्धफले पुमान् ।क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥
7.24.13 · p. 252
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 पा (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न्धि (wrong syllable)
वल्लभ=अध्यक्षदयितशुभलक्षणवाजिन्वर्षाभू=शोथघ्नीभूवल्लीभेकविष्कम्भ=प्रतिबन्धविस्तारयोगभेदयोगिबन्धभेदअर्गलारूपकाङ्गप्रभेदविस्रम्भ=प्रणयकेलिकोपविश्वासविष्टम्भ=रोगभेदवैदर्भ=वाक्यवक्तृत्ववैदर्भी=रीतिभेदशरभ=पशुभेदकरभवानरसनाभि=सदृशज्ञातिस्नेहयुतसुरभि=शल्लकीमातृसुरागोवसन्तचम्पकजातीफलगन्धफलगन्धाश्मन्स्वर्गसुगन्धिकान्त
अनुष्टुप्छन्दसि भेदे सरस्वत्यामपि स्त्रियाम् ।अवष्टम्भः काञ्चने स्यात्प्रारम्भस्तम्भयोरपि ॥शातकुम्भोऽश्वमात्रे स्यात्काञ्चने तु नपुंसकम् ॥
7.24.14 · p. 252
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable)