कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

खारीक

khārīkaवि · adj.

In 6 kośas: 7 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.10
खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव देशप्रकाण्डः Kalpadrukośa 1.2.36 · p. 8
द्रोणकाढकवापादौ द्रौणिकाढकिकादिकम् ।खारीवापे तु खारीकमस्त्रियां वप्र इत्यपि ॥ ३६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 273
प्रस्थद्रोणादिवापादौ प्रास्थिक-द्रौणिकादयः ।खारीवापस्तु खारीको द्विखारीकादयस्तथा ॥ २० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 289
खारीकं च द्विपण्यं च द्विमाष्यं च द्विमाष्यवत् ।अध्यर्द्धशाण्यमध्यर्द्धशाणं स्यात्तु द्विशाण्यवत् ॥ ७१ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1656 · p. 266
द्वितीयं नाम विद्वद्भिराढकवाप उच्यते ।खारीकस्तस्य नामास्ति यत्र खारीमितं वपेत् ॥ १६५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.20 · p. 139
स्याद्द्रोणाटकखार्यादेर्वापादौ द्रौणिकस्तथा ।स्यादाटकिकखारीकौ उत्तमर्णादयस्त्रिषु ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.22 · p. 124
खारीवापे तु खारीकं हल्यं सीत्यं च कृष्टके ।तृतीयाकृतं त्रिसीत्यं त्रिहल्यं त्रिगुणाकृतम् ॥ २२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
genderविadj.