कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

भूमिकाण्डः · वैश्यवर्गप्रकाशः (1/2)

इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां क्षत्रियवर्गप्रकाशः ॥

विड्वैश्य ऊरुजोरयौ भूमिस्पृक् भूमिजीवनः ।जीविका जीव आजीवो वार्ता वृत्तिश्च वर्तनम् ॥
3.7.1 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
वाणिज्यं पाशुपाल्यञ्च कृषिश्चैवेह वृत्तयः ।अथ सेवाश्ववृत्तिः स्यात् स्त्रियां कृषिश्च कर्षणम् ॥
3.7.2 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
कर्षोऽनृतं प्रणृतञ्च हलभूतिर्महाधनम् ॥
3.7.3 · p. 138
स्यात् शिलोञ्च्छमुञ्च्छशिलं शिलमुञ्च्छमृतं शिलम् ।सत्यानृतं वणिग्भावः तृष्णाधनपिशाचिका ॥
3.7.4 · p. 138
अनुष्टुप्metre not read in every line
अथ धान्यवर्धनन्तु वार्धुष्यं वार्धुषिप्रियम् ॥
3.7.5 · p. 138
ऋणमुद्धारधारौ च प्रामीत्यं पर्युदञ्चनम् ॥
3.7.6 · p. 138
मालाम्लिकाऽर्थप्रयोगः कुसीदं बृद्धिजीविका ।अथ याचितकं तत् स्यात् याचना प्राप्तमेव वत् ॥
3.7.7 · p. 138
अनुष्टुप्
परिवर्तेन यत्प्राप्तं तद्भवेदापमित्येकम् ।ऋणदातर्युत्तमर्णो ह्यधमर्णो ग्रहीतरि ॥
3.7.8 · p. 138
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 त्ये (wrong syllable)
स्याद्बार्धुषि बार्धुषिकः कुसीदश्च कुसीदिकः ।बृद्ध्या जीवश्च पञ्चैते बृद्धिजीविजने मताः ॥
3.7.9 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षि (wrong syllable)
ऋणमुक्तिविगणनं ग्रहणं गणनोत्सवम् ।कृषीबलः कृषिकश्च कार्षकः कर्षकोऽपि च ॥
3.7.10 · p. 138
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्ति (wrong syllable); pāda 3, syllable 6 षि (wrong syllable)
क्षेत्राजीवः कृषाणोऽपि कृषकः कृषिकारके ।ब्रीहिभवोचितं क्षेत्रं व्रैहेयं तत्समीरितम् ॥
3.7.11 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 भ (wrong syllable)
शाल्युद्भवोचितं यत्तु शालेयमभिधीयते ।यव्यं यवोचितं क्षेत्रं यवक्यं यवकोचितम् ॥
3.7.12 · p. 138
अनुष्टुप्
षष्टिकोद्भवनं यत्तु षष्टिक्यं तत्प्रकीर्तितम् ।तिलोद्भवोचितं यत्तु तिल्यं तैलीनमित्यपि ॥
3.7.13 · p. 138
अनुष्टुप्
एवं माष्यन्तु माषीणं कोद्रव्यं कोद्रवीणवत् ।तथा भङ्ग्यञ्च भाङ्गीनम् उभ्यमौमीनमित्यपि ॥
3.7.14 · p. 138
अनुष्टुप्
अथ मुद्ग्यञ्च मौद्गीनमणव्यमाणवीनवत् ।माषकोद्रवभङ्गोमामुद्गाणुप्रभवोचितम् ॥
3.7.15 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व्य (wrong syllable)
बीजाकृतमुप्तकृष्टमुभनीतिसमाह्वये ।सीत्यं कृष्टञ्च हल्यञ्च कृष्टभूम्यामिदं त्रयम् ॥
3.7.16 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
त्रिसीत्यञ्च त्रिहल्यञ्च तृतीयाकृतमित्यपि ।त्रिगुणाकृतमित्येवं त्रिवारकृष्टभूमिषु ॥
3.7.17 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
शम्बाकृतं द्विहल्यञ्च द्विसीत्यं द्विगुणाकृतम् ॥
3.7.18 · p. 138
द्वितीयाकृतमप्यत्र द्विवारकृष्टभूमिषु ॥
3.7.19 · p. 138
स्याद्द्रोणाटकखार्यादेर्वापादौ द्रौणिकस्तथा ।स्यादाटकिकखारीकौ उत्तमर्णादयस्त्रिषु ॥
3.7.20 · p. 139
अनुष्टुप्
आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रौणिकोऽपि च ।अस्त्री वप्रन्तु केदारो बलजक्षेत्रमित्यपि ॥
3.7.21 · p. 139
अनुष्टुप्
कैदारिकन्तु कैदार्यं क्षेत्रं कैदारकं तथा ।वावटञ्चेति पर्यायः क्षेत्रवृन्दे निगद्यते ॥
3.7.22 · p. 139
अनुष्टुप्
अस्त्री लोष्टं पुंसि लेष्टुर्दलनी स्त्रीदलिर्द्वयोः ।कोटिशोऽपि च कोटीशो लेष्टुघ्नो लेष्टुभेदनः ।लेष्टुभेदी चूर्णदण्डो लोष्टभङ्गार्थमुद्गरे ॥
3.7.23 · p. 139
अनुष्टुप्metre not read in every line
प्राजनं तोदनं तोत्रं तोत्रकं लगुडोऽस्त्रियाम् ।दात्रं लवित्रं खड्गीकं खनित्रमवदारणम् ॥
3.7.24 · p. 139
अनुष्टुप्
आबन्धो योप्रयोक्त्रे द्वे त्रयं योत्रसमाह्वये ।कुटकञ्च निरीषञ्च निरीशं फलमित्यपि ॥
3.7.25 · p. 139
अनुष्टुप्
कृषिकं कृषकं फालं (हलं) फालसमाह्वये ।गोदारणञ्च सीरश्च हलं हालञ्च लाङ्गलम् ॥
3.7.26 · p. 139
अनुष्टुप्metre not read in every line
सैद्द्र इत्याह्वये शम्या शम्या स्त्री युगकीलकम् ॥
3.7.27 · p. 139
ईशा लाङ्गलदण्डः स्यादीषापि परिकीर्तिता ।बृहत् हलं हलिः सीता शीता लाङ्गलपद्धतिः ॥
3.7.28 · p. 139
अनुष्टुप्
पुंसि मेधिः खलेकाष्ठं यत् न्यस्तं पशुबन्धने ।आशुर्ब्रीहिः पाटलः स्यात् पाटलञ्चापि कुत्रचित् ॥
3.7.29 · p. 139
अनुष्टुप्
यवो ना शितशूकः स्यात् शीतशूकश्च कीर्तितः ।तोक्मं तत्रैव हरिते यवगुत्से च कुत्रचित् ॥
3.7.30 · p. 139
अनुष्टुप्
स्यात् कलायो हरेणुर्ना खण्डिकोऽपि सतीनकः ॥
3.7.31 · p. 139
कोद्रवः कोद्रवोऽपि स्यात् कोर्दूषः कोरदूषकः ॥
3.7.32 · p. 139
स्यान्मसूरो मसूरा च मसूरो ब्रीहिकाञ्चनम् ।मङ्गल्यकोऽपि मङ्गल्यो मसूरी मसुरीत्यपि ॥
3.7.33 · p. 139
अनुष्टुप्
बलात्मको हारिनामा वासस्तो (?) मुद्ग इत्यपि ॥
3.7.34 · p. 139
वनमुद्गो मुद्गष्टः स्यात् मकुष्टकमयुष्टकौ ।स्यात् सर्षपः सरिषपः शर्षपश्च कदम्बकः ।कटुस्नेहस्तुन्तुभोऽस्मिन् सिते सिद्धार्थ इत्यपि ॥
3.7.35 · p. 139
अनुष्टुप्metre not read in every line
गोधूमोऽपि च गोधूमं सुमनो म्लेच्छभोजनम् ।यवकः स्यात्तु कुल्माषः कुल्मासो यावकोऽपि च ॥
3.7.36 · p. 140
अनुष्टुप्
वोरवाख्ये यष्टिके वा कुल्मे काश्मीरदेशजे ।शालिधान्येषु चत्वार इति केचित् प्रचक्षते ॥
3.7.37 · p. 140
अनुष्टुप्
छोलाख्येऽपि च चानाख्ये चणको हरिमन्थकः ।शितशूकः प्रावटः स्यात् पायडा इति नामके ॥
3.7.38 · p. 140
अनुष्टुप्
ताम्रवृन्तः कुलत्थश्च सस्यमस्त्री तिलः पुमान् ।तिलपिञ्जस्तिलपेजो द्वावेतौ निष्फले तिले ॥
3.7.39 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
तिले श्वेते स्नेहरङ्गः कृष्णे तस्मिन् स्वधाप्रियः ।अथ क्षुधाभिजनकः क्षुताभिजनकोऽपि च ॥
3.7.40 · p. 140
अनुष्टुप्
राजिका कृष्णिका रक्तसर्षपः क्षव आसुरी ।असुरी तीव्रकटुका नवैते राजिकाह्वये ॥
3.7.41 · p. 140
अनुष्टुप्
कङ्गुः प्रियङ्गुः कङ्गूश्च कुङ्गुः कुङ्गूश्च कङ्गुनी ।निःस्नेहा चण्डिका चण्डी अतसिस्त्वतसीत्यपि ॥
3.7.42 · p. 140
अनुष्टुप्
उमा क्षुमा शनः क्षौमा सैव स्यादतसीसनः ।सूर्क्ष्यः परिषमो माषो राजमाषस्तु वर्वटः ॥
3.7.43 · p. 140
अनुष्टुप्
अथ भङ्गी मातुलानी ब्रीहौ काश्मीरदेशजे ।अणुः पुंसि व्रीहिभेदे चीणा इत्याह्वये क्वचित् ॥
3.7.44 · p. 140
अनुष्टुप्
शस्यशूकन्तु किंशारुः कणिशं शस्य मञ्जरी ।पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके ॥
3.7.45 · p. 140
अनुष्टुप्
अल्पापकृष्टशालिर्यः स भवेत् … स्त्रियाम् ।स्तम्बो धान्यतृणादीनां गुच्छे पुंसि निगद्यते ॥
3.7.46 · p. 140
अनुष्टुप्metre not read in every line
अथ धान्यादिकाण्डे स्यात् नाडी नालमिति द्वयम् ।स काण्डो निष्फलोऽस्त्री तु पलाल इति कीर्तितः ॥
3.7.47 · p. 140
अनुष्टुप्
कडङ्गरो वुषं वूषमसारे तुच्छधान्यके ।धान्यत्वचि तुषः पुंसि शूकोऽस्त्री स्यात्तदग्रके ॥
3.7.48 · p. 140
अनुष्टुप्
शमी सिम्बा च शिम्बा च शिम्बिः शिम्वी च सिम्विका ।समी च सिम्बिका सिम्बिः पूतान्तास्तु त्रिषूत्तरे ॥
3.7.49 · p. 141
अनुष्टुप्
आवसितन्त्ववसितं वसितमृद्धमित्यपि ॥
3.7.50 · p. 141
मर्दनानन्तरं पुञ्जीकृतधान्ये चतुष्टयम् ।बहुलीकृतपूते द्वे ह्यपनीतवुषादिके ॥
3.7.51 · p. 141
अनुष्टुप्
शमीधान्ये तु माषादिर्यवादिः शूकधान्यके ।कलमाद्याः षष्टिकाद्याः शालयः पुंसि कीर्तिताः ॥
3.7.52 · p. 141
अनुष्टुप्
नीवरास्तृणधान्ये स्युर्गवेधुः स्त्री गवेधुका ।कुत्रा कुत्था गवेडूश्च कुसूलं ब्रीहिभेदके ॥
3.7.53 · p. 141
अनुष्टुप्
अयोग्रं कण्डली दण्डो मुषलं मुसलन्तथा ।स्यात् कण्डनी कण्डणकी उलूखलमुदूखलम् ॥
3.7.54 · p. 141
अनुष्टुप्
अस्त्री सूर्पश्च शूर्पश्च कुल्यः प्रस्फोटनी नला ।सूर्पवातः फुल्लकालश्चालनी तितउः पुमान् ॥
3.7.55 · p. 141
अनुष्टुप्
चालनं क्लीवमप्याहुर्व्याडिगङ्गाधरादयः ।स्यूतः स्यूनः प्रसेवस्तु त्रयं धौतकटे स्मृतम् ॥
3.7.56 · p. 141
अनुष्टुप्
वंशादिनिर्मिते भाण्डे कण्डोलः पिण्ड इत्यपि ।वीरणादिविरचिते स्यातां कटकिलिञ्जकौ ॥क्लीबे महानसं पाकस्थानं रसवती स्त्रियाम् ।स्यातां महानसाध्यक्षे पौरोगवपुरोगवौ ॥
3.7.57 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
सूपकारो वल्लवः स्यात् सूद औदनिको गुणः ।आरालिकश्चान्धसिकः पाकाङ्की पाचकोऽपि च ॥
3.7.58 · p. 141
अनुष्टुप्
भक्ष्यकारः कान्दविकः पूपिकः पूपविक्रयी ।मोदकादिविक्रयी च त्रिषु पौरोगवादयः ॥
3.7.59 · p. 141
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 4 दि (wrong syllable)
चुल्ली चुल्लिरन्तिकाधिश्रयण्यश्मन्तिकापि च ।अश्मन्तास्मन्तमुद्धानमुध्नानमपि कीर्त्यते ॥
3.7.60 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल्लि (wrong syllable)
हसन्त्यङ्गारधानी च हसन्यङ्गारधानिका ।अङ्गारशकटिश्च स्यादङ्गारशकटीत्यपि ॥
3.7.61 · p. 141
अनुष्टुप्
अस्त्रियां कोकिलाङ्गारौ आलातालातमुल्मकम् ।भ्राष्टेऽम्बरीषं न क्लीबे कन्दुः स्यात् स्वेदनी स्त्रियाम् ॥
3.7.62 · p. 141
अनुष्टुप्
आलिञ्जरालिञ्जरौ च मणिकञ्च मणिर्मणी ।गोलनन्दा च गोला च नन्दा च नन्दिकेत्यपि ॥
3.7.63 · p. 142
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
कर्करी करबर्धन्यालुः स्याच्च गलन्तिका ॥
3.7.64 · p. 142
भाण्डभेदे तु चल्लक उष्ट्रिका चुल्लकेत्यपि ।स्थाली कुण्डञ्च कुण्डा च पिठरं कुण्ड्युखापि च ॥
3.7.65 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल्ल (wrong syllable)
द्वयोर्घटः कुटनिवापस्त्री तु कलशस्त्रिषु ।कलसश्च द्वयोः कुम्भः कुम्भी च कलसी घटी ॥
3.7.66 · p. 142
अनुष्टुप्
मार्तिकं स्यात् शरावोऽस्त्री सरावो वर्धमानकः ।शालाजिरं पार्थिवञ्च मृत्कांस्यमपि कीर्त्यते ।लोहिका खरपालञ्च पिण्डानं काष्टभाजनम् ॥
3.7.67 · p. 142
अनुष्टुप्
काष्ठानाही च वातर्दिः काष्ठपात्रविशेषके ।ऋचीकं पिष्टपचनमम्बरीषं विरीषकम् ॥
3.7.68 · p. 142
अनुष्टुप्
अथ कांस्यञ्च कंसोऽस्त्री पानभाजनमित्यपि ।कुतूः चर्मस्नेहपात्रे सा स्वल्पा कुतुपस्त्वयम् ॥
3.7.69 · p. 142
अनुष्टुप्
भाण्डं पात्रममत्रञ्च कोषकोशौ च भाजनम् ।पात्री कोषी च कोशी च कोषिका कोशिकेत्यपि ॥
3.7.70 · p. 142
अनुष्टुप्
दर्वी कम्बी दर्विकम्बी खजाकापि खजा खजम् ।स्यात् काष्ठहस्तकस्तर्दूद्वितयं काष्ठहस्तके ॥
3.7.71 · p. 142
अनुष्टुप्
अस्त्री शाकन्तु शिग्रुर्ना क्लीबे हरितकं भवेत् ।वास्तूकादिशाके तु त्रयमस्य तु नाडिका ॥
3.7.72 · p. 142
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वा (syllables merged)
कलम्वश्च कडम्वोऽपि कडम्बककलम्बकौ ।धान्यसर्षपचूर्णादौ वेषवार उपस्करः ॥
3.7.73 · p. 142
अनुष्टुप्
तिन्तिडीकञ्च चुक्रञ्च वृक्षाम्ब्लमपि चुक्रकम् ।मरीचं मरिचं कृष्णं वेल्लजं धार्मपत्तनम् ॥
3.7.74 · p. 142
अनुष्टुप्
उषणं स्यादूषणञ्च वल्लिजं कोलकञ्च तत् ।स्याज्जीरो जीरकोऽजाजी जरणः स्त्रीकणापि च ॥
3.7.75 · p. 142
अनुष्टुप्
कृष्णजीरे तु मुशवी मुषवी पृथुका पृथुः ।कारवी पृथिवी काला पृथ्वी स्यादुपकुञ्चिका ॥आर्द्रकं शृङ्गवेरं स्यात् शृङ्गवेरार्द्रकञ्च तत् ।धन्याकं धान्यकं धान्यं धनिकञ्च धनीयकम् ॥
3.7.76 · p. 142
अनुष्टुप्
श्रुण्ठी महौषधं शुण्ठिर्विश्वा विश्वञ्च नागरम् ॥
3.7.78 · p. 142
स्यादिन्द्रभेषजं विश्वभेषजं भेषजञ्च तत् ।काञ्जिकं काञ्जिकासिद्धमसिलं धातुनाशनम् ॥
3.7.79 · p. 143
अनुष्टुप्
आरनालकरक्षोघ्नसौविरञ्च तुषोदकम् ।कुञ्जकुल्माषाभिषुतं कुल्माषाभिषुतञ्च तत् ॥
3.7.80 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षा (wrong syllable)
कुञ्जलावन्तिमोमे च धान्याम्ब्लम्बुर्कमित्यपि ।हिङ्गुपिण्याकवालीकसहस्रबोधिरामठम् ॥
3.7.81 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable)
पृथ्वीका पृथुला पृथ्वी वाष्पका कारवीति च ।वाष्पिका वास्पका वाष्पा पत्री स्यात् कावरीत्यपि ॥
3.7.83 · p. 143
अनुष्टुप्
हरिद्रा काञ्चनी पीता निशाख्या पीतवालुका ।हेमनाशा भङ्गवासा घर्षिणी वरवणिनी ॥
3.7.84 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 व (wrong syllable)
वशिराक्षीववशिरं सामुद्रं लवणं हि यत् ।सैन्धवोऽस्त्रीमणिन्थं माणिमन्थञ्च सिन्धुजम् ॥
3.7.85 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शैतशिवं शीतशिवं लवणे सिन्धुसम्भवे ।रौमकं वसुकं राष्ट्रं साम्भरीलवणे त्रयम् ॥
3.7.86 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त (wrong syllable)
पाक्यं विडं विटं विट् च कृतके लवणे भवेत् ।सौवर्चलाक्षरुचके लवणे सौछले द्वयम् ॥
3.7.87 · p. 143
अनुष्टुप्
तत्रैव कृष्णवर्णे तु तिलकं परिकीर्तितम् ।या चेक्षुभेदपाके तु शुष्कखण्डाकृतिर्भवेत् ॥
3.7.88 · p. 143
अनुष्टुप्
मत्स्यण्डिका सा मत्स्यण्डी त्वर्धवर्ते च फाणितम् ।मत्स्यण्डी शुष्कखण्डे स्यात् तस्य कन्धे च फाणितम् ।सामान्यशर्करायान्तु मत्स्यण्डीति क्वचिद्भवेत् ॥
3.7.89 · p. 143
अनुष्टुप्
क्षीरखण्डविकारे तु कङ्कफाणितमित्यपि ।एतौ खण्डविकारौ च पिप्पटा गुडशर्करा ॥
3.7.90 · p. 143
अनुष्टुप्
शर्करा च शिता शार्कः शार्ककः शाकरोऽपि च ।कूर्चिका दुग्धविकृतिः सा द्विधा परिकीर्तिता ॥
3.7.91 · p. 143
अनुष्टुप्
दध्ना सह पयः पङ्कं तद्भवेद्दधिकूर्चिका ।तक्रेण पङ्कं यत् क्षीरं तद्भवेत् तक्रकूर्चिका ॥
3.7.92 · p. 143
अनुष्टुप्
गुडो गुलः स्वादुखण्डोऽस्त्रियां गण्डोल इत्यपि ।मृष्टे दध्नि शिखरिणी रसाला मार्जितेत्यपि ॥
3.7.93 · p. 143
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ध्नि (wrong syllable)
अथ शार्कं शार्ककं स्यात् शार्ककः क्षीरफेणके ॥
3.7.94 · p. 144
व्यञ्जनं तेमनं तेम निष्ठानं स्यादतस्त्रिषु ।वासितान्तं भटित्रञ्च शूल्यं शूलाकृतञ्च तत् ॥
3.7.95 · p. 144
अनुष्टुप्
भवेत् लोहशलाकादिसिद्धमांसादिषु त्रयम् ॥
3.7.96 · p. 144
उरव्यं पैठरमित्येतत् स्थाल्यादिसिद्धमांसके ।प्रणीतमुपसम्पन्नं तथा समुपसन्नकम् ॥
3.7.97 · p. 144
अनुष्टुप्metre not read in every line
पाकरूपरसासक्ते व्यञ्जने तु भवेत्त्रयम् ।तैलपाकं सुसंस्कारे प्रयस्तमुपसंस्कृतम् ॥
3.7.98 · p. 144
अनुष्टुप्
पिच्छिलं लालसिकञ्च विजिलं विज्जिलञ्च तत् ।व्यञ्जने केशकीटादि शुद्धे संसृष्टशोधिते ॥
3.7.99 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable)
स्निग्धं मसृणमामृष्टं चिक्कणं चिक्कचक्कणे ।सुधूपिते व्यञ्जनादौ भवितं वासितञ्च तत् ॥
3.7.100 · p. 144
अनुष्टुप्
आपक्वमवपक्वं स्यादभ्यूषं पौलिपौलिकौ ।अभ्युषोऽभ्योष इत्येते ईषत्पक्वयवादिषु ॥
3.7.101 · p. 144
अनुष्टुप्
लाजाः पुंसि बहुत्वे स्त्री खदिर्वा क्लीवमक्षतम् ।अथ चित्रपिष्टके स्याद् चित्रापूपश्चरुव्रणः ॥
3.7.102 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्र (wrong syllable)
वटकः पिष्टपूरः स्यात् पृथुकश्चिपिटोऽपि च ।चिपीटकश्चिपिटकः स्यात् धान्यचमसोऽपि च ॥
3.7.103 · p. 144
अनुष्टुप्
अथ भृष्टयवे धाना धानाका भूम्नि च स्त्रियाम् ।अपूपः पिष्टकः पूप आपूपः पिष्ट इत्यपि ॥
3.7.104 · p. 144
अनुष्टुप्
करम्भश्च करम्बः स्याद् दध्नोपसिक्तसक्तुकः ।भक्तान्नमन्धो भिः साऽस्त्री नपुंस्योदनदीर्दिवी ॥
3.7.105 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
कूरमापूपिकञ्चैव जीवातुर्ना प्रसादनम् ।भिस्सटा दाग्धिका चेति दग्धभक्ते भवेद्द्वयम् ॥
3.7.106 · p. 144
अनुष्टुप्
जयेष्ठाम्बु मण्डमस्त्री तु द्वयं सर्वरसाग्रके ।अथान्नसम्भवे भण्डे निस्रावाचाममासराः ॥
3.7.107 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यागूर्यवागूस्तरला खालिः श्राणा विलेपनी ।विलेपी च विलेप्या स्यादुष्णिका च खलीत्यपि ॥
3.7.108 · p. 144
अनुष्टुप्
त्रिषु गव्यं गवां सर्वं स्त्री गोविड्गोमयोऽस्त्रियाम् ।शुष्के तस्मिन् करीषोऽस्त्री क्षीरदुग्धपयांसि च ॥
3.7.109 · p. 144
अनुष्टुप्
पयस्यं घृतदध्यादि प्राखोटं श्रीघनं दधि ।तदेव तरलं द्रप्स्यं तद्भेदाः कटुरादयः ॥
3.7.110 · p. 145
अनुष्टुप्
घृतं हविः सर्पिराज्यं नवनीतं नवोद्धृतम् ।ह्यो गोदोहोद्भवं घृतं हैयङ्गवीनमुच्यते ॥
3.7.111 · p. 145
metre not recognisednearly अनुष्टुप्
घोलं दण्डाहतारिष्टकालशेषानि गोरसम् ।तक्रं पादाम्बुनिर्दिष्टमुदश्विदर्धनीरकम् ॥
3.7.112 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्वि (wrong syllable)
मथितन्तु निरम्बु स्यात् त्रितयं दधिसम्भवम् ।मस्तुर्ना दधिजे मण्डे पेयूषस्तु नवं पयः ।स्त्रीक्षुत् क्षुधा वुभुक्षा स्यादशनायाः च सा स्मृता ॥
3.7.113 · p. 145
अनुष्टुप्
अथ ग्रासस्तु कवलं स्त्री सग्धिः सहभोजनम् ।स्त्रीसपीतिस्तुल्यपानं सह्रपीतिश्च कुत्रचित् ॥
3.7.114 · p. 145
अनुष्टुप्
तृष्णा तृषा पिपासा तृट् उदन्या तर्ष इत्यपि ।भोजनं जन्धिराहारो विघसोऽशनभक्षणे ॥
3.7.115 · p. 145
अनुष्टुप्
देहयात्रा विष्वणनं लेपन्यादौ च जेमनम् ।भुक्तिरभ्यवहारः स्याद् घसि प्रत्यवसानकम् ॥
3.7.116 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
कल्यवर्तः प्रातराशः प्रातःकाले तु भोजने ।प्रीणनं तर्पणं तृप्तिः सौहित्यमाशितम्भवम् ॥
3.7.117 · p. 145
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्य (wrong syllable)
फेलिः फेली च फेलञ्च फेला भुक्तसमुज्झिते ।निकामकामपर्याप्तप्रकामेष्टयथेप्सितम् ॥
3.7.118 · p. 145
अनुष्टुप्
गोपालगोधुगाभीरगोपगोसंख्यवल्लवाः ।धनं यादवमित्येतद् गोमहिष्यादिकं हि यत् ॥
3.7.119 · p. 145
अनुष्टुप्
गोमान् गोमी गोपतौ तद्व्रजे गोधनगोकुले ।स्यादाशितं गवीनं तत् तृप्तिस्थानं गवां पुरा ॥गोवृषो वृषभः शृङ्गी वलीवर्दर्षभौ वृषः ।उक्षाऽनड्वान् सौरभेयः ककुद्मान् भद्र इत्यपि ॥
3.7.120 · p. 145
अनुष्टुप्