कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

द्वितीयं काण्डम् · वैश्यवर्गः (1/2)

इति क्षत्रियवर्गः

अथ वैश्यवर्गः

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ।आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥
2.9.1
अनुष्टुप्
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः ।सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥
2.9.2
अनुष्टुप्
द्वे याचितायाचितयोर्यथासंख्यं मृतामृते ।
2.9.3
अनुष्टुप्
सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम् ॥ ३ ॥उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका ।
2.9.4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
याच्ञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥
2.9.4
अनुष्टुप्metre not read in every line
उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् ।
2.9.6
अनुष्टुप्
कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ ५ ॥
2.9.5
अनुष्टुप्
क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः ।
2.9.8
अनुष्टुप्
क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवो हि यत् ॥ ६ ॥
2.9.6
अनुष्टुप्
यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् ।
2.9.10
अनुष्टुप्
तिल्यं तैलीनवन्माषोमाणुभङ्गा द्विरूपता ॥ ७ ॥
2.9.7
अनुष्टुप्
मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् ।
2.9.12
अनुष्टुप्metre not read in every line
शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम् ।
2.9.13
अनुष्टुप्metre not read in every line
बीजाकृतं तूप्तकृष्टे सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥
2.9.8
अनुष्टुप्metre not read in every line
त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ।
2.9.15
आर्या
द्विगुणाकृते तु सर्वं पूर्वं शम्बाकृतमपीह ॥ ९ ॥
2.9.9
आर्या
द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः ।
2.9.17
अनुष्टुप्
खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥
2.9.10
अनुष्टुप्
पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु ।कैदारकं स्यात्कैदार्यं क्षेत्रं कैदारिकं गणे ॥ ११ ॥
2.9.11
अनुष्टुप्
लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः ।
2.9.20
अनुष्टुप्
प्राजनं तोदनं तोत्रं खनित्रमवदारणे ॥ १२ ॥
2.9.12
अनुष्टुप्
दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् ।निरीशं कुटकं फालः कृषको लाङ्गलं हलम् ॥ १३ ॥गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः ।
2.9.22
अनुष्टुप्
ईषा लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः ॥ १४ ॥
2.9.14
अनुष्टुप्
पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने ।
2.9.24
अनुष्टुप्
आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥
2.9.15
अनुष्टुप्
तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः ।हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥
2.9.16
अनुष्टुप्
मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ ।वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥
2.9.17
अनुष्टुप्
सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ ।
2.9.28
अनुष्टुप्
स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः ॥ १८ ॥
2.9.18
अनुष्टुप्
द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले ।
2.9.30
अनुष्टुप्
क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी ॥ १९ ॥
2.9.19
अनुष्टुप्
स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा ।
2.9.32
अनुष्टुप्
मातुलानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥
2.9.20
अनुष्टुप्
किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी ।
2.9.34
अनुष्टुप्
धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥
2.9.21
अनुष्टुप्
नाडी नालञ्च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः ।
2.9.36
अनुष्टुप्
कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् ॥ २२ ॥
2.9.22
अनुष्टुप्
शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे ।
2.9.38
अनुष्टुप्
ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥
2.9.23
अनुष्टुप्
माषादयः शमीधान्ये शूकधान्ये यवादयः ।
2.9.40
अनुष्टुप्
शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी ॥ २४ ॥
2.9.24
अनुष्टुप्
तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका ।
2.9.42
अनुष्टुप्
अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् ॥ २५ ॥
2.9.25
अनुष्टुप्
प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् ।स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ ॥ २६ ॥
2.9.26
अनुष्टुप्
समानौ रसवत्यां तु पाकस्थानमहानसे ।
2.9.45
अनुष्टुप्
पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ॥ २७ ॥आरालिका आन्धसिकाः सूदा औदनिका गुणाः ।
2.9.46
अनुष्टुप्
आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥
2.9.28
अनुष्टुप्
अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका ।
2.9.48
अनुष्टुप्
अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥ २९ ॥
2.9.29
अनुष्टुप्
हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् ।
2.9.50
अनुष्टुप्
क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥
2.9.30
अनुष्टुप्
अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका ।
2.9.52
अनुष्टुप्
पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥
2.9.31
अनुष्टुप्
घटः कुटनिपावस्त्री शरावो वर्धमानकः ।
2.9.54
अनुष्टुप्
ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥
2.9.32
अनुष्टुप्
कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ।
2.9.56
अनुष्टुप्
सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३ ॥
2.9.33
अनुष्टुप्
दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः ।
2.9.58
अनुष्टुप्
अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका ॥ ३४ ॥
2.9.34
अनुष्टुप्
कलम्बश्च कडम्बश्च वेसवार उपस्करः ।
2.9.60
अनुष्टुप्
तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ॥ ३५ ॥
2.9.35
अनुष्टुप्
मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम् ।
2.9.62
अनुष्टुप्
जीरको जरणोऽजाजि कणा कृष्णे तु जीरके ॥ ३६ ॥
2.9.36
अनुष्टुप्
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका ।
2.9.64
अनुष्टुप्
आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम् ॥ ३७ ॥कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम् ।स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥
2.9.38
अनुष्टुप्
आरनालकसौवीरकुल्माषाभिषुतानि च ।अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥
2.9.39
अनुष्टुप्
सहस्रवेधि जतुकं बाल्हीकं हिङ्गु रामठम् ।
2.9.67
अनुष्टुप्
तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४० ॥
2.9.40
अनुष्टुप्
निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी ।
2.9.69
अनुष्टुप्
सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ॥ ४१ ॥
2.9.41
अनुष्टुप्
सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे ।
2.9.71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
रौमकं वसुकं पाक्यं विडं च कृतके द्वयम् ॥ ४२ ॥
2.9.42
अनुष्टुप्metre not read in every line
सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके ।
2.9.73
अनुष्टुप्
मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता ॥ ४३ ॥
2.9.43
अनुष्टुप्
कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता ।
2.9.75
अनुष्टुप्
स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ॥ ४४ ॥
2.9.44
अनुष्टुप्
शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम् ।
2.9.77
अनुष्टुप्
प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥
2.9.45
अनुष्टुप्
स्यात्पिच्छिलं तु विजिलं सम्मृष्टं शोधितं समे ।
2.9.79
अनुष्टुप्
चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥
2.9.46
अनुष्टुप्
आपक्वं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः ।
2.9.81
अनुष्टुप्
पृथुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः ॥ ४७ ॥
2.9.47
अनुष्टुप्
पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः ।
2.9.83
अनुष्टुप्
भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः ॥ ४८ ॥
2.9.48
अनुष्टुप्
भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम् ।
2.9.85
अनुष्टुप्
मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥
2.9.49
अनुष्टुप्
यवागूरुष्णिका श्राणा विलेपी तरला च सा ।
2.9.87
अनुष्टुप्metre not read in every line
म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः ।
2.9.88
अनुष्टुप्metre not read in every line
गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम् ॥ ५० ॥
2.9.50
अनुष्टुप्metre not read in every line
तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम् ।
2.9.90
अनुष्टुप्
पयस्यमाज्यदध्यादि द्रप्स्यं दधि घनेतरत् ॥ ५१ ॥
2.9.51
अनुष्टुप्
घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम् ।
2.9.92
अनुष्टुप्
तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम् ॥ ५२ ॥
2.9.52
अनुष्टुप्
दण्डाहतं कालशेयमरिष्टमपि गोरसः ।
2.9.94
अनुष्टुप्
तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥
2.9.53
अनुष्टुप्
मण्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः ।
2.9.96
अनुष्टुप्
अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान् ॥ ५४ ॥
2.9.54
अनुष्टुप्
सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् ।
2.9.98
अनुष्टुप्
उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम् ॥ ५५ ॥जेमनं लेह आहारो निघासो न्याद इत्यपि ।
2.9.99
अनुष्टुप्
सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् ॥ ५६ ॥
2.9.56
अनुष्टुप्
कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ।
2.9.101
अनुष्टुप्
गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः ॥ ५७ ॥
2.9.57
अनुष्टुप्
गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे ।गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ॥
2.9.58
अनुष्टुप्
त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा ।उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् ।
2.9.104
अनुष्टुप्
गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥
2.9.60
अनुष्टुप्
वृषो महान्महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः ।
2.9.106
अनुष्टुप्
उत्पन्न उक्षा जातोक्षः सद्योजातस्तु तर्णकः ॥ ६१ ॥
2.9.61
अनुष्टुप्
शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ ।
2.9.108
अनुष्टुप्
आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ॥ ६२ ॥
2.9.62
अनुष्टुप्
स्कन्धदेशे त्वस्य वहः सास्ना तु गलकम्बलः ।
2.9.110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्व (wrong syllable)
स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड्युगपार्श्वगः ॥ ६३ ॥
2.9.63
अनुष्टुप्metre not read in every line
युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः ।
2.9.112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
खनति तेन तद्वोढास्येदं हालिकसैरिकौ ॥ ६४ ॥
2.9.64
अनुष्टुप्metre not read in every line
धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः ।
2.9.114
अनुष्टुप्
उभावेकधुरीणैकधुरावेकधुरावहे ॥ ६५ ॥
2.9.65
अनुष्टुप्
स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः ।
2.9.116
अनुष्टुप्
माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी ॥ ६६ ॥
2.9.66
अनुष्टुप्
अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी ।
2.9.118
अनुष्टुप्
वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः ॥ ६७ ॥
2.9.67
अनुष्टुप्
द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी ।
2.9.120
अनुष्टुप्