All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · देशप्रकाण्डः
इति भूर्भुवःस्वरङ्कुरोद्भेदः ।
नीवृज्जनपदो जानपदश्च विषयः पुमान् ।देशः प्रदेशोस्त्री राष्ट्रं स्थितिश्चावकाशकः ॥ १ ॥
1.2.1 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दे (syllables merged)
पदोपर्वतने स्थानं षण्णयं त्रिविधः क्रमात् ।नानाद्रुमलतावीरुन्निर्झरप्रान्तशीतलैः ॥ २ ॥
1.2.2 · p. 4
अनुष्टुप्
सुमृगैः कुरराद्यैश्च पक्षिव्रातसमन्वितैः ।वनैर्व्याप्तं ताम्रभुवं सस्यैर्व्रीहियवादिभिः ॥ ३ ॥
1.2.3 · p. 4
अनुष्टुप्
क्लीबेऽनूपं पुंसि कच्छः स्यादथास्य विपर्यये ।नवैरल्पतृणैर्व्याप्ता धूसरा भूः फलाधिका ॥ ४ ॥
1.2.4 · p. 4
अनुष्टुप्
यत्र प्रदीप्तार्ककरैर्गावोजाभूरिदुग्धदाः ।नीरुजः प्राणिनः कूपजलपाजाङ्गलः स च ॥ ५ ॥
1.2.5 · p. 4
अनुष्टुप्
यत्र युक्तं द्वयोर्लक्ष्म गोधूमचणकावृतम् ।यावनालामाषयवैर्व्याप्तं साधारणं त्रिषु ॥ ६ ॥
1.2.6 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः ।हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ॥ ७ ॥
1.2.7 · p. 5
अनुष्टुप्
प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ।प्रत्यन्तोनार्यदेशः स्यान्मध्यं विन्ध्यहिमागयोः ॥ ८ ॥
1.2.8 · p. 5
अनुष्टुप्
पूर्वपाश्चात्ययोरब्ध्योर्नदी यावच्छरावती ।आर्यपर्यायतः स्थानमावर्त्तमपि वाच्यवत् ॥ ९ ॥
1.2.9 · p. 5
अनुष्टुप्
स्त्रियामाचारवेदी स्यात्सर्वधर्मपुरस्कृतम् ।गङ्गायमुनयोर्मध्यमन्तर्वेदिः शमस्थली ॥ १० ॥
1.2.10 · p. 5
अनुष्टुप्
ब्रह्मावर्त्तः सरस्वत्या दृषद्वत्याश्च मध्यभूः ।ब्रह्मवेदिः कुरुक्षेत्रं पञ्चरामह्रदान्तरा ॥ ११ ॥
1.2.11 · p. 5
अनुष्टुप्
धर्मक्षेत्रं विशसनं कुरुजाङ्गलमित्यपि ।पाण्डूदकृष्णतोभूमः पाण्डूदकृष्णभूमिके ॥ १२ ॥
1.2.12 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
कुमुद्वान्कुमुदप्रायो वेतस्वान्बहुवेतसः ।नडकीयो नडप्रायः स्यान्नड्वान्नड्वलश्च सः ॥ १३ ॥
1.2.13 · p. 5
अनुष्टुप्
शाद्वलः शादहरितः सजम्बालोऽतिपङ्किलः ।अपि नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः ॥ १४ ॥
1.2.14 · p. 5
अनुष्टुप्
नदीदेवार्थयोर्मातृकार्थकः स्यादनुक्रमात् ।नदीवृष्ट्यम्बुजैः सस्यैर्युक्तो द्वैमातृकश्च सः ॥ १५ ॥
1.2.15 · p. 6
अनुष्टुप्
ऊषरस्तूषवानूषो ह्रस्वादिरपि कीर्तितः ।स्त्री शर्करा तु वा भूम्नि देशे शार्करिलस्त्रिषु ॥ १६ ॥
1.2.16 · p. 6
अनुष्टुप्
शार्करः शर्करावांश्च देशे चान्यत्र च त्रिषु ।सिकता स्त्री बहुत्वे वा देशे सिकतिलस्त्रिषु ॥ १७ ॥
1.2.17 · p. 6
अनुष्टुप्
सैकतः सिकतावांश्च देशे चान्यत्र च त्रिषु ।स्त्रियां वा भूम्नि सिकता वालुका वालिकापि च ॥ १८ ॥
1.2.18 · p. 6
अनुष्टुप्
पाण्डुभूमप्रभृतयश्चान्यलिङ्गाः स्थली न ना ।सुराज्ञि देशे राजन्वान् कुराजनि तु राजवान् ॥ १९ ॥
1.2.19 · p. 6
अनुष्टुप्
कुमुद्वदाद्यास्त्रिष्वेत इतः पुंभूम्नि चैकवत् ।स्याद्वह्लिकस्तु वह्लीको वाह्लीको वाह्लिकोपि च ॥ २० ॥
1.2.20 · p. 6
अनुष्टुप्
चोलश्चोडोथ यवनो जवनः पारसीककः ।स च पारसिकोपि स्यात् वानायुस्तु वनावुकः ॥ २१ ॥
1.2.21 · p. 6
अनुष्टुप्
दरत्स्त्रियां च दरदा कन्यकुब्जः कुशस्थलम् ।कन्याकुब्जः कान्यकुब्जः कोशलः कोसलोपि च ॥ २२ ॥
1.2.22 · p. 6
अनुष्टुप्
तीरभुक्तिस्तीरभुक्तो विदेहो मिथिलः समाः ।चेदिश्चैद्यो डहालस्तु डाहालो डाहलश्च सः ॥ २३ ॥
1.2.23 · p. 6
अनुष्टुप्
देशे तु पुंसि काशिः स्याद्वाराणसवराणसौ ।शुक्तिकः सुक्तिकस्तुल्यौ समौ कौंकणकोंकणौ ॥ २४ ॥
1.2.24 · p. 7
अनुष्टुप्
कंपिल्लोऽपि च कांपिल्लः कांपिल्ल्योपि निगद्यते ।अपि कौंपिल्लकौंपिल्ल्यौ कामरूपस्तु कामरूः॥ २५॥
1.2.25 · p. 7
अनुष्टुप्
श्रीहट्टो हरिकेलिः स्याच्छ्रीहटोपि क्वचिद्भवेत् ।ब्राह्मं क्षात्रं च वैशेयं शौद्रं क्षेत्रं चतुर्विधम् ॥ २६ ॥
1.2.26 · p. 7
अनुष्टुप्
क्षेत्रं ब्राह्मं जलकुशमृगपक्षिगणावृतम् ।सद्वृक्षैः फलदैर्युक्तं श्वेतमृद्वैधमित्यथ ॥ २७ ॥
1.2.27 · p. 7
अनुष्टुप्
क्षात्रं क्रूरमृगव्यालघोरघोषिगणावृतम् ।आरक्तभूमिकं वृक्षैः कण्टकाढ्यैर्विराजितम् ॥ २८ ॥
1.2.28 · p. 7
अनुष्टुप्
तच्छातक्रतवं चाथ वैशेयं तु निधानवत् ।सिद्धकिन्नरगन्धर्वदैवतौघविराजितम् ॥ २९ ॥
1.2.29 · p. 7
अनुष्टुप्
कौबेरं पीतमृत्कं तदथ शौद्रं तु कृष्णमृत् ।सर्वकर्षुकलोहानां कर्षकं बहुसस्यदम् ॥ ३० ॥
1.2.30 · p. 7
अनुष्टुप्
क्रूराक्रूरमृगोपेतं वर्वूरखदिरावृतम् ।तद्भौमं स्यादथ क्षेत्रे तत्तद्वस्तूद्भवोचिते ॥ ३१ ॥
1.2.31 · p. 7
अनुष्टुप्
यव्यं यवक्यं यावेयं षाष्टिकं व्रैहिकं च तत् ।व्रैहेयमाणवीनं स्यादाणवं शाकशाकटम् ॥ ३२ ॥
1.2.32 · p. 7
अनुष्टुप्
शाकशाकटिनं तिल्यं तैलीनं माष्यमित्यपि ।माषीनमुम्यमौमीनमौमं मौद्गीनमित्यपि ॥ ३३ ॥
1.2.33 · p. 8
अनुष्टुप्
मौद्गं भङ्ग्यं च भाङ्गीनं भाङ्गं स्यात्कोद्रवीणकम् ।बीजाकृतं तूप्तकृष्टं सीतं हल्यं हले कृतम् ॥ ३४ ॥
1.2.34 · p. 8
अनुष्टुप्
त्रिगुणाकृतं त्रिहल्यं त्रिसीत्यं द्विगुणाकृतम् ।द्विहल्यं चैकहल्यादि ज्ञेयं शम्बाकृतं च तत् ॥ ३५ ॥
1.2.35 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
द्रोणकाढकवापादौ द्रौणिकाढकिकादिकम् ।खारीवापे तु खारीकमस्त्रियां वप्र इत्यपि ॥ ३६ ॥
1.2.36 · p. 8
अनुष्टुप्
केदारश्च पुनर्वाट एषां कैदारिकं गणे ।एषूद्भूतं वस्तुजातं त्रिषु स्यादकृते खिलम् ॥ ३७ ॥
1.2.37 · p. 8
अनुष्टुप्
तथा चाप्रहतं क्लीबे मरुर्धन्वानुभौ नरि ।गोष्ठं गोस्थानकं क्लीबे गौष्ठीनं भूतपूर्वकम् ॥ ३८ ॥
1.2.38 · p. 8
अनुष्टुप्
तदाशितंगवीनं स्याद्गावो यत्राशिताः पुरा ।कल्पद्रौ केशवकृते भूमिस्कन्धप्ररोहके ।देशप्रकाण्डः प्रथमः साङ्गोयं सिद्धिमागतः ॥ ३९ ॥
1.2.39 · p. 8
अनुष्टुप्