कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

भूकाण्डः · वनौषधिवर्गः (15/15)

प्रतिकी कार्षापणिकी शौर्पं शौर्पिकमित्यपि ।तथा द्विशूर्पकक्रीते द्विशूर्पं च द्विशौर्पिकम् ।पाराय[139a]णिकमेवं स्याद्द्वैपारायणिकं तथा ।द्विकार्षापणतुल्यं स्याद्द्विकार्षापणिकं * नौ ॥ ७६ ॥
2.3.76 · p. 289
अनुष्टुप्metre not read in every line
शातमानं वैशतिकं साहस्रं वासनं पृथक् ।अध्यर्द्धप्रतिकं चाध्यर्द्धकार्षापणिकं तथा ॥ ७७ ॥
2.3.77 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
अध्यर्द्धकार्षापणवदथ द्विशतमानवत् ।द्विशातमानं संप्रोक्तमथ द्वैनिष्किकं मतम् ॥ ७८ ॥
2.3.78 · p. 289
अनुष्टुप्
द्विनिष्कं बहुनिष्कं तु बहुनैष्किकमुच्यते ।द्वैबिस्तिकं द्विबिस्तं स्यात्त्रिबिस्ताद्येवमुन्नयेत् ॥ ७९ ॥
2.3.79 · p. 289
अनुष्टुप्
अथोच्यतेऽध्यर्द्धविंशतिकीनमथ सम्मतम् ।द्विखारीकं तथाध्यर्द्धखारिकाद्येवमुन्नयेत् ॥ ८० ॥
2.3.80 · p. 289
अनुष्टुप्
खारीकं च द्विपण्यं च द्विमाष्यं च द्विमाष्यवत् ।अध्यर्द्धशाण्यमध्यर्द्धशाणं स्यात्तु द्विशाण्यवत् ॥ ७१ ॥
2.3.71 · p. 289
अनुष्टुप्
302-311द्वैशाणं चद्विशाणं स्यादथास्य परिमाणकम् ।स्यात्प्रस्थः प्रास्थिकोऽसौ स्यात्पञ्चकः पञ्चसंघकः ॥ ७२ ॥
2.3.72 · p. 289
अनुष्टुप्metre not read in every line
पञ्चच्च पञ्चको वर्गो दशद्दशक इत्यपि ।क्लीबे सत्यापनं[139b] सत्यंकारः सत्याकृतिः स्त्रियाम् ।गणेयं गणनीयं स्यात्संख्यातं गणितं त्रिषु ॥ ७३ ॥
2.3.73 · p. 290
अनुष्टुप्metre not read in every line
संख्या त्वेकादिका सा तु संख्येयेष्वादश त्रिषु ।विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ॥ ७४ ॥
2.3.74 · p. 290
अनुष्टुप्
विंशत्यादेस्तु संख्यायां द्वित्वाद्यपि समुन्नयेत् ।संख्यायामपि संख्येये त्र्यादयो भूम्नि सम्मता ॥नित्यं द्विवचनान्तो द्वावुभौ न तु तथोभयः ।एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवक्रमात् ॥दशैकादश संप्रोक्ता द्वादश स्युस्त्रयोदश ॥ ७५ ॥
2.3.75 · p. 290
अनुष्टुप्
एकोनविंशतिस्त्वेका द्विविंशतिरिमे समे ।द्विचत्वारिंशता तुल्या द्वाचत्वारिंशदित्यपि ॥ ७६ ॥
2.3.76 · p. 290
अनुष्टुप्
अष्टाचत्वारिंशदष्टचत्वारिंशसमार्थका ।त्रयश्चत्वारिंशति स्युस्त्रिचत्वारिंशदित्यपि ॥ ७७ ॥
2.3.77 · p. 290
अनुष्टुप्
द्वापञ्चाशद्द्विपञ्चाशत्षष्टिस्तु स्यात्त्रिलिङ्गका ।दशानां तु समीपे ये भवन्त्युपदशा हि ते ॥ ७८ ॥
2.3.78 · p. 290
अनुष्टुप्
आसन्नविंशा त्वेकोनविंशतिश्चैकविंशतिः ।पञ्च षड्वा पञ्च[140a]षाः स्युर्द्वित्रा द्वौ च त्रयोऽपि च ।सुचतुष्कश्च सुचतुरोऽचतुरस्तु विवर्जितः ॥ ७९ ॥
2.3.79 · p. 290
अनुष्टुप्metre not read in every line
चतुर्भिः स्याद्विचतुरस्त्रय्यां तूपदशादयः ।तयबन्तं नपुंसि स्यादथ पञ्चतयं भवेत् ॥ ८० ॥
2.3.80 · p. 290
अनुष्टुप्
स्युर्यस्य पञ्चावयवा द्वयी तु द्वितयी भवेत् ।त्रितयी तु त्रयी चाथोभयी चैकादशं पुनः ॥ ८१ ॥
2.3.81 · p. 290
अनुष्टुप्
एकादशाधिकं यत्स्याच्छतं चापि सहस्रकम् ।समानजातीयत्व एव प्रकृतिप्रत्ययार्थयोः ॥ ८२ ॥
2.3.82 · p. 291
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रिंशं तु त्रिंशदधिकं शतं विंशं च तादृशम् ।एकत्रिंशं चैकविंशं द्विम( त ? )यं तु द्विभागवत् ॥ ८३ ॥
2.3.83 · p. 291
अनुष्टुप्
एकादशः पूरणे स्यात्पञ्चमः पञ्चपूरणः ।षष्ठः षण्णां कतीनां तु पूरणः कतिथो मतः ॥ ८४ ॥
2.3.84 · p. 291
अनुष्टुप्
स्यात्कतिपयथोऽप्येवं चतुर्णां तु चतुर्थवत् ।तुरीय-तुर्यौ पूगानां बहूनां च गणस्य च ॥ ८५ ॥
2.3.85 · p. 291
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
संघस्य पूरणे पूगतिथे बहुतिथस्तथा ।क्रमाद्भवेद्गणतिथस्तथा संघतिथः पृथक् ॥ ८६ ॥
2.3.86 · p. 291
अनुष्टुप्
स्या[140b]द्विंशतितमो विंशो विंशतेः पूरणो हि यः ।यावतां तावतां यावति * * * * [थ-तावति ]थौ क्रमात् ॥ ८७ ॥
2.3.87 · p. 291
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वयोर्द्वितीयः संप्रोक्तस्त्रयाणां स्यात्तृतीयकः ।एकषष्टस्त्वेकषष्टितमस्तत्पूरणो हि यः ॥ ८८ ॥
2.3.88 · p. 291
अनुष्टुप्
षष्टेः षष्टितमोऽप्येवं सहस्रतमकः पुनः ।सहस्रपूरणोऽथैकसहस्रतम ईदृशः ॥ ८९ ॥
2.3.89 · p. 291
अनुष्टुप्
तथा शततमः प्रोक्तो यो षट्शततमस्तथा ।अक्तं तु स्यात्परिच्छिन्नं कियत्तु कति संस्मृतम् ।यावांस्तावांस्तथैतावान्यदादिपरिमाणके ॥ ९१ ॥
2.3.91 · p. 291
अनुष्टुप्
एकादशादयस्त्रय्यां पङ्क्तिस्तु दशवाचिका ।आब्धिभूतरसादीनां ज्ञेयाः संख्या हि लोकतः ॥ ९२ ॥
2.3.92 · p. 291
अनुष्टुप्
चतुरादिप्रकारे तु चतुर्धा पञ्चधा तथा ।षोढा षड्धाथैकथा स्यादैकध्यं च द्विधा पुनः ॥ ९३ ॥
2.3.93 · p. 291
अनुष्टुप्
द्वेधा द्वैधं त्रैधमेवं त्रिधा त्रेधा च तादृशम् ।अव्ययं धान्तमेधान्तं ध्यमुञ् क्लीबे धमुञ्तथा ॥ ९४ ॥
2.3.94 · p. 292
अनुष्टुप्
त्रिषु भागे द्वितीयः स्याद्द्वै[141a]तीयीकश्च स स्मृतः ।तार्तीयीकस्तृतीयः स्याद्विधायास्तु स चेद्भवेत् ॥ ९५ ॥
2.3.95 · p. 292
अनुष्टुप्metre not read in every line
तदा द्वितीय एव स्यात्षष्ठः षाष्ठः समावुभौ ।द्वौ द्वौ पादौ द्विपदिका द्वे द्वे द्विशतिका शता ॥एवं चतुर्मोदकिकेत्यादयोऽपि स्त्रियां मताः ।एकादितो दशगुणं यथोत्तरमुदीरितम् ॥ ९६ ॥
2.3.96 · p. 292
अनुष्टुप्
एकं दश त्वलिङ्गं स्याच्छतं त्वस्त्री सहस्रकम् ।अस्त्री स्यादयुतं लक्षं न ना प्रयुतमस्त्रियाम् ॥ ९७ ॥
2.3.97 · p. 292
अनुष्टुप्
स्त्री कोटिरर्बुदं त्वस्त्री स्यादब्जं खर्वमन्तिमे ।निखर्वं च महापद्मं शङ्कुर्द्वंद्वेऽथ वारिधिः ॥ ९८ ॥
2.3.98 · p. 292
अनुष्टुप्
अन्त्यं मध्यं परार्द्धं स्यान्न संख्यास्ति ततः परम् ।असंख्यद्वीपबाह्यादि पुद्गलात्माद्यनन्तकम् ॥ ९९ ॥
2.3.99 · p. 292
अनुष्टुप्
परःशतं परोलक्षं यच्छ * [ता] दिकतः परम् ।क्लीबाव्ययं भवेत्पारे परार्द्धं तस्य पारगम् ॥ १०० ॥
2.3.100 · p. 292
अनुष्टुप्
पोतुः स्यात्पौतवाध्यक्षो भेद्यवन्मानशोध्यकः ।ऊर्ध्वमानं किलोन्मानं प्रतिमानं च कथ्यते ॥ १ ॥
2.3.1 · p. 292
अनुष्टुप्
[141b]आयामस्तु प्रमाणं स्यात्परिमाणं तु सर्वतः ।तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः ॥ २ ॥
2.3.2 · p. 292
अनुष्टुप्
पाय्यं हस्तादिभिस्तत्र वंशी तु त्रसरेणुकः ।षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका ॥ ३ ॥
2.3.3 · p. 292
अनुष्टुप्
त्रिराजिकः सर्षपोऽथ यवोऽष्टाभिश्च सर्षपैः ।गुञ्जा चतुर्यवा तास्तु पञ्च स्युर्माषकोऽस्त्रियाम् ॥ ४ ॥
2.3.4 · p. 292
अनुष्टुप्
धान्यको हेममाषोऽस्त्री स्यात्तत्र हेम नपुंसके ।द्वे कृष्णले रूप्यमाषस्तथा धान्यकणा दश ॥कैश्चित्तु सप्तगुञ्जाभिर्माषकः परिकीर्त्यते ।चतुर्माषस्तु धरणः शाणष्टङ्कश्च न स्त्रियाम् ॥निष्कोऽपि न स्त्री गद्याणो माषकैः षड्भिरीरितः ।क्षुद्रको द्रङ्क्षणः कोलो वटक*[ स्त्व? ]ष्टयुग्मकम् ॥ ५ ॥
2.3.5 · p. 292
metre not recognisednearly अनुष्टुप्
कोलद्वयं तु कर्षोऽस्त्री स्यादक्षः पाणिमानिका ।तिन्दुकं स्यात्पाणितलं किंचित्पाणिः पिचुश्च सः ॥ ६ ॥
2.3.6 · p. 292
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पा (wrong syllable)
बिडालपदकं क्लीबे स्त्रियां षोडशिका मता ।करमध्यो हंसपदोदुम्बरे कवलग्रहः ॥ ७ ॥
2.3.7 · p. 292
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हं (wrong syllable)
सुवर्णको विस्तो[142a] हेम्नोक्षे कर्षाभ्यां शुक्तिरष्टमी ।शुक्तिद्वयं पलं मुष्टिश्चतुर्थी षोडशी वशा (?) ॥ ८ ॥
2.3.8 · p. 292
अनुष्टुप्metre not read in every line
प्रकुञ्चो विचमात्रं च हेम्नस्तत्कुरुविस्तकः ।रूप्य-माषौ षोडशभिर्द्धरणो राजतो भवेत् ॥ ९ ॥
2.3.9 · p. 292
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षो (wrong syllable)
शतमानं तु न स्त्री स्याद्दशती राजतं पलम् ।पलद्वयं तु प्रसृतः प्रसृतिः स्त्री च कथ्यते ॥ १० ॥
2.3.10 · p. 292
अनुष्टुप्
प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्द्धशरावकः ।अष्टमानं च कुडवः सेटकः कुटपश्च सः ॥ ११ ॥
2.3.11 · p. 292
अनुष्टुप्
कुडवौ द्वौ सरावोऽस्त्री प्रस्थोऽस्त्री तौ च मानिका ।त्रिष्वाढकश्चतुःप्रस्थो द्रोणोऽस्त्री चतुराढकः ॥ १२ ॥
2.3.12 · p. 292
अनुष्टुप्
नल्वणः कलशस्त्रय्यां राशिर्नोन्मनमन्तिमे ।द्रोणाभ्यां शूर्पकुम्भौ *[ च ] चतुःषष्टिशरावकः ॥ १३ ॥
2.3.13 · p. 292
अनुष्टुप्
शूर्पाभ्यां तु भवेद्द्रोणी गोणी स्त्री च वहो नरि ।गोणीभिः पञ्चभिः क्रीते पञ्चगोणिर्विशेष्यवत् ॥द्रोण्यश्चतस्रः खारी स्यात्पलानां तु शतं तुला ।ऊर्णापलशते तु स्यात्कम्बलं मिथुने न तत् ॥ १४ ॥
2.3.14 · p. 292
अनुष्टुप्
स्यात्तु[142b]लाविंशतिर्भार आचितो दशभारकः ।शाकटीनः * * * [शाकट]श्च शलाटश्चाचितोऽपि सः ॥ १५ ॥
2.3.15 · p. 294
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र्भा (syllables merged)
स्याद्व्या * [व ?]हारिकद्रव्ये नाणकं न स्त्रियां नरि ।भागस्तु रूप्यकस्यार्द्धं * * * * * * * * ॥ १६ ॥
2.3.16 · p. 294
अनुष्टुप्metre not read in every line
स जातरूपः सौवर्णो राजतः कलधौतकः ।दीनारस्य तु भागे स्याद्धाणको नरलिङ्गकः ।* * [पण-] कर्षापणावस्त्री कार्षिकस्ताम्रिकः पणः ॥ ११७ ॥
2.3.117 · p. 294
अनुष्टुप्
पणश्चतुष्काकिणीको द्रम्मः षोडशभिः पणैः ।निष्कोऽस्त्री षोडशद्रम्मास्त्रिषु भागस्य वृद्धिमत् ॥ १८ ॥
2.3.18 · p. 294
अनुष्टुप्
भाग्यं च भागिकं स्त्री तु विंशत्यादिर्हि भागिका ।द्विखारं तु द्विखारि स्यात्खारिद्वयसमित्यपि ॥ १९ ॥
2.3.19 · p. 294
अनुष्टुप्
स्त्रियां तु खारीद्वयसी तथा स्यादर्द्धखारवत् ।अर्द्धखारि च यत्खारी खार्यर्द्धादिप्रमाणकम् ॥ २० ॥
2.3.20 · p. 294
अनुष्टुप्
द्रव्यं द्युम्नं वित्तं रमृक्थं मघं रिक्थम् ।स्तः स्वापतेय-वसुनी द्रविणं न स्त्री न राः क्लीबे ॥ २१ ॥
2.3.21 · p. 294
metre not recognised
अर्थो विभवो लभसो नरि न स्त्री स्वो हिरण्य-दाये च ।[143a]धनमप्यस्त्री शेवं पुनरन्त्ये स्थाप्यविन्नो स्यात् ॥ २२ ॥
2.3.22 · p. 294
आर्या
धनवान्धनिको हिरण्यवो-ऽप्ययमाढ्योऽपि धनीभ्य ऋद्धिमान् ।अथ लक्ष्मण ईरितः श्रियासहितः श्लील उदीरितोऽपि सः ॥ २३ ॥
2.3.23 · p. 294
वियोगिनी
च्व्यर्थे त्वाढ्यंकरणं यस्त्वाढ्यो न भूतपूर्वः स्यात् ।आढ्यचर एष धनको हिरण्यकोऽसौ धनादिकामो यः ॥ २४ ॥
2.3.24 · p. 294
उद्गीतिःmetre not read in every line
केशवचरं च केशवरूप्यं चोक्तं गवादिविन्नं यत् ।स्यात्केशवस्य पूर्वं भूतं धनवन्मुखास्त्रय्याम् ॥ २२५ ॥
2.3.225 · p. 294
आर्या