All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
भूमिकाण्डः · वैश्याध्यायः (1/2)
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे क्षत्रियाध्यायः
भूमिकाण्डे वैश्याध्यायः
अर्या भूमिस्पृशो वैश्या ऊरव्या उरुजा विशः ।आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १ ॥
3.8.1 · p. 123
अनुष्टुप्
मृतं क्ली याचितं भैक्षममृतं स्यादयाचितम् ।उंछो धान्यश आदानं कणिशाद्यार्जनं सिलम् ॥ २ ॥
3.8.2 · p. 123
अनुष्टुप्
ऋतं तदुभयं स्त्री तु कृषिः क्ली प्रमृतानृते ।सत्यानृतं तु वाणिज्यं वणिज्या वणिजा स्त्रियौ ॥ ३ ॥
3.8.3 · p. 123
अनुष्टुप्
पाशुपाल्यं जीववृत्तिः स्यादृणं पर्युदंचनम् ।तदवृद्धिकमुद्धारः कुसीदं तु सवृद्धिकम् ॥ ४ ॥
3.8.4 · p. 123
अनुष्टुप्
वार्धुष्यं वार्धुषं धान्यवृद्धिर्वृद्धिः पुनः कला ।सा कायिकान्वहं देया प्रतिमासं तु कालिका ॥ ५ ॥
3.8.5 · p. 123
अनुष्टुप्
कारिका तु स्वयं दृष्टा चक्रवृत्तिस्तु वृद्धिजा ।परिवर्तेन निर्वृत्तं वस्तु स्यादापमित्यकम् ॥ ६ ॥
3.8.6 · p. 123
अनुष्टुप्
सेवा श्ववृत्तिरेताश्च याजनाद्याश्च वृत्तयः ।त्रिष्वालेखात्कुडुंबी तु क्षेत्राजीवः कृषीवलः ॥ ७ ॥
3.8.7 · p. 123
अनुष्टुप्
कर्षकोऽथ द्वैगुणिको वृद्ध्याजीवः कुसीदिकः ।वार्धुषी स्याद्वार्धुषिके प्रयोक्तर्युत्तमर्णकः ॥ ८ ॥
3.8.8 · p. 123
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्वै (wrong syllable); pāda 3, syllable 5 द्वा (wrong syllable)
ग्रहीतर्यधमर्णः स्यादाप्तः प्रत्ययितः समौ ।मध्यस्थः प्राश्निकः साक्षी मूली स्याद्दुष्टसाक्षिणि ॥ ९ ॥
3.8.9 · p. 123
अनुष्टुप्
कूटसाक्षी मृषासाक्षी प्रतिभूर्लग्नकोंऽतरः ।अभियोक्ता शिरोवर्ती शिरस्थोऽथाभियुक्तके ॥ १० ॥
3.8.10 · p. 123
अनुष्टुप्
संदंशितोऽभिशस्तश्च वसुराक्षारिकोऽपि च ।सदेवासत्कृतं सभ्यैस्तिरितं साक्षिणा तु चेत् ॥ ११ ॥
3.8.11 · p. 123
अनुष्टुप्
अनुशिष्टमथो लेखो लेख्यं दिव्यन्तु दैविकम् ।न्यासस्तूपनिधिस्थाप्यनिक्षेपा न्यस्तकोऽस्त्रियाम् ॥ १२ ॥
3.8.12 · p. 124
अनुष्टुप्
सदस्या देशिकाः स्थेयाः सभास्ताराः सभासदः ।सभ्याः सामाजिकाश्चाथ गोष्ठ्यास्था परिषत् सभा ॥ १३ ॥
3.8.13 · p. 124
अनुष्टुप्
समज्या तारणी संसद्घटा स्थानं सदोऽप्यना ।द्रष्टरि व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः ॥ १४ ॥
3.8.14 · p. 124
अनुष्टुप्
न्यायोऽक्षो व्यवहारोऽथ संप्रश्नः संप्रधारणम् ।समर्थनं च संस्था तु मर्यादा धारणा स्थितिः ॥ १५ ॥
3.8.15 · p. 124
अनुष्टुप्
अर्थिनो वचनं भाषा स्यात्प्रत्यर्थिन उत्तरम् ।कारणन्त्वभ्यवस्कन्दः प्रत्यवस्कन्द इत्यपि ॥ १६ ॥
3.8.16 · p. 124
अनुष्टुप्
अवस्कन्दश्च भाषार्थमंगीकृत्य विशेषगीः ।केदारः केदरः क्षेत्रमुर्वरा सर्वसस्यभूः ॥ १७ ॥
3.8.17 · p. 124
अनुष्टुप्
भूमिश्छिद्रं कृष्ययोग्या प्रहतं नालमुत्थितम् ।खिलं त्वप्रहतं स्थानमूषवत्यूषरेरिणौ ॥ १८ ॥
3.8.18 · p. 124
अनुष्टुप्
मौद्गीनकौद्रवीणाद्याः क्षेत्रे मुद्गादिसंभवे ।यव्यव्रैहेयशालेयषष्टिक्याः सयवक्यकाः ॥ १९ ॥
3.8.19 · p. 124
अनुष्टुप्
यवादेस्तिल्यतैलीनौ तिलस्योमाणुभंगतः ।माषाच्चैवं द्विरूपत्वं शाकाच्छाकिनशाकटौ ॥ २० ॥
3.8.20 · p. 124
अनुष्टुप्
एवं वास्तुकवार्ताकबालकाशेक्षुमूलकात् ।द्रोणाढकादिवापेषु द्रौणिकाढकिकादयः ॥ २१ ॥
3.8.21 · p. 124
अनुष्टुप्
खारीवापे तु खारीकं हल्यं सीत्यं च कृष्टके ।तृतीयाकृतं त्रिसीत्यं त्रिहल्यं त्रिगुणाकृतम् ॥ २२ ॥
3.8.22 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
त्रिष्कृष्ट एवं द्विष्कृष्टे शंबाकृतमिहाधिकम् ।बीजाकृतं तूप्तकृष्टं प्रहतप्रमुखास्त्रिषु ॥ २३ ॥
3.8.23 · p. 124
अनुष्टुप्
लोष्टोऽस्त्री दरिणिर्न क्ली लेष्टुर्ना मृत्तु मृत्तिका ।पुरीषं मृत्तिकाचूर्णं मृत्सा मृत्स्ना प्रशस्तमृत् ॥ २४ ॥
3.8.24 · p. 125
अनुष्टुप्
झरुका त्विष्टकाया विडूषस्तु क्षारमृत्तिका ।धूलिः स्त्रियां रजः पांसू रेणुः पुंस्यथ कर्दमे ॥ २५ ॥
3.8.25 · p. 125
अनुष्टुप्
दारिपत्परिपत्पंकचिकिलाश्च निषद्वरः ।शादावकीलजंबाला वप्रोऽस्त्री पालिराल्यपि ॥ २६ ॥
3.8.26 · p. 125
अनुष्टुप्
क्षेत्रमध्ये कृता साल्पा स्थाला स्यादथ लांगलम् ।हलं गोदारणं सीरमीषा सीरादिदण्डकः ॥ २७ ॥
3.8.27 · p. 125
अनुष्टुप्
निरीषः कृषकः फालः शम्या तु युगकीलकम् ।योक्त्रं तु योत्रमाबन्धः खनित्रमवदारणम् ॥ २८ ॥
3.8.28 · p. 125
अनुष्टुप्
गोदारणं तु कुन्दालमभ्रिः स्त्री क्ष्णुस्तु तन्मुखे ।प्रतोदः प्राजनं तोत्रं कोटिशो लोष्टभञ्जनः ॥ २९ ॥
3.8.29 · p. 125
अनुष्टुप्
दात्रं लवित्रमसिदो योऽस्य मुष्टिस्स वण्टकः ।स्यात्समीकरणं मत्यं सीता लांगलपद्धतिः ॥ ३० ॥
3.8.30 · p. 125
अनुष्टुप्
न स्त्री मेथिः खले पाली खलधानं पुनः खलः ।व्रीहिर्वरेणुको वीज्यो धान्यं सस्यं लवेटिका ॥ ३१ ॥
3.8.31 · p. 125
अनुष्टुप्
व्रीहयः स्तंबकरयः शालयः श्वेततण्डुलाः ।सुगन्धिको महाशाली रक्तशालिः सलोहितः ॥ ३२ ॥
3.8.32 · p. 125
अनुष्टुप्
षष्टिको गर्भपाकी स्यात्प्रवरः शालियष्टिकः ।कलापकास्तु कलमा हायनास्तु महाबुसाः ॥ ३४ ॥
3.8.34 · p. 125
अनुष्टुप्
माषस्तु मलदो नन्दी घरी बीजवरो बली ।वृष्यो महावृषो गुच्छा कुलिंगाटी फलांकुरा ॥ ३५ ॥
3.8.35 · p. 125
अनुष्टुप्
मुद्गस्तु प्रथनो लोभ्यो बलांगो हरितो हरिः ।पीतेऽस्मिन्वसुखण्डीरप्रवेलजयशारदाः ॥ ३६ ॥
3.8.36 · p. 126
अनुष्टुप्
सुराष्ट्रचीनचक्षुष्या हरिमन्थार्धरूपकौ ।कृष्णे प्रवरवासन्तौ हरिमन्थजशिंबिकौ ॥ ३७ ॥
3.8.37 · p. 126
अनुष्टुप्
जर्तिलोऽरण्यजतिलो जालकश्चूलिकस्तिलः ।कृष्णेऽस्मिंस्तिलके (षण्डे) पिञ्जपेजौ तिलात् परौ ॥ ३९ ॥
3.8.39 · p. 126
अनुष्टुप्metre not read in every line
तिलपुष्पं वज्रपुष्पं मसुरस्तु मसूरकः ।मंगल्यं पृथुसूप्यश्च व्रीहिकंको मसूरिका ॥ ४० ॥
3.8.40 · p. 126
अनुष्टुप्
कदंबकस्तु शुभकः सर्षपोऽस्मिन् पुनः सिते ।त्रिष्टुभभ्रात्ररक्षोघ्नाः शठः सिद्धार्थतोटकौ ॥ ४१ ॥
3.8.41 · p. 126
अनुष्टुप्
पक्तिका त्रिष्टुभा चास्मिन् गौरेऽथो राजसर्षपे ।क्षुधा क्षुधाभिजननस्त्वाष्ट्रको राजिकासुरी ॥ ४२ ॥
3.8.42 · p. 126
अनुष्टुप्
वंशवर्णे कृष्णवर्णः संवर्तो वातुलश्चणः ।कलायः स्यात् कालपूरः खण्डिकः कालपूरकः ॥ ४३ ॥
3.8.43 · p. 126
अनुष्टुप्
पूरकोऽप्योलहा जाड्यः वर्तुलेऽत्र सतीनकः ।खुडारे त्रिपुटः खेलौ रंकुटी तु हरेणुकः ॥ ४४ ॥
3.8.44 · p. 126
अनुष्टुप्
स्नेहपूरे तु फलकः कर्षायौ पाकचूडकौ ।सुवर्चलामसृण्यौ च क्षुमा चोमाप्यतस्यपि ॥ ४५ ॥
3.8.45 · p. 126
अनुष्टुप्
खल्वे तु पवनिष्पावौ शिंबिकास्य प्रियैलिका ।अलसान्द्रे राजमाषो निष्पावः श्वेतशिंबिका ॥ ४६ ॥
3.8.46 · p. 126
अनुष्टुप्
काकाण्डः स्याच्चोदनिका कृष्णशिंबिर्विचक्षणा ।कृष्णवृन्ते खलकुलं ताम्रवृन्तः कुलस्थकः ॥ ४७ ॥
3.8.47 · p. 126
अनुष्टुप्
प्रचूडकः कफहरी प्रवृत्तिश्च कुलुत्थिका ।आढकी तुवरी वल्ला सौराष्ट्री करवीरका ॥ ४८ ॥
3.8.48 · p. 127
अनुष्टुप्
पतंगना च पृथ्वी सा वर्णा स्यात् पाटलिंगिका ।छत्रा कुस्तुंबरी धान्या धन्या धाना धनीयिका ॥ ४९ ॥
3.8.49 · p. 127
अनुष्टुप्
कुमारी मुसली वंश्या गडूची कटुकैषणा ।सुचरित्रा च धन्याकधन्येयकतकानि च ॥ ५० ॥
3.8.50 · p. 127
अनुष्टुप्
कुस्तुंबुरु च धान्यं च भृंगा स्यान्मातुलानिका ।यवे रूढो दीर्घशूकः शितशूको महाबुसः ॥ ५१ ॥
3.8.51 · p. 127
अनुष्टुप्
आरूढश्च पवित्रश्च याज्ञिकोऽश्वप्रियोऽपि च ।महायवे प्ररूढोऽल्पे वनाशोऽतियवोऽपि च ॥ ५२ ॥
3.8.52 · p. 127
अनुष्टुप्
यावके बलकुल्माषौ यवके तोयपर्णिका ।गोधूमस्तु म्लेच्छभोज्यः सुमनः श्लेष्मलो गुरुः ॥ ५३ ॥
3.8.53 · p. 127
अनुष्टुप्
शतपर्वा बहुवक्रः कोद्रवे कोरदूषकः ।वालनाटकवाट्यालौ वरकः कूरदूषकः ॥ ५४ ॥
3.8.54 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable)
विरूक्षकोद्रवोन्नालमदना वनकोद्रवे ।चिक्काणकंगुनी कंगुः प्रियंगुः पीततण्डुला ॥ ५५ ॥
3.8.55 · p. 127
अनुष्टुप्
शीतकंगुस्तु मुसुटी पीतकंगुस्तु मागवी ।श्यामकंगुस्तु मधुका यावनालस्तु जोनलः ॥ ५६ ॥
3.8.56 · p. 127
अनुष्टुप्
जूर्णाह्वयो देवधान्यं जोन्नाला बीजपुष्पिका ।नीवारस्तु वृषावाहः प्रतीचो मुनिसेवितः ॥ ५७ ॥
3.8.57 · p. 127
अनुष्टुप्
अव्यादा लोलिका सेव्या जलजा तृणधान्यकम् ।श्यामाको नीलपुष्पः स्यात्स्मयाकश्च मुनिप्रियः ॥ ५८ ॥
3.8.58 · p. 127
अनुष्टुप्
स्त्री काककंगुश्चीनः स्यात्तृणकोलोऽप्युदारकः ।गर्मुत्पुनर्गर्मुटिका घुलुंछस्तु गवीधुका ॥ ५९ ॥
3.8.59 · p. 127
अनुष्टुप्
ज्योतिष्मती सुलवणा गोजिह्वा भक्षिणी शिवा ।गुन्द्रा कुत्रफला गुच्छा क्षेत्रिया बालनायिका ॥ ६० ॥
3.8.60 · p. 128
अनुष्टुप्
रूक्षणीया जन्तुफला गवेधुश्च गवेधुका ।गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका ॥ ६१ ॥
3.8.61 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज (wrong syllable)
गोरक्षतण्डुलश्चाथ शाको मर्कटकः समौ ।माषादयः शमीधान्ये शूकधान्ये यवादयः ॥ ६२ ॥
3.8.62 · p. 128
अनुष्टुप्
कोद्रवाद्याः कुधान्यानि व्रीहयः शालिकादयः ।स्तम्बे गुचक्षुपौ काण्डे नाली त्रय्यफला तु सा ॥ ६३ ॥
3.8.63 · p. 128
अनुष्टुप्
पलालोऽस्त्री कर्णिका स्त्री पूलोऽस्त्री तृणपञ्चिका ।कडङ्गरो बुसोऽथ स्यात् कणिशं धान्यमञ्जरी ॥ ६४ ॥
3.8.64 · p. 128
अनुष्टुप्
पीनकोशी शमी शिम्बा तीक्ष्णाग्रे शूकमस्त्रियाम् ।धान्यराशिस्तु वलजा वरण्डस्तृणसञ्चयः ॥ ६५ ॥
3.8.65 · p. 128
अनुष्टुप्
गृहार्थोऽसौ कपोलूः स्त्री विक्षिप्तः खस्तरो ह्यसौ ।समौ प्रयामनीवाकौ क्रपुकात्प्राक् परे त्रिषु ॥ ६६ ॥
3.8.66 · p. 128
अनुष्टुप्
ऋद्धमावसितं धान्यं पूतं तु वहुलीकृतम् ।खलपूः स्याद्बहुकरश्छादिषेयं छदिस्तृणम् ॥ ६७ ॥
3.8.67 · p. 128
अनुष्टुप्
क्रायिकः क्रयिकः क्रेता विपूर्वाः क्रेयवस्तुदे ।क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रकम् ॥ ६८ ॥
3.8.68 · p. 128
अनुष्टुप्
विक्रेयं पणितव्यं च पण्येऽथ क्रपुकः क्रयः ।भेटकः प्रक्रयः क्रेणी विक्रयो विपणः पणः ॥ ६९ ॥
3.8.69 · p. 128
अनुष्टुप्
वस्नोऽर्घोऽवक्रयो मूल्यं बन्धः प्रणय आधिकः ।नीवी परिपणं मूलं धनं लाभोऽधिकं फलम् ॥ ७० ॥
3.8.70 · p. 128
अनुष्टुप्
परिवर्तो विनिमयो वैमेयो निमयोऽपि च ।सत्यङ्कारः पुनः सत्याकृतिः सत्यापनं च तत् ॥ ७१ ॥
3.8.71 · p. 128
अनुष्टुप्
पण्याजीवः सार्थवाहो नैगमो वाणिजो वणिक् ।वैदेहकः प्रापणिकः क्रयविक्रयिकोऽपि च ॥ ७२ ॥
3.8.72 · p. 129
अनुष्टुप्
विटपोऽर्थः स्वापतेयं रिक्थं पृक्थं धनं वसु ।वित्तं च द्रविणं द्युम्नं हेमरूप्यात्मकं तु तत् ॥ ७३ ॥
3.8.73 · p. 129
अनुष्टुप्
अकुप्यं कुप्यमन्यत्स्याद्रूप्यं तद्द्वयमाहतम् ।कोशमस्त्री हिरण्यं च हेमरूप्यं कृताकृतम् ॥ ७४ ॥
3.8.74 · p. 129
अनुष्टुप्
ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ।स्त्री शुण्ठिरूषणं विश्वभेषजं सिंहलं कटम् ॥ ७५ ॥
3.8.75 · p. 129
अनुष्टुप्
शृंगिबेरं महाकन्दं हंसच्छत्रं कलापकम् ।पिप्पली मागधी शौण्डी वृषलं चोषणा बला ॥ ७६ ॥
3.8.76 · p. 129
अनुष्टुप्
श्यामोपकुल्या वैदेही ग्रन्थिनी तीक्ष्णतण्डुला ।जालिनी तण्डुला तन्वी काल्यंबष्ठा मनोहरी ॥ ७७ ॥
3.8.77 · p. 129
अनुष्टुप्
कपिवल्ल्यां कोलवल्ली गण्डीरी हस्तिपिप्पली ।काण्डी वसीरकाण्डीरौ गृहकाण्डः शिरः पुमान् ॥ ७८ ॥
3.8.78 · p. 129
अनुष्टुप्
मरीचं तु विरावृत्तमुषणं धर्मपत्तनम् ।(मरिचं) पलितं श्यामं वेल्लनं पेलवं कटु ॥ ७९ ॥
3.8.79 · p. 129
अनुष्टुप्metre not read in every line
लोहाख्यं श्यामवल्ली च त्र्यूषणं (तूषणादिकम्) ।कावेरं त्रिकटु व्योषमप्यं कालं कटूत्कटम् ॥ ८० ॥
3.8.80 · p. 129
अनुष्टुप्metre not read in every line
ग्रन्थिकानलचव्यैस्तु चतुष्पञ्चषडूषणम् ।चव्यं तु चविकं कोला भार्गी पद्मा च विष्ठिका ॥ ८१ ॥
3.8.81 · p. 129
अनुष्टुप्
त्रिफला तु मदोदर्का भूतसारी फलत्रिका ।बलकाली बलारोहा चित्रकस्त्वग्निसंज्ञकः ॥ ८२ ॥
3.8.82 · p. 129
अनुष्टुप्
पंचकोलं कणाशुण्ठीचव्यग्रन्थिकचित्रकाः ।अजाजी तु जया दीप्यो जीरको जीरणः सितः ॥ ८३ ॥
3.8.83 · p. 129
अनुष्टुप्
मागधश्चाथ सूक्ष्मोऽसौ कणजीरण ओसरः ।अग्निमन्थो हृद्यगन्धः सुगन्धिः कालिका कणा ॥ ८४ ॥
3.8.84 · p. 130
अनुष्टुप्
कृष्णे तु जीरके पृथ्वी पृथुः कालोपकुंचिका ।सुषवी कारवी फारी पृथ्विका पृथुशालिका ॥ ८५ ॥
3.8.85 · p. 130
अनुष्टुप्
कटुः कटुंभराशोका रोहिणी कटुरोहिणी ।कृष्णभेदी मत्स्यपित्ता चक्रांगी शकुलादनी ॥ ८६ ॥
3.8.86 · p. 130
अनुष्टुप्
निष्कुट्यां चन्द्रबालैला पृथ्विका त्रिदिवात्र तु ।सूक्ष्मायां त्रिपुटा कुन्तिस्त्रुटिस्तुत्थोपकुंचिका ॥ ८७ ॥
3.8.87 · p. 130
अनुष्टुप्
कोरांगी नन्दिनी शाला कलुषी संयतापि च ।काश्मीरं पौष्करे मूले पद्मपत्रं च पुष्करम् ॥ ८८ ॥
3.8.88 · p. 130
अनुष्टुप्
अव्यथातिचरा पद्मा चारटी पद्मचारिणी ।जन्या जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ ८९ ॥
3.8.89 · p. 130
अनुष्टुप्
शृंगी विषा प्रतिविषातिविषोपविषारुणा ।शिग्रुजं श्वेतमरिचं त्वक्क्षीरा वंशरोचना ॥ ९० ॥
3.8.90 · p. 130
अनुष्टुप्
पद्मोत्तरं वह्निशिखं महारजतमित्यापि ।कुसुंभे पिप्पलीमूले ग्रन्थिकं चटिका शिरः ॥ ९१ ॥
3.8.91 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
बर्हिपुष्पे ग्रन्थिपर्णं स्थौणेयं कुक्कुरं शुकम् ।शतपर्वं च मित्रञ्च कमलञ्च शिलं च तत् ॥ ९२ ॥
3.8.92 · p. 130
अनुष्टुप्
समृद्धिः प्राणदा सिद्धिर्लक्ष्मीः सर्वजनप्रिया ।ऋश्यप्रोक्ता श्रोत्रकांता श्रावणी हस्तिपादिका ॥ ९३ ॥
3.8.93 · p. 130
अनुष्टुप्
ऋषिः सृष्टा वृषा वृष्या हृद्या योग्या युगाह्वया ।अथ वृद्धिर्बोधनीया महाश्रावणिका बुधा ॥ ९४ ॥
3.8.94 · p. 130
अनुष्टुप्
हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ।एलावालुकमैलेयं सुगन्धि हरिवालुकम् ॥ ९५ ॥
3.8.95 · p. 130
अनुष्टुप्
वालुकं चाथ शैलेयं वृद्धं गिरिशिलाह्वयम् ।कालानुसार्यं पाषाणपुष्पं शितशिवं शिवम् ॥ ९६ ॥
3.8.96 · p. 131
अनुष्टुप्
क्रिमिघ्नस्तण्डुलो वेल्लममोघा चित्रतण्डुला ।विडंगोऽस्त्री सुगन्धा तु सुरसा गन्धनाकुला ॥ ९७ ॥
3.8.97 · p. 131
अनुष्टुप्
नाकुली सुवहा रास्ना छत्राकी सर्वलोचना ।गन्धिनी स्यात्तालपर्णी दैत्या गंधकुटी मुरम् ॥ ९८ ॥
3.8.98 · p. 131
अनुष्टुप्
कुष्ठं वाप्यं पारिभाव्यं रोगाख्यं पाकलोत्पले ।व्यालायुधं व्याघ्रनखं करजं चक्रकारकम् ॥ ९९ ॥
3.8.99 · p. 131
अनुष्टुप्
सुषिरा विद्रुमलता कपोतांघ्रिर्नटी नली ।जटिला लोमशी मांसी तपस्विन्यामिषी जटा ॥ १०० ॥
3.8.100 · p. 131
अनुष्टुप्
धमन्यंजनकेश्यौ तु हनुर्हट्टविलासिनी ।अपि शुक्तिः खुरः शंखो नखं कोलदलं समाः ॥ १०१ ॥
3.8.101 · p. 131
अनुष्टुप्
अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका ।कारवी च खराश्वोग्रा दीप्यका लोचमस्तकः ॥ १०२ ॥
3.8.102 · p. 131
अनुष्टुप्
मधुरं क्लीतकं यष्टिमधुका मधुयष्टिका ।लवंगं देवकुसुमं श्रीसंज्ञं च वरालकम् ॥ १०३ ॥
3.8.103 · p. 131
अनुष्टुप्
त्वक्पत्रं तु त्वचं चोचं वरांगं भृंगमुत्कटम् ।मृगनाभिर्मृगमदो नगः कस्तूरिकापि च ॥ १०४ ॥
3.8.104 · p. 131
अनुष्टुप्
घनसारस्तु कर्पूरः सितांगो हिमवालुका ।चन्द्रनामानि चाथ स्यात्तक्कोलं कोलकं परम् ॥ १०५ ॥
3.8.105 · p. 131
अनुष्टुप्
लोहाख्यं कृमिजं भृंगं जोंगकं जांगलं मतम् ।वंशकं वंशिकं शीर्षं प्रकरं मृदुलं लघु ॥ १०७ ॥
3.8.107 · p. 131
अनुष्टुप्
वनमायः पुरमदः काकतुण्डो वनद्रुमः ।कालागरु तु मंगल्या मल्लिकासमगन्धि चेत् ॥ १०८ ॥
3.8.108 · p. 132
अनुष्टुप्
श्रीवेष्टः पायसं श्र्याख्यं श्रीवासो रक्तशीर्षकः ।वेष्टः श्रीवत्सपिण्याको दधिश्च सरलद्रवे ॥ १०९ ॥
3.8.109 · p. 132
अनुष्टुप्
वृकधूपश्च तूणस्तु पिण्डकश्चपलश्चलः ।कप्याख्यः कपिलः सिह्लः कृत्रिमः क्षेत्रिको वरः ॥ ११० ॥
3.8.110 · p. 132
अनुष्टुप्
तुरुष्कः पावनश्चाथ सर्ज्जनो लालनो रसः ।बहुरूपो यक्षधूपोऽप्यरालोऽप्यथ कृत्रिमे ॥ १११ ॥
3.8.111 · p. 132
अनुष्टुप्
वृकधूपोंऽगुलालस्तु महिषाक्षः पलंकषः ।चन्दनोऽस्त्री मलयजो भद्रश्री रोहणद्रुमः ॥ ११२ ॥
3.8.112 · p. 132
अनुष्टुप्
श्रीखण्डो गन्धसारश्च ताम्रसारन्तु चन्दनम् ।पीतचन्दनमर्केष्टं गोशीर्षं हरिचन्दनम् ॥ ११३ ॥
3.8.113 · p. 132
अनुष्टुप्
किरातजं बला हार्या पिंजनं तैलपर्णिकम् ।तथा कुचन्दनं पीतदारु रक्ते तु चन्दने ॥ ११४ ॥
3.8.114 · p. 132
अनुष्टुप्
पत्रांगं रञ्जनं सेव्यं धूर्तमैरावतं लसम् ।कुचन्दनं जघन्यं च रक्तं च तिलपर्ण्यपि ॥ ११५ ॥
3.8.115 · p. 132
अनुष्टुप्
कुंकुमं घुसृणं वर्ण्यं रक्तं लोहितचन्दनम् ।करटं चितकाबेरं गौरवं वासनीयकम् ॥ ११६ ॥
3.8.116 · p. 132
अनुष्टुप्
काश्मीरजं पुष्परजः संकोचं पीतनं वरम् ।घोरं चाग्निशिखञ्चापि जपापुष्पं प्रियंगु च ॥ ११७ ॥
3.8.117 · p. 132
अनुष्टुप्
नागोद्भवं तु सिन्दूरं कुंकुमेन समप्रभम् ।गवलं माहिषं शृंगं शशोर्णं शशलोमनि ॥ ११८ ॥
3.8.118 · p. 132
अनुष्टुप्
अब्धिजे लवणे खण्डं त्रिकूटं त्रिकुटं कुटम् ।भोजनीयं कटकटमणु प्रवरवारिजे ॥ ११९ ॥
3.8.119 · p. 132
अनुष्टुप्
अक्षीबं बिसिरं सेव्यं सैन्धवं तु नदीभवम् ।माणिमन्थं शितशिवं नादेयं वेधकं पटु ॥ १२० ॥
3.8.120 · p. 133
अनुष्टुप्