गुडूचिका
guḍūcikāIn 2 kośas: 0 synonym verses, 8 as a meaning of another word.
गुडूचिका as a meaning in nānārtha verses
- धरणिकोश जीवन्तीकिराती किरातस्त्री स्याद्या च चामरधारिणी । जीवन्ती कथिता वृन्दा जीवमाना गुडूचिका ॥ Dharaṇikośa 15.2.44
- धरणिकोश वयःस्थवयःस्थः तरुणः प्रोक्तो वयःस्था च गुडूचिका । सूक्ष्मैलामलकी ब्राह्मी काकोली चाभयापि च ॥ Dharaṇikośa 16.3.3
- धरणिकोश अमरावप्रः पितरि केदारे वप्रः प्राकाररोधसोः । अमरौ देवास्थिसंहारावमरे दूर्वागुडूचिके ॥ Dharaṇikośa 26.2.24
- कोषकल्पतरु वयःस्थस्त्रीत्वामलक्यां च गुडूचिकायां काकोलिकायामपि शाल्मलिद्रौ । ब्राह्म्यांच सूक्ष्मत्रिपुटासु चाथ । ना गर्दभाण्डे नरि पिप्पले च ॥ १० ॥ Koṣakalpataru 6.18.10
- कोषकल्पतरु तन्त्रस्त्रियां तु वीणागुणदेहयोः स्या- त्तथा शिरायां च गुडूचिकायाम् । छत्रं त्रयेऽप्यातपवारणे स्या- न्मिस्यां शिलीन्ध्रेऽपि च धान्यके स्त्री ॥ ३८ ॥ Koṣakalpataru 6.27.38
- कोषकल्पतरु वज्रस्नुह्यां तु वज्रापि गुडूचिकायां स्नुह्यन्तरेऽपि प्रथिता * वज्री । शुल्बे तु ताम्रं परगाम्यरुणे स्या- दस्रस्तु कोणेऽपि कचेऽथ रक्ते ॥ ५७ ॥ Koṣakalpataru 6.27.57
- कोषकल्पतरु निर्जरकामे तुषाग्नौ तरणेस्तथाऽश्वे- ऽथो निर्जरः स्वर्गिणि पुंसि शस्तः । जराविहीने परवत्स्त्रियां तु गुडूचिकायामपि तालपत्र्याम् ॥ २२ ॥ Koṣakalpataru 6.27.22
- कोषकल्पतरु कुण्डलकुण्डलं वलयकर्णभूषयोः पाशके भवति नैव योषिति । काञ्चनाचलगुडूचि[70b]काह्वये स्यात्स्त्रियां शुनि तु मण्डलोऽप्यहौ ॥ १८ ॥ Koṣakalpataru 6.28.18