कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

तान्ताः · तार्धश्लोकः

॥ तार्धश्लोकः ॥

श्रितं वितन्वहस्ते च वादिते च मतेऽपि च? ।कृतं युगे च पर्याप्ते निष्फले कृतमव्ययम् ।स्थितमूर्ध्वे गत्यभावे सुप्रतिज्ञे सुनिश्चिते ॥
15.2.1 · p. 66
अनुष्टुप्metre not read in every line
द्रुतं शीघ्रे विलीने च द्रुतः पलायिते द्रुमे ।युतं हस्तचतुष्के स्याद्युतं युक्ते युतं पृथक् ॥
15.2.2 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
ऋतं सत्यमृतं तोयमृतमुञ्छशिलं विदुः ।प्लुतस्त्रिमात्र उद्दिष्टो मृक्षणोत्पातने प्लुते ॥
15.2.3 · p. 66
अनुष्टुप्
वीतस्त्वसारहस्त्यश्वं शान्तं चाङ्कुशकर्म च ।ग्रस्तं ग्रासीकृतं ज्ञेयं ग्रस्तं लुप्तपदं वचः ॥
15.2.4 · p. 67
अनुष्टुप्
वित्तं विचारिते द्रव्ये व्याख्या[36]ते वित्तमिष्यते ।श्वेतं रूप्ये सिते श्वेतं श्वेतश्च पर्वतान्तरम् ॥
15.2.5 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
वृन्तं प्रसवबन्धे स्याद्घाटिधारास्तनाग्रयोः ।पुस्तं तु पुस्तके प्रोक्तं पुस्तं लेप्यादिकर्मणि ॥
15.2.6 · p. 67
अनुष्टुप्
सूतः क्षत्राद्ब्राह्मणीजे तक्ष्णि सारथिबन्दिनोः ।लिप्तं च लेपिते भुक्ते लिप्तोऽथ विषदिग्धके ॥
15.2.7 · p. 67
अनुष्टुप्
ऋतिर्गतौ घृणायां च स्पर्धायामशुभेऽपि च ।धाता स्याद्धारकः पोष्टा धातारौ विधिवेधसौ ॥
15.2.8 · p. 67
अनुष्टुप्
माता गवि जनन्यां च ब्राह्मण्याद्याश्च मातरः ।स्वातिर्देवप्रिया ख्याता स्वातिर्नक्षत्रखड्गयोः ॥
15.2.9 · p. 67
अनुष्टुप्
पङ्क्तिः स्याद्दशसंख्यासु श्रेण्यां छन्दान्तरेऽपि च ।गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणेऽपि च ॥
15.2.10 · p. 68
अनुष्टुप्
पत्तिर्गतौ पदातौ च सैन्यभेदे च कीर्तिता ।गतिर्मार्गदशायात्रासूपाये नाडिकाव्रणे ॥
15.2.11 · p. 68
अनुष्टुप्
श्रुतिर्वेदे च कर्णे च श्रोत्रकर्मणि च श्रुतिः ।स्मृतिरिच्छा स्मृतिर्बुद्धिर्वेदाद्या बोधिका स्मृतिः ॥
15.2.12 · p. 68
अनुष्टुप्
यतिः श्लोकपदच्छेदे यतिः कारे ? यतिर्यती ।धृतिधैर्ये च योगे च धारणे च सुखेऽपि च ॥
15.2.13 · p. 68
अनुष्टुप्
रतिः कामस्त्रियां रागे सुरतेऽपि रतिः स्मृता ।जातिश्छन्दसि सामान्ये मालतीगोत्रजन्मसु ॥
15.2.14 · p. 68
अनुष्टुप्
लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे ।पीता स्मृता हरिद्रायां पीतं स्यात्पानगौरयोः ॥
15.2.15 · p. 68
अनुष्टुप्
प्रीतिश्चन्द्रार्कयोर्योगे प्रीतिः प्रेमप्रमोदयोः ।ईतिः स्यादतिवृष्ट्या[37]दौ दैवोत्पाते प्रवासने ॥
15.2.16 · p. 68
अनुष्टुप्
हेतिः सूर्यस्य वह्नेश्च भासि हेतिस्तथायुधे ।गर्तस्त्रिगर्तदेशे स्याद्गर्तो भूमिबिलेऽपि च ॥
15.2.17 · p. 69
अनुष्टुप्
शान्तो रसान्तरे ? दान्ते शान्तोऽतिमुक्तपादपः ।सेतुर्वरुणवृक्षे स्यात्सेतुरालौ प्रकीर्तितः ॥
15.2.18 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
तिक्तो रसे पर्पटिकौषधौ चतिक्तं सुगन्धे कटुका च तिक्ता ।सितो निरुद्धे धवले समाप्तेज्ञाते सिता स्यादशुचप्रकारे ॥
15.2.19 · p. 69
उपजातिः
श्रीमांस्तु धनिके रम्ये तिलकाख्ये च पादपे ।पृषन्मृगे पृषद्बिन्दौ पृषतोऽप्यनयोर्मतः ॥
15.2.20 · p. 69
अनुष्टुप्
पित्सन्पिपतिषञ्चैव पतनेच्छौ विहंगमे ।हरित्ककुभि वर्णे च तृणवाजिविशेषयोः ॥
15.2.21 · p. 69
अनुष्टुप्
रजतमवदाते स्याद्रजतं हाररुप्ययोः ।ज्वलितं तु दीप्तमिव स्मृतं दग्धे प्रभास्वरे ॥
15.2.22 · p. 70
metre not recognised
सुकृतं शोभनं कर्म पुण्यं च सुकृतं मतम् ।पलितं कर्दमे तापे पाण्डुकेशे च शैलजे ॥
15.2.23 · p. 70
अनुष्टुप्
सुरतं स्यान्निधुवनं देवत्वं सुरता स्मृता ।मुषितं मूषितं चेति उभे खण्डितचोरिते ॥
15.2.24 · p. 70
अनुष्टुप्
सूनृतं प्रियसत्यर्थे भाषणे सूनृतं शिवे ।प्रार्थितं शत्रुणा रुद्धे याचिते प्रार्थितं विदुः ॥
15.2.25 · p. 70
अनुष्टुप्
उच्छ्रितं स्यात्समुन्नद्वे तथा जातप्रवृद्धयोः ।उद्धृतं स्यादुन्मूलितं स्याद्भुक्तोज्झितमुद्धृतम् ॥
15.2.26 · p. 70
अनुष्टुप्metre not read in every line
उद्यतं स्यादुन्मनसि प्रोच्यते वृद्धिमत्यपि ।पिण्डितं स्यात्संकलितं संख्यातं निबिडीकृतम् ॥
15.2.27 · p. 70
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दु (wrong syllable); pāda 3, syllable 5 त्सं (wrong syllable)
उत्थितं प्रोद्यते जाते वृद्धियुक्ते प्रकीर्तितम् ।[38] अर्दितं हिंसितं प्रोक्तं वातव्याधौ च याचिते ॥
15.2.28 · p. 71
अनुष्टुप्
वेल्लितं कुटिले प्रोक्तं वेल्लतं कलितं प्लुतम् ।अक्षतं चापि लाजेषु चाक्षतं स्यादखण्डितम् ॥
15.2.29 · p. 71
अनुष्टुप्
वापितं मुण्डितं प्रोक्तं बीजाकृतं च वापितम् ।जृम्भितं करणे स्त्रीणां जृम्भितं स्फुटितेहयोः ॥
15.2.30 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
पीडितं योषित्करणे यन्त्रिते बाधितेऽपि च ।वेष्टितं लासिके रुद्धे स्त्रीणां च करणान्तरे ॥
15.2.31 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षि (wrong syllable)
पर्याप्तं च यथेष्टं स्याच्छक्ते तृप्तौ निवारणे ।प्रतीतं ज्ञातविख्यातहृष्टेषु त्रिषु विश्रुतम् ॥
15.2.32 · p. 71
अनुष्टुप्
दुर्जातं व्यसने ज्ञेयमसम्यग्जातवस्तुनि ।निशान्तं भवने शान्ते प्रत्युषे च प्रयुज्यते ॥
15.2.33 · p. 71
अनुष्टुप्
कापोतमञ्जने सर्जीक्षारे कपोतसंहतौ ।आध्मातं शब्दिते दग्धे वातव्याधौ च कीर्तितम् ॥
15.2.34 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
पर्याप्तिः स्यात्परित्राणे प्राप्तिप्रकामयोरपि ।संवित्तिः प्रतिपत्तिः स्यात्संवित्तिरविवादितः ॥
15.2.35 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
सुनीतिर्ध्रुवमाता स्यान्नीतिश्चापि सुशोभना ।निर्वृतिः स्यादन्तमये स्वस्थतायां च निर्वृतिः ॥
15.2.36 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
पक्षतिः स्याद्गरुन्मूले पक्षतिः प्रतिपत्तिथौ ।उन्नतिरुदये वृद्धौ गरुडस्य स्यादतिप्रिया ॥
15.2.37 · p. 72
अनुष्टुप्metre not read in every line
सम्मतिः स्यादनुज्ञायामभिलाषोऽपि सम्मतिः ।प्रकृतिः सहजे योनावमात्ये परमात्मनि ॥
15.2.38 · p. 72
अनुष्टुप्
समितिः संगमे युद्धे सभायां समितिः स्मृता ।वसतिर्वेश्मयामिन्योर्वसतिः स्यादवस्थितिः ॥
15.2.39 · p. 72
अनुष्टुप्
अदितिः सुरमाता [39] स्याददितिः पृथिवी मता ।पञ्चता मरणे भावे पञ्चानां च प्रकीर्तिता ॥
15.2.40 · p. 73
अनुष्टुप्
विनता तार्क्षमाता स्यान्नम्रा च विनता मता ।हरिता च स्मृता दूर्वा हरितो वर्णवाचकः ॥
15.2.41 · p. 73
अनुष्टुप्
सिकता वालुकायां स्याद्देशे च सिकतान्विते ।महती नारदी वीणा महत्त्वेनान्विता च या ॥
15.2.42 · p. 73
अनुष्टुप्
जगती छन्दसो भेदे पृथिव्यां विष्टपे जने ।रेवती हलिपत्न्यां स्यादृक्षभेदे च मातरि ॥
15.2.43 · p. 73
अनुष्टुप्
किराती किरातस्त्री स्याद्या च चामरधारिणी ।जीवन्ती कथिता वृन्दा जीवमाना गुडूचिका ॥
15.2.44 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
वासन्ती पाटला यूथी अतिमुक्ता च कीर्तिता ।भरतो राजविशेषे च नटे रामानुजेऽपि च ॥
15.2.45 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विकृतं स्यात्तु बीभत्सेऽसंस्कृते व्याधिमत्यपि ।हृषितः प्रणते प्रीते वर्मिते हृष्टरोमणि ॥
15.2.46 · p. 74
अनुष्टुप्
निकृतः स्याद्विप्रकृतो निकृतो विप्रलब्धकः ।अजितो वासुदेवः स्यादजितश्चापराजितः ॥
15.2.47 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वि (wrong syllable)
गोपतिः शंकरे षण्डे भास्करे पार्थिवेऽपि च ।निर्ऋतिश्चापि दिक्पाले अलक्ष्म्यां निरुपद्रवे ॥
15.2.48 · p. 74
अनुष्टुप्
क्षारितः प्राचितः क्षारैरभिशस्तः प्रकीर्तितः ।संस्कृतो भूषिते शस्ते कृत्रिमे लक्षणान्विते ॥
15.2.49 · p. 74
अनुष्टुप्
गर्जितो मत्तमातङ्गे गर्जितं घननिःस्वने ।व्यायतो व्यापृते दीर्घे व्यायतश्च दृढे भृशे ॥
15.2.50 · p. 74
अनुष्टुप्
रैवतः कथितो रुद्रे दैत्यपर्वतभेदयोः ।निवातो दृढसंनाहे निर्वाते चाश्रयेऽपि च ॥
15.2.51 · p. 75
अनुष्टुप्
कपोतः कवकः प्रोक्तः सर्ज्यां ? पारावतेऽपि[40]च ।परेतो भूतभेदः स्यात्परेतो मृत उच्यते ॥
15.2.52 · p. 75
अनुष्टुप्
प्रणीतः संस्कृते वह्नौ विहितेऽथ प्रवेशिते ।संघातः कथितः संघः संघातो नरकान्तरम् ॥
15.2.53 · p. 75
अनुष्टुप्
उन्मत्तोऽविनयश्चेष्टो धूस्तूरश्च प्रकीर्तितः ।संवर्तः प्रलये प्रोक्तस्तथा विभीतकद्रुमः ॥
15.2.54 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
उदात्तः स्वरभेदे स्यात्काव्यालंकारकृत्ययोः ।त्रिगर्तः स्याज्जनपदे त्रिगर्ता घुर्घुरी स्मृता ॥
15.2.55 · p. 75
अनुष्टुप्
विश्वस्तो विश्वासयोग्यो विश्वस्ता विधवा मता ।आस्फोतश्चार्कपर्णे स्यादास्फोता वनमालिका ॥
15.2.56 · p. 75
अनुष्टुप्
वृत्तान्तः स्यात्प्रकरणे कार्त्स्न्यवार्ताप्रकारयोः ।दृष्टान्तः कथितो धीरैरुदाहरणशास्त्रयोः ॥
15.2.57 · p. 76
अनुष्टुप्
उद्वान्तः स्यात्समुद्गीर्णे उद्वान्तो निर्मदो गजः ।कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥
15.2.58 · p. 76
अनुष्टुप्
शकुन्तः पक्षिभेदे स्याच्छकुन्तः पक्षिभासयोः ।निर्मुक्तः संगसंत्यक्तः सर्पश्च मुक्तकञ्चुकः ।आघ्रातः शिङ्घिते ज्ञेय आक्रान्ते च प्रयुज्यते ॥
15.2.59 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
अनन्ता दूर्वायां भुवि च हरिणीशारिविकयो-रनन्ता नागेशानवधिहरयोऽनन्तमपि खम् ।निरस्तो निच्यूते त्वरितवचनं क्षिप्तशरयो-र्निरस्तः संत्यक्ते प्रतिहतबले चापि गदितः ॥
15.2.60 · p. 76
शिखरिणी
आयुष्मानपि दीर्घायुर्ग्रहयोश्च प्रकीर्तितः ।द्वीपवांस्तु नदे सिन्धौ द्वीपवत्यवनिर्नदी ॥
15.2.61 · p. 77
अनुष्टुप्
भोगवती च नागानां नदी च नगरी तथा ।हैमवती स्मृता गङ्गा स्वर्णक्षीरी तथाभया ॥
15.2.62 · p. 77
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable); pāda 3, syllable 3 व (wrong syllable)
कु[41]मुद्वती कुशपत्नी कुमुदिन्यां कुमुद्वती ।शुभदन्ती सार्वभौमदिग्गजा सुदती च या ॥
15.2.63 · p. 77
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
पारावती तु गोपानां गीते पारावतः खगः ।समुद्रान्ता तु कार्पासी पृक्का चापि दुरालभा ॥
15.2.64 · p. 77
अनुष्टुप्
प्रधूपिता क्लेशिता स्याद्दिशं यास्यति यां रविः ।अनुमतिस्त्वनुज्ञा स्यात्पूर्णेन्दुः पूर्णिमा च या ॥
15.2.65 · p. 77
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 म (wrong syllable)
निराकृतिः प्रतिक्षेपेऽप्यस्वाध्यायेऽप्यनाकृतौ ।उपसत्तिस्तु सेवायां संगमात्रे च कीर्तिता ॥
15.2.66 · p. 77
अनुष्टुप्
अभिशस्तिर्याच्ञायामभिशापे च कीर्तिता ।सदागतिः स्मृतो वाते सदागतिः सदीश्वरे ॥
15.2.67 · p. 78
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्ति (syllables merged); pāda 4, syllable 3 ग (wrong syllable)
समुन्नतः समुन्नद्धे तद्भेदे च समुन्नतः ।निष्कासितो निर्गमितो धिकृतश्च प्रकीर्तितः ॥
15.2.68 · p. 78
अनुष्टुप्
उदास्थितः प्रतीहारे चरभेदे च कीर्तितः ।पाशुपतो वकपुष्पे कस्मिंश्चिच्छिवलिङ्गिनि ॥
15.2.69 · p. 78
अनुष्टुप्metre not read in every line
पुरस्कृतो रिपुग्रस्ते पुरोन्यस्तेऽभिपूजिते ।उपाहितोऽनलोत्पात आरोपित उपाहितः ॥
15.2.70 · p. 78
अनुष्टुप्
अपावृतः स्वतन्त्रः स्यात्पिहितश्चाप्यपावृतः ।उपाकृतः समानीते यज्ञार्थं च हते पशौ ।अवदातः सिते पीते परिशुद्धप्रधानयोः ॥
15.2.71 · p. 78
अनुष्टुप्
पारिजातः कल्पतरौ पारिभद्रतरावपि ।अभिनीतः स्मृतो न्याय्ये संस्कृतेऽमर्षवत्यपि ॥
15.2.72 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
अधिक्षिप्तः प्रणिहिते भर्त्सिते च प्रयुज्यते ।अपध्वस्तः परित्यक्ते निन्दिते चावचूर्णिते ॥
15.2.73 · p. 79
अनुष्टुप्
चित्रगुप्तो यमः प्रोक्तो लेखकश्च प्रकीर्तितः ।अतिमुक्तस्तु निःसंगे वासन्त्यां ति[42]निशेऽपि च ॥
15.2.74 · p. 79
अनुष्टुप्
अभियुक्तः परै रुद्धो अभियुक्तश्च तत्परः ।उपरक्तो व्यसनार्ते राहुप्रस्तेन्दुसूर्ययोः ॥
15.2.75 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
नन्द्यावर्तः पुमान्वेश्मप्रभेदे तगरद्रुमे ।दिवाकीर्तिस्तु चाण्डाले दिवाकीर्तिस्तु नापितः ॥
15.2.76 · p. 79
अनुष्टुप्
धूमकेतुः कृशानौ स्यादुपप्लवे च कीर्तितः ।लक्ष्मीपतिर्वासुदेवे भूमिपाले च कीर्तितः ॥
15.2.77 · p. 79
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प्ल (wrong syllable)
वनस्पतिर्वृक्षमात्रे विना पुष्पं फलद्रुमे ।पुष्पदन्तस्तु दिङ्नागनागविद्याधरान्तराः ॥
15.2.78 · p. 80
अनुष्टुप्
चन्द्रकान्तो दृषद्भेदे चन्द्रकान्तश्च कैरवे ।कलधौतं सुवर्णे स्याद्रजते च प्रकीर्तितः ॥
15.2.79 · p. 80
अनुष्टुप्
प्रतिक्षिप्तं प्रहिते च प्रतिक्षिप्तं निराकृते ।अभिजातः कुलीने स्यान्न्याय्यपण्डितयोरपि ॥
15.2.80 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हि (wrong syllable)
अवगीतं मुहुर्गीते अत्यर्थं जनगर्हिते ।अङ्गारितं पलाशीयकुसुमोद्गमदग्धयोः ॥
15.2.81 · p. 80
अनुष्टुप्
अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ।अन्तर्गतं वदन्त्यार्या मध्यप्राप्तं च विस्मृतम् ॥
15.2.82 · p. 80
अनुष्टुप्
उल्लिखितं समुत्कीर्णे उल्लिखितं तनूकृतम् ।प्रणिहितं तु संप्राप्ते न्यस्ते समाहिते तथा ॥
15.2.83 · p. 80
metre not recognised
अवसितमृद्धे ज्ञाते अवसानं गतेऽपि च ।उपचितं तु समृद्धे स्याद्दिग्धे चोत्पतितेऽपि च ॥
15.2.84 · p. 80
metre not recognised
आच्छुरितं स्मृतं हास्ये स्वशब्दनखवादने ।वसन्तदूतशब्दाः स्युश्चूतातिमुक्तपाटलाः ॥
15.2.85 · p. 81
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable); pāda 4, syllable 3 ति (wrong syllable)
मूर्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च ।यादसांपतिरम्भोधिः प्रचेता यादसांपतिः ॥
15.2.86 · p. 81
अनुष्टुप्
[43] गणाधिपतिरित्येष शिवे विनायकेऽपि च ।उपधूपित आसन्नमरणे परिधूपिते ।स्यावलोकितं दृष्टं जिनः स्यादवलोकितः ॥
15.2.87 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्