कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

थान्ताः · थश्लोकः

॥ थश्लोकः ॥

अर्थोऽभिधेये शब्दानां धनकारणवस्तुषु ।प्रयोजने निवृत्तौ च विषये च प्रयुज्यते ॥
16.3.1 · p. 91
अनुष्टुप्
तीर्थः स्यादवतारे च पात्रोपाध्यायमन्त्रिषु ।स्त्रीणां रजसि शास्त्रे च क्षेत्रोपायाध्वरेषु च ॥
16.3.2 · p. 92
अनुष्टुप्
वयःस्थः तरुणः प्रोक्तो वयःस्था च गुडूचिका ।सूक्ष्मैलामलकी ब्राह्मी काकोली चाभयापि च ॥
16.3.3 · p. 92
अनुष्टुप्