All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · रान्ताः (2/3)
शीतेऽन्यवत्स्याद्वशिरः किणिह्यांशिन्धूद्भवे चेभकणासु न स्त्री ।स्यान्मूषके ना शुषिरोऽन्तिमे तुवंश्यादिवाद्ये विवरेऽपि तद्वत् ॥ १२ ॥
6.27.12 · p. 319
इन्द्रवज्रा
नल्यौषधौ स्त्री छिदिरस्तु वह्नौखड्गे कुठारे नरि रज्जुगोऽपि ।ना वालपत्रे खदिरः सुधांशौस्त्रियां तु शाकस्य विशेष एषः [54a] ॥ १३ ॥
6.27.13 · p. 319
उपजातिः
स्याद्दन्तुरो वाच्यगतोऽसमोच्च-दतोरथ स्याद्विदुरोऽपि पाण्डोः ।शूद्रासुते नागरधीरयोश्चनिशाचरे स्याद्विथुरश्च चौरे ॥ १४ ॥
6.27.14 · p. 319
उपजातिः
पुमाननग्नौ विधुरोऽन्तिमे तुविश्लेषणे स्याद्विकलेऽन्यवच्च ।स्त्रियां रसालार्थ[क]एष दिष्टोरसे विषे स्यान्मधुरो नृलिङ्गः ॥ १५ ॥
6.27.15 · p. 319
उपजातिः
स्वादौ प्रिये स्याद्रसभाजि भेषेमेदामधूलीमधुयष्टिकासु ।स्त्रियां शताह्वानगरीभिदोश्चमिश्रेयिकायामपि तद्वदेव ॥ १६ ॥
6.27.16 · p. 319
उपजातिः
स्याद्बन्धुरः पुंसि मरालवाचीकृमिघ्नबन्धूकगतः स्त्रियां तु ।पण्याङ्गनायां परवत्तु रम्येनम्रे च बन्धूर इवोपदिष्टः ॥ १७ ॥
6.27.17 · p. 319
उपजातिः
स्यात्केशविन्यासपृथग्जनेषुना बर्वरो देशविशेषके च ।स्त्री फञ्जिकायामपि शाकपुष्पेना कर्बुरो रक्षसि पापके च ॥ १८ ॥
6.27.18 · p. 320
इन्द्रवज्रा
स्त्री कृष्णवृन्तासु जले तु षण्ढेतथा सुवर्णे शबलेऽन्यवत्स्यात् ।स्यात्कर्परः शस्त्रविशेषवाचीन स्त्री कपालेऽपि[54b]कटाहके च ॥ १९ ॥
6.27.19 · p. 320
उपजातिःmetre not read in every line
स्यात्कूर्परो जानुनि वा कफोणौस्यात्खर्परस्तस्करधूर्तवाची ।कपालके भैक्षकभाजने चमीनान्तरे गर्गरमामनन्ति ॥ २० ॥
6.27.20 · p. 320
उपजातिः
स्त्री मन्थनी नामनि घर्घरस्तुचलज्जलध्वाननदान्तरेषु ।घूके तुरंगे तुषपावकेऽर्केस्यान्निर्नरो मुर्मर आदिलिङ्गः ॥ २१ ॥
6.27.21 · p. 320
उपजातिः
कामे तुषाग्नौ तरणेस्तथाऽश्वे-ऽथो निर्जरः स्वर्गिणि पुंसि शस्तः ।जराविहीने परवत्स्त्रियां तुगुडूचिकायामपि तालपत्र्याम् ॥ २२ ॥
6.27.22 · p. 320
उपजातिः
स्याद्दर्द्दरोऽद्रौ त्रिषु चाल्पभग्ने-ऽथो दर्दुरस्तोयदभेकयोश्च ।स्याद्वाद्यभाण्डान्तरकेऽद्रिभेदेग्रामव्रजे स्त्री पुनरम्बिकायाम् ॥ २३ ॥
6.27.23 · p. 320
इन्द्रवज्रा
वार्दरं दक्षिणावर्तशङ्खाम्भसोःकाकचिञ्ची नवे बीजके चान्तिमे ।दुर्द्धरं दुःखतो धारणीयेऽन्यव-ज्जन्मयोगान्तरे स्त्री पुमान्सारके ॥ २४ ॥
6.27.24 · p. 320
स्रग्विणी
कुञ्जरो न स्त्रियां वारणे स्यात्कचेघातकीवाचकः सम्मतः स स्त्रियाम् ।पञ्जरोऽस्त्री[55a]मतः पक्षिबन्धस्थलेबन्धमात्रेऽप्यथो पिञ्जरं हेमनि ॥ २५ ॥
6.27.25 · p. 321
स्रग्विणीmetre not read in every line
पुंस्यसौ पीतने वाजिभेदे तथावर्णभेदे मतस्तद्वति स्यात्त्रिषु ।मन्दरो मन्दमन्दारमन्थाचल-स्वर्गसान्द्रार्थकः कन्दरस्तु त्रिषु ॥ २६ ॥
6.27.26 · p. 321
स्रग्विणी
देवखाते बिले पुंस्यसावङ्कुशेकंधरोऽम्भोधरे स्याच्छिरोधौ स्त्रियाम् ।वल्लरं शाद्वले निर्जले च स्थलेकुञ्जके क्षेत्रके श्रीतरौ पुंसि सः ॥ २७ ॥
6.27.27 · p. 321
स्रग्विणी
मञ्जरीवाचकस्तु स्त्रियां सम्मतोमन्थरः सूचके कोशमन्थानयोः ।स्यात्कुसुम्भे * * वाच्यलिङ्गः पृथौतादृशः सम्मतो वक्रमन्दाह्वये ॥ २८ ॥
6.27.28 · p. 321
स्रग्विणीmetre not read in every linenearly स्रग्विणी
कट्वरस्तक्रके कुत्सिते वाच्यवत्चत्वरं स्थण्डिले चाङ्गनेऽध्वश्लिषि ।कर्बरो द्वीपिनि स्यात्तथा राक्षसेछित्वरश्छेदनद्रव्यधूर्त्तारिषु ॥ २९ ॥
6.27.29 · p. 321
स्रग्विणी
छत्वरो मन्दिरे स्यान्निकुञ्जे तथा-ऽथेत्वरो दुर्विधे नीचके चाध्वगे ।क्रूरकर्मण्यपि प्रोच्यते वाच्यव-त्पीवरः कच्छपे वारिधौ पीव्नि च ॥ ३० ॥
6.27.30 · p. 321
स्रग्विणी
[55b]तीवरो नाम्बुधौ व्याधवाची तथाजातिभेदेऽप्यथो धींवरो दासके ।पण्डिते पण्डितैर्वाच्यवत्कीर्तितःपुष्करं त्वम्बुनि व्योम्नि तूर्यानने ॥ ३१ ॥
6.27.31 · p. 322
स्रग्विणी
हस्तिहस्ताग्रके द्वीपतीर्थान्तरेवारिजे चौषधेऽसेः फले सायके ।पुंसि रागो[रगे]वृष्णिपक्ष्यन्तरेसङ्गरस्तु प्रतिज्ञाक्रियाकारयोः ॥ ३२ ॥
6.27.32 · p. 322
स्रग्विणी
कालकूटापदोरन्त्यलिङ्गे शमी-जे फले वर्करः स्याद्वयःस्थे पशौ ।नर्मभेदेऽप्यथो कर्करो दर्पणेभेद्यलिङ्गस्त्वसौ कीर्तितो ज्ञैर्दृढे ॥ ३३ ॥
6.27.33 · p. 322
स्रग्विणी
पुंसि वास्तव्यके वाणिजे नीवरोगह्वरं कन्दरे कैतवे संकटे ।भक्तसिक्थे यमे यक्ष्मके केसरेकौत्सिताम्बे दृढे( ? )पार्परो भस्मनि ॥ ३४ ॥
6.27.34 · p. 322
स्रग्विणी
चतुरश्चातुरो नेत्रगोचरे चाटुकारिणि ।चक्रगण्डौ तद्वदुभौ नियन्तरि च सम्मतौ ॥ ३५ ॥
6.27.35 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
शम्भौ स्वामिनि मन्मथे च विभवैराढ्ये भवेदीश्वरःपार्वत्यां गदिता स्त्रियामथ युगेऽस्त्री संशये द्वापरम् ।उत्पत्तिस्थलसङ्घसत्तमगतः पुं[56a]स्याकरो भास्कर-स्त्वग्नौ चार्यमणि प्रभाकरसमो ध्वान्ते घने शार्वरम् ॥ ३६ ॥
6.27.36 · p. 322
शार्दूलविक्रीडितम्metre not read in every line
हिंस्रे वाच्यसमोऽन्तिमे तु विपिने स्याद्दूरशून्येऽध्वनिक्लीबे प्रान्तरमत्र कोटरगतं दुग्धस्य फेने तु ना ।देशे शर्करयान्विते तु परवत्प्रोक्तो बुधैः शार्करो-ऽथोक्ष्णि स्यान्नरि शाक्वरो निगदितं छन्दोविशेषेऽन्तिमे ॥ ३७ ॥
6.27.37 · p. 322
शार्दूलविक्रीडितम्
शुण्ठीमुस्तकयोस्तु नागरमिदं सम्भोगबन्धान्तरेपौरे स्याच्चतुरेऽन्यवद्गतरुजि स्याद्वागरो वारके ।शाणे निर्नरके मुमुक्षुबुधयोः स्याद्भ्रामरं प्रस्तरेक्षौद्रे चाप्यथ पामरस्त्रिषु खले नीचे तथा कीर्त्तितः ॥ ३८ ॥
6.27.38 · p. 323
शार्दूलविक्रीडितम्
स्याद्वासरोऽस्त्री दिवसे च नाग-प्रभेदके ना पुनरिक्षुभेदे ।कान्तारमस्त्री विपिने सुदुर्गमेमार्गेऽङ्घ्रिधूलौ त्वपि पादरः स्यात् ॥ ३९ ॥
6.27.39 · p. 323
upajati mixed
पदोऽप्यलिन्देऽथ मतोऽर्क्कपर्णेमन्दार उक्तोऽपि च पारिभद्रे ।स्याद्देवदारावथ रागभेदेगान्धार उक्तो विषयान्तरे च ॥ ४० ॥
6.27.40 · p. 323
उपजातिः
सिन्दूरकेऽन्त्ये[56b]ऽथ जलस्य धृत्या-माधार आवापक आश्रये च ।स्याद्वेगवर्षे च सुहृद्बले स्या-दासार आद्ये गदितः प्रसृत्याम् ॥ ४१ ॥
6.27.41 · p. 323
इन्द्रवज्राmetre not read in every line
धूर्तेऽथ मन्दारतरौ गजेऽथरणे विदारो नरि दारणे च ।स्त्री शालपर्ण्यामपि रोगभेदेतथेक्षुगन्धार्थक ईरितोऽपि ॥ ४२ ॥
6.27.42 · p. 323
उपजातिः
रोगे विकारो विकृतावथेङ्गेव्यापार उक्तो नरि संस्थितौ च ।पुमान्निकारः परिभूतिवाचीतथैव धान्योत्किरणे प्रदिष्टः ॥ ४३ ॥
6.27.43 · p. 323
उपजातिः
भेदे प्रकारः सदृशे तथा स्या-ट्टङ्कार उक्तोऽद्भुतकुप्रसिद्ध्योः ।मौर्वीध्वनौ स्याच्छरयन्त्रके तुदण्डार उक्तोऽपि कुलालचक्रे ॥ ४४ ॥
6.27.44 · p. 324
इन्द्रवज्रा
मत्तद्विपे स्याद्वहनेऽथ दीनेपिण्डार उक्तो नरि निन्दनेऽपि ।स्यात्सैरिभीरक्षिति पादपेऽथतुषारमस्त्री तुहिने जलस्य ॥ ४५ ॥
6.27.45 · p. 324
उपजातिः
कणे सुनारस्तु भुजङ्गभाण्डेस्तन्ये च शून्याः कलविङ्ककेऽपि ।शिशौ कुमा[57a]रो युवराजकीर-स्कन्दाश्वचारे वरुणद्रुमे ना ॥ ४६ ॥
6.27.46 · p. 324
उपजातिःmetre not read in every line
जात्ये सुवर्णे चरमे स्त्रियां तुकुमारिकाशैलसुतानदीषु ।सहौषधौ स्याद्वनमालिकायांद्वीपे तथा जम्बुपदोत्तरस्थे ॥ ४७ ॥
6.27.47 · p. 324
उपजातिः
आहार उक्तोऽप्यशनक्रियायांहारे तथैवाहरणे प्रदिष्टः ।विहारमस्त्री किल भिक्षुगेहेतथा यतीनां चरणक्रियायाम् ॥ ४८ ॥
6.27.48 · p. 324
उपजातिः
तथा विलासे भ्रमणे गुहे नाकुथे कुठारः सुरते तु षण्ढे ।कोट्टार उक्तस्त्रिषु नागरेऽन्धौस्यात्पुष्करिण्या अपि पाटके च ॥ ४९ ॥
6.27.49 · p. 324
उपजातिः
दासे कडारः कपिलेऽन्यवत्स्यात्संभार ओघे नरि संभृतौ च ।केनार उक्तो नरकान्तरेऽपिशिरःकपालस्थितसन्धिगश्च ॥ ५० ॥
6.27.50 · p. 325
उपजातिः
सम्मार्जन्यवगुण्ठितेऽनलचटत्कारे तथा संकरःस्त्री पुंदूषितकन्यकास्वथ भवेत्पङ्कार आरोहणे ।सेतौ शैवलवारिकुब्जकगतः संस्कार उक्तो बुधैःसंकल्पप्रतियत्नयोरनुभवेऽथो पक्षिणां पञ्जरे ॥ ५१ ॥
6.27.51 · p. 325
शार्दूलविक्रीडितम्
[57b] सोपाने च तथैव हस्तिनखके शालारमुक्तं बुधैःकञ्जारो रविधातृहस्तिषु मुनौ कुक्षौ मयूरेऽपि च ।कोषाम्भोनिधिपारगैस्तु कनकालौ पुंसि विज्ञैर्मतोभृङ्गारोऽप्यथ स स्त्रियां निगदितो ज्ञैर्झिल्लिकायामपि ॥ ५२ ॥
6.27.52 · p. 325
शार्दूलविक्रीडितम्
अङ्गारस्तु महीसुते नरि न तु स्यादुल्मुके स स्त्रियांशृङ्गारः सुरतेऽस्त्रियां रसभिदि स्याद्धस्तिनां मण्डने ।क्लीबं नागजचूर्णदेवकुसुमे मार्जार ओतौ मतःखट्वाङ्गान्त[र]केऽथ विस्तृतिगतो विस्तार उक्तोऽपि च ॥ ५३ ॥
6.27.53 · p. 325
शार्दूलविक्रीडितम्
स्तम्बेऽथ द्विजभेदसूर्यगणयोर्व्यासे तथा माठरोऽथोद्धारोऽपि समुद्धृतावपि ऋणे रोद्ध्रे पुनः शाबरः ।पापे चाप्यपराधकेऽथ योषिति मतो ज्ञैः शूकशिम्ब्यामयंशारीरस्तु वृषे शरीरजनिते स्याद्वाच्यलिङ्गोपमम् ॥ ५४ ॥
6.27.54 · p. 325
शार्दूलविक्रीडितम्metre not read in every line
पुमान्करीरः कलशे द्रुभेदेस्त्री चीरिकायां करिदन्तमूले ।शौटीर उक्तः सुभटे वदान्येकिर्मीरमाहुर्नरि नागरङ्गे ॥ ५५ ॥
6.27.55 · p. 325
उपजातिः
निशाचरे कर्बुरके[58a]ऽन्यवत्स्या-च्छोणान्तरस्थे पुलिने शणीरम् ।भवेत्तथा दुर्दुरिकातटेऽथस्यात्प्रस्थपुष्पे नरि जम्बुवृक्षे ॥ ५६ ॥
6.27.56 · p. 325
उपजातिःmetre not read in every line
जम्बीर उक्तोऽथ शये च पीठे-प्यौशीरमुक्तं चमरे च दण्डे ।सौवीरमन्त्ये बदरारनालेस्रोतोञ्जने पुंसि तु देशभेदे ॥ ५७ ॥
6.27.57 · p. 326
इन्द्रवज्रा
टङ्के पुष्करमूले घुसृणे काश्मीरमप्यन्ते ।कश्मीरदेशजाते परलिङ्गं चक्षते चतुराः ॥ ५८ ॥
6.27.58 · p. 326
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 प्य (wrong syllable)
फेने च दाडिमे स्याद्धिण्डीरः स्याच्च डिण्डीरः ।वातिङ्गणेऽपि पुरुषे द्वावप्युक्तौ विपश्चिद्भिः ॥ ५९ ॥
6.27.59 · p. 326
metre not recognised
चन्दनकन्दुककामे भवति पटीरः क्वचिन्न स्त्री ।जघनप्रदेशदर्योः कटीरमन्त्येऽथ पाटीरः ॥ ६० ॥
6.27.60 · p. 326
उपगीतिः
वङ्गे च वातिके स्यात्तितउनि धाराधरे तद्वत् ।केदारवेणुसारे मुडीरः ( ? ) पुंसि शक्ते च ॥ ६१ ॥
6.27.61 · p. 326
metre not recognised
धूसरः पाण्डुरे रासभे पुंस्यसौकूबरः कुब्जके सम्मतश्चारुणि ।अस्त्रियां स्यन्दनाङ्गान्तरेऽथो वृषेशृङ्गहीने नरे तूबरोऽश्मश्रुणि ॥ ६२ ॥
6.27.62 · p. 326
स्रग्विणी
व्यञ्जनोने तथा ना कषाये र[58b]सेकेसरः स्त्री न किञ्जल्कवाची यदि ।पुंसि पुंनागके चम्पके शारदेस्याच्च सिंहच्छटावाचकस्तादृशः ॥ ६३ ॥
6.27.63 · p. 326
स्रग्विणीmetre not read in every line
गन्तरि पक्षिणि पुंसि पतेरःस्त्री तु करेणुपुराङ्गनयोः स्यात् ।पुंसि तरूत्पलसंहतिवाचीकृच्छ्रकजीविनि किं च कठेरः ॥ ६४ ॥
6.27.64 · p. 326
दोधकम्
नन्दितरौ धनदे च कुबेरोऽथो नकुले द्युपतौ द्युपगोपे ।कोटिरमाहुरथो कठिने स्यात्पूर्णगतश्च परत्र कठोरः ॥ ६५ ॥
6.27.65 · p. 327
दोधकम्
शिशौ किशोरस्तुरगस्य सूर्येस्यात्तैलपर्ण्यां तरुणे च बस्ते ।अथागुरुः स्त्री नवशिंशपायांस्याज्ज्योङ्गके ना लघुनि त्रये स्यात् ॥ ६६ ॥
6.27.66 · p. 327
उपजातिः
किंकारुर्ना कङ्कपत्रे च कङ्केशूके भार्यारुः पुनः शैलवृक्षे ।स्याद्वातायोर्भेदके योऽन्यनार्यांपुत्रोत्पादी क्रीडया सोऽपि शस्तः ॥ ६७ ॥
6.27.67 · p. 327
शालिनी
तरुवानरौ कुठारू दासेरावुष्ट्रदासिकापुत्रौ ।हेम शटी चेति द्वौ कर्चूरौ वर्णयन्त्यार्याः ॥ ६८ ॥
6.27.68 · p. 327
आर्या
वाशुरो नरि खरेऽथ वासिता-रात्रिगो भवति चै[59a]ष योषिति ।स्यान्नरेन्द्र इह वार्तिकभूप-कालकूटभिषगर्थक उक्तः ॥ ६९ ॥
6.27.69 · p. 327
स्वागताmetre not read in every line
विद्याधरे रक्षसि रक्षकेलौमहत्यजे पुंसि गणे कटप्रूः ।खर्जूर उक्तो नरि वृक्षभेदेस्याद्वृश्चिके रूप्यकलार्थकोऽन्त्ये ॥ ७० ॥
6.27.70 · p. 327
उपजातिः
सिन्दूर उक्तो नरि वृक्षभेदेस्त्री रोचनीलोहितचेलिकासु ।महौषधौ रक्तकरेणुकेऽन्त्येवल्लूरमन्त्ये किल वाहने स्यात् ॥ ७१ ॥
6.27.71 · p. 327
उपजातिः
तथा वनक्षेत्रक ऊषरे तुवराहमांसे त्रिषु शुष्कमांसे ।त्रिष्वेकतानेऽपि निराकुले स्या-देकाग्रमग्नौ द्युपतौ महेन्द्रः ॥ ७२ ॥
6.27.72 · p. 328
उपजातिः
जलेन्द्र उक्तो वरुणेऽम्बुधौ चस्याज्जम्भले देहजलक्षणे तु ।सामुद्रमाहुर्लवणेऽब्धिजातेविशेष्यलिङ्गं सुधियो वदन्ति ॥ ७३ ॥
6.27.73 · p. 328
उपजातिः
खण्डाभ्रमभ्रस्य च लेश आहुःस्त्रीणां च दन्तक्षतभेदगं स्यात् ।काञ्च्यां कटित्रं कटिगे च वस्त्रेवर्माङ्गके चापि वदन्ति सन्तः ॥ ७४ ॥
6.27.74 · p. 328
इन्द्रवज्रा
शिलीन्ध्रमुक्तं कदलीप्रसूनेछत्राकसंज्ञे त्रिपुटाभिधायाम् ।मीने द्रु[59b]मे नाथ मृदि स्त्रियां स्या-द्गण्डूपदीनाम्नि खगीविशेषे ॥ ७५ ॥
6.27.75 · p. 328
उपजातिःmetre not read in every line
तमिस्रं तमःकोपयोः पुंसि हीनंस्त्रियां तत्ततौ कृष्णपक्षस्य रात्रौ ।कलत्रं पुनर्दुर्गभूमौ नृपाणांगृहिण्यां करौ पण्डितैरुक्तमेतत् ॥ ७६ ॥
6.27.76 · p. 328
भुजङ्गप्रयातम्
पवित्रं जले वर्षणे दर्भताम्रेभवेन्न स्त्रियां वाच्यवन्मेध्यवाचि ।वृषाङ्के तु सावित्र एष स्त्रियां स्या-द्विशेषे तथा देवताया द्विजानाम् ॥ ७७ ॥
6.27.77 · p. 328
भुजङ्गप्रयातम्
त्वक्पत्रं तु वराङ्गौषधके प्रोक्तं [ स्त्रियां ] च कारव्याम् ।दैत्यारिरिन्द्रहर्योर्मुनिपक्षिभिदोस्तु तित्तिरिः [ प्रोक्तः ] ।स्यान्मन्दुराश्वशाला … ।… भ्यर्णगवेस्त्वर्थका तद्वत् ( ? ) ॥ ७९ ॥
6.27.79 · p. 328
metre not recognised
असुरो दानवरव्योः स्त्री तु रजन्यां तथा वास्याम् ।मसुरमसूरौ द्वंद्वे धान्यविशेषे स्त्रियां तु वेश्यायाम् ॥ ८० ॥
6.27.80 · p. 329
उद्गीतिः
स्त्री शर्करा खण्डविकार उक्ता-श्मीरे ( ? ) तथा कर्परकांशकेऽपि ।देशे तथा शर्करिले च खण्डेतथैव रुग्भिद्यपि कीर्तितासौ ॥ ८१ ॥
6.27.81 · p. 329
उपजातिः
दुःस्पर्शशट्योरपि शूकशिम्ब्यांस्यात्कच्छुरा[60a]यामत पुंश्चले तु ।भेदेऽथ दर्यामपि नर्मरा स्या-द्भाण्डे मुरायामपि निष्कलासु ॥ ८२ ॥
6.27.82 · p. 329
इन्द्रवज्राmetre not read in every line
छन्दोभेदे बालपत्रे च विज्ञै-र्गायत्र्युक्ताथान्यवेश्मस्थितायाम् ।स्वाधीनायां शिल्पकर्त्र्यां स्त्रियां स्यात्सैरन्ध्रीऽति स्यात्तथा जारजायाम् ॥ ८३ ॥
6.27.83 · p. 329
शालिनी
सुन्दर्युक्ता वृक्षयोषिद्विभेदेरात्रौ नार्यां शर्वरीं प्राहुरार्याः ।तुम्बर्युक्ता कुक्कुरावार्द्रयोश्चशक्वर्युक्ता मेखलायां च नद्याम् ॥ ८४ ॥
6.27.84 · p. 329
शालिनी
छन्दोभेदे मञ्जरी स्थूलमुक्ता-वल्लर्योः स्याच्छ्रामदाख्ये च वृक्षे ।वासोभेदे मर्मरी पीतदारौशुष्कानां तु स्याद्दलानां ध्वनौ ना ॥ ८५ ॥
6.27.85 · p. 329
शालिनी
शाकभिदि केशपाशे कबरी लवणाम्लयोरन्त्ये ।स्याद्ददरी च तथोक्तौ वाद्ये चानकं हित्वा ॥ ८६ ॥
6.27.86 · p. 329
metre not recognised
स्याज्झल्लरी च झलरी हुडुक्कवाद्ये च बालचक्रे च ।कावेरी तु हरिद्रापण्यवधूसिन्धुभेदेषु ॥ ८७ ॥
6.27.87 · p. 330
आर्या
चतूराः ।
पर्यङ्के परिवारे प्रगाढगात्रप्रबन्धे च ।आरम्भे च विवेके परिकर उक्तो बुधैर्व्राते ॥ ८८ ॥
6.27.88 · p. 330
metre not recognised
व्यसने[60b]च व्यतिषङ्गे व्यतिकर उक्तो विभाकरस्त्वग्नौ ।सूर्ये गूथे तु भवेद्गुह्ये चावस्करः पुंसि ॥ ८९ ॥
6.27.89 · p. 330
आर्या
कर्मकरः कीनाशे वेतनवृत्तौ तथा भृत्ये ।मूर्वायामपि बिम्ब्यां स्त्रियामथारुष्करं षण्ढे ॥ ९० ॥
6.27.90 · p. 330
metre not recognised
भल्लातके व्रणकरे विशेष्यलिङ्गं समाम्नातम् ।सहचर उक्तो द्वन्द्वे झिण्ट्यां सख्यौ निरोद्धरि च ॥ ९१ ॥
6.27.91 · p. 330
metre not recognised
उलूककाकोदरयातुधान-शृगालवाची तु निशाचरः स्यात् ।स्त्री पांसुलायामथ यूथतः स्याद्भ्रष्टे पृथक्चारिणि चापि नागे ॥ ९२ ॥
6.27.92 · p. 330
उपजातिः
चन्द्रे तथा पक्षचरोऽथ लोकेचराचरं जङ्गम इङ्गिते च ।स्वसैन्यभीतावभिमार आजौवधेऽपि तादृक् प्रथितः प्रवीणैः ॥ ९३ ॥
6.27.93 · p. 330
उपजातिः
दशपुरं पुरि मुस्तकदेशयोःप्रतिसरस्त्रिषु मण्डनमाल्ययोः ।करगतेऽपि च मङ्गलसूत्रकेव्रणविशोधनकङ्कणवाचकः ॥ ९४ ॥
6.27.94 · p. 330
द्रुतविलम्बितम्
नियोज्यारक्षयोर्मन्त्रभेदे स्यात्सैन्यपृष्ठके ।भवेत्परिसरो मृत्यौ दैवप्रान्तप्रदेशयोः ॥ ९५ ॥
6.27.95 · p. 330
अनुष्टुप्
दिगम्बरः पुंसि हरेऽन्यवत्तुक्षु[61a]द्रे च नग्ने तिमिरे तु षण्ढे ।पीताम्बरो दैत्यरिपौ नटे चकदम्बरः पुंसि हलायुधे च ॥ ९६ ॥
6.27.96 · p. 331
उपजातिःmetre not read in every line
विशेष्यवन्निन्दितवस्त्रयुक्तेकादम्बरं पुंसि न मद्यसीध्वोः ।दध्यग्रभागेऽप्यथ सारिकायांस्त्री कोकिलायां गिरि तद्वदेव ॥ ९७ ॥
6.27.97 · p. 331
उपजातिः
देहल्यां जन्तुफलेऽप्युदुम्बरः पण्डके पुंसि ।ताम्रे कुष्ठविभेदे स्त्रीपुंसाभ्यां विहीनः स्यात् ॥ ९८ ॥
6.27.98 · p. 331
metre not recognised
औदुम्बरः कृतान्ते पित्तजकुष्ठामये त्वन्ये ।नीलाम्बरो हलधरे निशाचरे क्रूरलोचने तद्वत् ॥ ९९ ॥
6.27.99 · p. 331
उद्गीतिः
आडम्बरस्तु गजगर्जिततूर्यनाद-प्रारम्भणेषु न च योषिति कीर्तितो ज्ञैः ।कामे निषद्वरमुशन्ति च शाद आद्येरात्रौ पुनर्भवति किं च निषद्वरीति ॥ ३०० ॥
6.27.300 · p. 331
वसन्ततिलका
उपह्वरः स्यान्निकटे रहोर्थेक्लीबे रथे ना परवत्पुनः स्यात् ।अभ्यर्णगन्तव्य इहापि देशे-ऽथेन्दीवरं नीलसरोरुहेऽन्त्ये ॥ १ ॥
6.27.1 · p. 331
उपजातिः
स्त्रियां तुवर्यामथ भैरवेऽद्रौकालिञ्जरो योगसुचक्रमेले ।विश्वंभरः केशवश[61b]क्रयोः स्यात्स्त्री भुव्यथ स्त्री न दु[रोद]रः स्यात् ॥ २ ॥
6.27.2 · p. 331
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 8 श (wrong syllable)
द्यूते पणे द्यूतकरे तु पुंसिलम्बोदरो मेदुरकुक्षियुक्ते ।गजाननेऽथ प्रतिजल्पहीनेश्रेष्ठेऽधरेऽनुत्तरमामनन्ति ॥ ३ ॥
6.27.3 · p. 331
उपजातिः
वणिजि तुलाधारः स्याद्राशौ तद्वत्तुलायाश्च ।जलदे तु तोयधारः सुतिषणे (?) योषिति प्रोक्तः ॥
6.27.213 · p. 332
metre not recognised
धुरन्धरस्तु धूर्वहे धवाभिधे तथा द्रुमे ।नभश्चरो घनेऽनिले विहङ्गमे कटप्रुवि ॥ ५ ॥
6.27.5 · p. 332
पञ्चचामरम्
विष्णौ मतश्चक्रधरो भुजङ्गेस्याद्ग्रामजालिन्यथ नागराजे ।स्याद्वेसरे चाश्वतरोऽथ वीर-तरं शरे वीरणके च षण्ढे ॥ ६ ॥
6.27.6 · p. 332
उपजातिः
अत्यन्तवीरे परलिङ्गवत्स्या-दुद्दन्तुरस्तूत्कटवक्रदन्ते ।उत्तुङ्गके चाथ गणाधिनाथेद्वैमातुरः स्यान्मगधाधिपेऽपि ॥ ७ ॥
6.27.7 · p. 332
इन्द्रवज्रा
प्रणप्तृपुत्रे तु परंपरोऽस्त्रीस्त्री त्वानुपूर्व्येऽपि च संततौ च ।धाराधरो वारिधरे कृपाणेधराधरो भूभृति केशवे च ॥ ८ ॥
6.27.8 · p. 332
उपजातिः
उरोजयोः कोशकरे कशेरु-ण्यम्भोधरे स्याद[62a]पि नालिकेरे ।पयोधरोऽथो कलिकार उक्तःकरञ्जधूम्याटकयोस्तथैव ॥ ९ ॥
6.27.9 · p. 332
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 ण्य (wrong syllable)
स्यात्पीतमौलावथ चोपमादौभवेदलंकार इह स्रगादौ ।द्रुमोत्पलारग्वधयोस्तथैवस्यात्कर्णिकारोऽप्यथ चर्मकारः ॥ १० ॥
6.27.10 · p. 332
उपजातिः
पादूकरे चर्मकरौषधौ स्त्रीमाहिष्यतः स्यात्तनये करण्याः ।तक्षण्यपि स्याद्रथकार आद्येभटे समे च प्रतिकार उक्तः ॥ ११ ॥
6.27.11 · p. 332
उपजातिः
स्याद्दक्षिणावर्तजले सिताभ्रेतथा नृलिङ्गो घनसार उक्तः ।स्यात्कृष्णसारो हरिणप्रभेदेस्त्री शिंशपायामपि वज्नवृक्षे ॥ १२ ॥
6.27.12 · p. 333
उपजातिः
वङ्गे च लोहे मलयाचले चकोषप्रवीणा गिरिसारमाहुः ।गोमेदके स्यादपि पीतसारःप्रोक्तं प्रवीणैरपि चन्दने च ॥ १३ ॥
6.27.13 · p. 333
इन्द्रवज्रा
शिङ्गोर्द्रुमे पुंसि च शालसारःस्यात्सूत्रधारो नरि नाट्यपात्रे ।शिल्पिप्रभेदे च शचीपतौ चस्यद्दण्डधारः क्षितिपे यमे च ॥ १४ ॥
6.27.14 · p. 333
इन्द्रवज्रा
स्यात्संप्रहारः समरे गतौ चद्वारस्थिते तु प्रतिहार उक्तः ।[62b] द्वारे तथानन्तरकेऽभिहारो-ऽभियोगके संनहने च चौर्ये ॥ १५ ॥
6.27.15 · p. 333
इन्द्रवज्राtwo metres in one verse
पणे स्थितौ तु व्यवहारमाहु-स्तथा विवादे नरि च द्रुभेदे ।अथावहारोऽपि निमन्त्रणेऽप-नेतव्यवस्तुन्यपि तस्करे च ॥ १६ ॥
6.27.16 · p. 333
उपजातिः
स्याद्द्यूतयुद्धादिकविश्रमेऽपिग्राहाख्ययादस्यपि संप्रदिष्टः ।स्यात्खड्गकोषे परिवार आद्येपरिच्छदे चापि कुटुम्बके च ॥ १७ ॥
6.27.17 · p. 333
उपजातिः
पारावारोऽम्भोनिधौ पुंसि तीर-द्वंद्वे त्वन्त्येऽथावतारश्च तीर्थे ।न्यक्संचारे पुष्करिण्यादिकेऽथा-कूपारः स्यात्कूर्मराजे समुद्रे ॥ १८ ॥
6.27.18 · p. 333
शालिनी
भ्रष्टे तारापथतः शिशुमारः स्यात्पलाङ्गे च ।पुण्ड्रेक्षौ सुकुमारः कोमलवाची विशेष्यलिङ्गोऽयम् ॥ १९ ॥
6.27.19 · p. 334
उद्गीतिः
करवीरस्तु कृपाणेऽश्वमारवृक्षे च दैत्यभेदे च ।अदितौ च पुत्रवत्यां स्त्रियां भवेच्छ्रेष्ठगव्यां च ॥ २० ॥
6.27.20 · p. 334
आर्या
पदालिके स्याद्गृहधूमके चस्याच्छक्रगोपे च नृपान्तरेऽपि ।ना धुन्धुमारोऽप्यथ कर्णपूरःशिरीषके नाप्यसितोत्पले तु ॥ २१ ॥
6.27.21 · p. 334
उपजातिः
अस्त्री वतंसेऽथ प[63a]वौ च तार्क्ष्येसिंहे पिके कर्कटके च शूरे ।मखानले किञ्च जराटके चबुधा महावीरमिह स्मरन्ति ॥ २२ ॥
6.27.22 · p. 334
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 अ (wrong syllable); pāda 2, syllable 1 सिं (wrong syllable)
स्यादात्मवीरो नरि शालपुत्रेविदूषके प्राणवति प्रदिष्टः ।स्याद्बार्बटीरो गणिकातनूजा-म्रास्थङ्कुरे स्याच्च कुचेलिकायाम् ॥ २३ ॥
6.27.23 · p. 334
उपजातिः
ब्रह्मणि चित्राटीरो घण्टाकर्णोपहाराय ।अङ्कयति यस्य भालं निहतच्छागास्रबिन्दुभिस्तत्र ॥ २४ ॥
6.27.24 · p. 334
उद्गीतिः
मुक्ताधिकारसचिवे नरि पात्रटीरःस्याल्लोहकांस्यदहनानवभाजनेषु ।स्यात्पिङ्गलेऽथ करकासु कणेऽम्भसश्चधाराङ्कुरो भवति सैन्यमुखे च तद्वत् ॥ २५ ॥
6.27.25 · p. 334
वसन्ततिलका
ग्राहे समुद्रारुरिहापि सेतो-र्बन्धे तथा पुंसि तिमिङ्गलेऽपि ।स्याद्विश्वकद्रुर्मृगयाप्रकीर्णेशुनि ध्वनौ तादृश एव धूर्ते ॥ २६ ॥
6.27.26 · p. 334
उपजातिः
अथासिपत्रो नरि कोशकारेभवेत्तथासौ नरकान्तरेऽपि ।मयूरके राजशुके च दार्वा-घाटे नृलिङ्गः शतपत्र उक्तः ॥ २७ ॥
6.27.27 · p. 335
उपजातिः
सरोरुहेऽल्पेऽप्यथ वातपु[63b]त्रोवृकोदरे धूर्तहनूमतोश्च ।स्मरे हये चापि वदन्ति लक्ष्मी-पुत्रं धनाद्यैस्तु भृते च पात्रे ॥ २८ ॥
6.27.28 · p. 335
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 10 पु (wrong syllable)
वर्धापकं स्यादिह पूर्णपात्र-मथो महामात्र इह प्रधाने ।समृद्धके हस्तिपकाधिपे चा-थो बिन्दुशारीफलके वले च ॥ २९ ॥
6.27.29 · p. 335
उपजातिः
स्याद्बिन्दुतन्त्रं किल रागसूत्रंतूलास्थसूत्रेऽपि च पट्टसूत्रे ।ताटङ्कवाचीह च ताडपत्रंस्यात्ताडपत्री मृतभर्तृकायाम् ॥ ३० ॥
6.27.30 · p. 335
इन्द्रवज्रा
पुंस्यग्निहोत्रो दहने द्वयोनंहविष्यथाग्नौ तरणौ च दिष्टः ।ज्ञैर्वीतिहोत्रोऽप्यथ वीरमान्येस्याद्वीरभद्रो हयमेधकाश्वे ॥ ३१ ॥
6.27.31 · p. 335
उपजातिः